SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] वेदापौरुषेयताभङ्गः। प्रवृत्तिमासादयत् तदेव साध्यं व्यावर्त्तयितुं शक्नोति, एकस्यैकदैकत्र विधिप्रतिषेधयोर्विरोधात् , अत एव न प्रकरणसमत्वमपि, स्वसाध्याविनाभूतहेतुमद्धर्मिणो विपरीतधर्मवत्त्वासम्भवात् । न चाखिलं वेदाध्ययनं गुर्वध्ययनपूर्वकं वेदाध्ययनवाच्यत्वादाधुनिकाध्ययनवदिति प्रत्यनुमानसद्भावात् प्रकृतहेतोः प्रकरणसमत्वं पक्षस्य वाऽनुमानबाधितत्वं स्यादिति वाच्यम, यत: किमत्र हेतुः अध्ययनशब्दवाच्यत्वं किं वा कर्तुरस्मरणरूपो विवक्षितः तत्र प्राथमि. 5 कस्य हेतोनिश्चितकर्तकेषु भारतादिष्वपि सद्भावेनानैकान्तिकत्वं भवेत् , किश्च यथाभूतानां पुरुषाणामध्ययनपूर्वकं वेदाध्ययनं दृष्टं तथाभूतानामेवाध्ययनपूर्वकत्वं यद्यध्ययनवाच्यत्वं साध. यति तदा सिद्धसाधनम्, यद्यन्यथाभूतानामित्युच्यते तदाऽप्रयोजको हेतुः । न च कर्बस्मरणविशिष्टमध्ययनशब्दवाच्यत्वं हेतूक्रियत इति वाच्यम् , विशेष्यांशस्य वैयर्थात् , केवलस्य विशेषणस्यैव गमकत्वसम्भवात् । इष्टत्वेऽपि न विशेषणमभावप्रमाणरूपम् , अभावप्रमाणस्य 10 प्रामाण्याभावात् , सदुपलम्भकप्रमाणपञ्चकनिवृत्त्यभावाच्च, पौरुषेयत्वानुमापकस्य नररचितरचनाऽविशिष्टत्वलक्षणानुमानस्य दर्शितत्वात् । नापि कर्चस्मरणमनुमानरूपम् , व्यधिकरणत्वात् , अस्मर्यमाणकर्तृकत्वस्य हेत्वर्थत्वे तु भारतादौ निश्चितकर्तृकेऽनैकान्तिकत्वम , न च तत्र परैः कर्ता स्मर्यत इति वाच्यम् , परकीयकर्तृस्मरणस्य तव प्रमाणत्वे वेदेऽपि परैः कर्तुः स्मरणाद्भवतोऽपि हेतोरसिद्धत्वापत्तेः । न च वेदे कर्तविशेषे विप्रतिपत्तिसद्भावेन नासिद्धतेति 1 वाच्यम् , तथा सति कर्तविशेषस्मरणस्यैवासत्यत्वेन सामान्यतः कर्तृस्मरणस्याबाधितत्वात् अन्यथा कादम्बर्यादीनामपि कर्तृविशेषे विप्रतिपत्तेः कर्तृमात्रस्मरणस्यासत्यत्वेन तत्राप्यस्मयं. माणकर्तृकत्वस्य सद्भावादनैकान्तिकत्वं स्यात् । न च कादम्बर्यादौ कर्तविशेष एव विप्रतिप. त्तिर्न तु कर्तृसामान्ये, वेदे तु कर्तृसामान्ये ऽपीति वाच्यम्, विप्रतिपत्त्या कर्तृस्मरणस्यासत्यतेवारमर्यमाणकर्तृकत्वस्याप्यसत्यत्वापत्तेः विप्रतिपत्तेरविशेषात् । न वा कर्तुः स्मरण- 20 योग्यत्वे सति अस्मर्यमाणकर्तृकत्वं हेत्वर्थः स च न सिद्धकर्तकेषु वर्तत इति नानैकान्तिक इति वाच्यम्, आगमान्तरेऽप्यस्य हेतोः सद्भावे बाधकाभावात् सन्दिग्धविपक्षव्यावृत्तिकत्वेनानैकान्तिकतातादवस्थ्यात्, कर्तुः स्मरणयोग्यत्वलक्षणस्य विशेषणस्य विषक्षेण पौरुषेयत्वेन सह विरोधस्यासिद्धत्वाद्वैयर्थ्याच्च । तस्मादपौरुषेयत्वसाधकप्रमाणाभावाच्छासनस्यापौरुषेयत्वासम्भवेन तस्य सर्वज्ञप्रणीतत्वानभ्युपगमे प्रामाण्यासम्भवतो धर्म प्रेरणा 25 १ अत्र वेदाध्ययनवाच्यलं हेतुः, तच्च यदि निर्विशेषणं तदाऽनैकान्तिकम् , विषक्षेऽप्यस्याविरुद्धतया सद्भावसम्भवात् न खलु वेदाध्ययनवाच्यत्वं कर्तृपूर्वकत्वलक्षणविपक्षेण विरुद्धम् , भारताध्ययनवाच्यत्ववत्तस्य तेनाविरोधादिति भावः । यदि भारतादौ कर्तस्मृत्या बाध उच्यते तर्हि कर्तुर स्मरणं हेतुर्विवक्षितं शत्तत्र व्य. धिकरणमिति भावः ॥ २ अपौरुषेयत्वं वेदे कर्चस्मरणं चात्मनि वर्तते इति कर्चस्मरणस्य व्यधिकरणत्वम् । "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy