________________
[ चतुर्थ
सम्मतितस्वसोपाने प्रमाणमेवेत्ययोगव्यवच्छेदेनावधारणमनुपपन्नं मीमांसकस्य, सर्वज्ञस्वीकारे च चोदनैव त्रैकालिकमर्थमवगमयितुं समर्था नान्या काचिदित्यभिधानमसङ्गतं स्यादित्युभयतःपाशा रज्जुः, अतो यदि सिद्धं शासनमभ्युपगम्यते तदा तजिनप्रणीतमेवाभ्युपगन्तव्यमिति मूलकृता मीमांसकापेक्षया प्रसङ्गसाधनं युक्तमनुष्ठितमिति स्थितम् ।।
इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्वसोपानस्य
वेदापौरुषेयत्वभङ्गाभिधं तृतीयं सोपानम् ॥
अथ सर्वज्ञसाधनम् । ननु भवतु मीमांसकापेक्षया प्रसङ्गसाधनम् , अपौरुषेयत्वसाधकप्रमाणाभावेन शासनस्यापौरुषेयत्वासम्भवात् , सर्वज्ञप्रणीतत्वानभ्युपगमे तत्प्रामाण्यस्याप्यसम्भवाञ्च , ये तु
शासनस्याप्रामाण्य स्वीकुर्वन्ति तान् प्रति जिनः सर्वज्ञस्तत्प्रणीतत्वाच्छासनं प्रमाणमिति 15 धक्तव्यं तन्न सम्भवति सर्वशे प्रमाणाभावात् , प्रमाणाविषयस्य च सयवहारविषयत्वा
सम्भवात् , तथाहि ये सदुपलम्भकप्रमाणागोचरा भावा न ते प्रेक्षावतां सद्व्यवहारयोग्याः, यथा नाकपृष्ठादयस्तथात्वेनाभ्युपगमविषयाः, सदुपलम्भकप्रमाणाविषयश्च समस्तवस्तुव्यापिज्ञानवान पुरुष इति सद्व्यवहाराविषयत्वसाधिकाऽनुपलब्धिः, न हि तथाविधः पुरुषः
प्रत्यक्षसमधिगम्यो येन हेतोरसिद्धता भवेत् , पुरोवर्तिप्रतिनियतरूपादिविषयकचाक्षुषादि 20 विज्ञानानां परगतकतिपयग्राहिज्ञानमात्रस्यापि ग्रहणासमर्थानां निखिलविषयज्ञानस्य तदध्या
सितस्य वा पुरुषस्यालम्बने सामर्थ्याभावात् । न वाऽनुमानसमधिगम्यः, निश्चितस्वसाध्य. प्रतिबद्धपक्षधर्महेतूदितस्यैवानुमानस्य प्रमाणतया तथाविधहेतोरत्राभावात् , न हि सकलपदाथैवेदिपुरुषसत्तालक्षणस्वसाध्येन हेतोः प्रतिबन्धः प्रत्यक्षग्राह्यः, तदविषयत्वात्साध्यस्य, नानु.
मानग्राह्यः, अनवस्थापत्तेः न हि प्रतिबन्धग्रहं विना हेतोस्समुत्पद्यमानाऽनुमितिः प्रमाणभाव 25 भजते, नापि धर्मिसम्बन्धज्ञानं प्रत्यक्षतः, तादृशज्ञानवतः प्रत्यक्षे इन्द्रियकप्रत्यक्षस्याप्रवृत्तेः,
अन्यथा तेनैव सर्वज्ञवेदनेऽनुमानोपन्यासोऽनर्थको भवेत् । हेतुपक्षधर्मत्वज्ञानं विना धर्मिग्राह. कस्यानुमानस्याप्रवृत्त्याऽनुमानादपि न सर्वविदोऽवगमः। किञ्च सर्वज्ञसत्त्वे भावधर्मस्य हेतुत्वे भावस्यैवासिद्ध्या तद्धर्मस्यासिद्धता, अभावधर्मस्य हेतुत्वे विरोधः, तस्याभावाव्यभिचारिस्वात् । उभयधर्मस्य हेतुत्वे चानैकान्तिकता, भावाभावाव्यभिचारित्वेन भावस्यैवासाधकत्वात् ।
"Aho Shrutgyanam"