SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ : २० : सम्मतितत्त्वसोपाने [ तृतीयं यत्वासम्भवात् । नापि तदभिव्यक्तिक्रमस्य, अभिव्यक्तेरभावे तत्क्रमस्याप्यभावात् , तदभिव्यक्त्यभावश्च पूर्व प्रसाधित एव । तस्याः पौरुषेयत्वे तत्क्रमस्यापि पौरुषेयत्वाञ्च । न वा वर्णक्रमस्य, वर्णानां नित्यत्वेन तन्तुपटवत्कालकृतस्य व्यापकत्वेन मुक्तावलीवद्देशकृतस्य वा क्रमस्यासम्भवात् । नापि वर्णानामपौरुषेयत्वम्, लौकिकशब्दवैदिकशब्दयोस्त्वयाऽभेदाभ्यु. 5 पगमेन लोकायतादिशास्त्राणां प्रमाणतापत्तेः, लौकिकवाक्येषूपलभ्यमानविवादासम्भवापत्तेः, लौकिकवैदिकशब्दयोः स्वरूपाविशेषेण सङ्केतग्रहणसापेक्षार्थप्रतिपादकत्वेनानुच्चार्यमाणयोरश्रूयमाणतया च समानत्वादपरविशेषाभावाच्च तयोः पौरुषेयत्वापौरुषेयत्वविभागानुपपत्तेश्च । न च नित्यत्वे पुरुषेच्छारशादर्थप्रतिपादकत्वं युक्तम् , उपलभ्यन्ते च यत्र पुरुषैः सङ्केति तास्तमर्थमविगानेन प्रतिपादयन्तः, अन्यथा नियोगाद्यर्थभेदपरिकल्पनमसारं स्यात् । 10 एवञ्च ये नररचितरचनाऽविशिष्टाः ते पौरुषेयाः, यथाऽभिनवकूपप्रासादादिरचनाऽविशिष्टा जीर्णकूपप्रासादादयः, नररचितरचनाऽविशिष्टश्च वैदिकं वचनमिति पौरुषेयत्वे प्रयोगः । न चाश्रयासिद्धो हेतुः वैदिकीनां तथाविधरचनाना प्रत्यक्षत उपलब्धेः। नाप्यसिद्धविशेषणः पक्षः, अभिनवकूपप्रासादादिषु पुरुषपूर्वकत्वस्य साध्यधर्मलक्षणस्य विशेषणस्य सिद्धत्वात् । न वा हेतुः स्वरूपासिद्धः, वैदिकीषु वचनरचनासु विशेषग्राहकप्रमाणाभावेन तदभावात् । अप्रा. 15 माण्याभावलक्षणविशेषस्य च पौरुषेयत्वनिराकरणासामर्थ्यात् । यादृशस्य च विशेषस्य तन्निराकरणसामर्थ्य तादृशविशेषस्याभावेनाविशिष्टता दुरुद्धरैव । नाप्यनैकान्तिकता, पौरुषेयेषु प्रासादादिषु नररचितरचनाऽविशिष्टताया दर्शनादपौरुषेयेषु चाकाशादिष्वदर्शनात् । न चापौरुषेयेष्वपि नररचितरचनाऽविशिष्टत्वमाशंक्यते तत्र तत्सद्भावे विरोधाभावात् , अतः सन्दिग्धविपक्षवृत्तित्वादनैकान्तिक इति वक्तव्यम् , तत्रापि तत्सद्भावे निश्चितपौरु20 थेयेषु प्रासादादिषु सकृदपि तस्य सद्भावासम्भवात् , अन्यहेतुकस्य ततःकदाचिदप्यभावात् | भावे वा तद्धेतुक एवासाविति नापौरुषेये तस्य सद्भावः शङ्कनीयः। अत एव न विरुद्धः, पक्षवृत्तित्वे सति विपक्ष एव वृत्तिर्यस्य सविरुद्धः, न चास्य विपक्षे वृत्तित्वम् । प्रत्यक्षानुमानागमबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वलक्षणं कालात्ययापदिष्टत्वन्तु नात्र सम्भवति, यत्र हि खसाध्याविनाभूतो हेतुर्मिणि प्रवर्तमानः स्वसाध्यं व्यवस्थापयति तत्रैव न प्रमाणान्तरं 25 , वेदो हि व्याख्यातः स्वार्थे प्रतीति जनयेत् नान्यथा, व्याख्यानच्च न स्वतः, व्याख्याभेदानुपपत्तेः, पुरुषाचेत् तर्हि व्याख्यानात्पौरुषेयादर्थप्रतिपत्तौ दोषाशंकाऽनिवृत्तिर्भवेत् , पुरुषा हि रागादिमन्तो विपरीतमप्यर्थ व्याचक्षाणाः समुपलभ्यन्ते, संवादेन प्रामाण्याझीकारेऽपौरुषेयत्वकल्पनवैयर्थम्, न च व्याख्यानानां संवादो दृश्यते, परस्परविरुद्धतया विधेः नियोगभावनाऽऽप्ताभिप्रायबलवदनिष्टाननुबन्धीसाधनतादिरूपार्थव्याख्यानादन्योन्यं विसंवादोपलम्भादिति भावः ॥ २ कारणतयेति भावः ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy