________________
सोपानम् ।
वेदापौरुषेयतामङ्गः। देकान्तभेदे ततस्तस्यानुपकारे तस्यैवासाविति सम्बन्धानुपपत्तिः, उपकारे चापरापरोपकारस्वीकारप्रसङ्गतोऽनवस्था भवेत् , अभेदे च तच्छक्तिप्रतिघाते वर्णस्वरूपमपि प्रतिहतमिति वर्णस्यानित्यत्वमेवायातम् , व्यञ्जकेनापि वायुना शक्तिप्रतिबन्धापनयनद्वारेण विज्ञानजननशक्तिमुद्भासयता वर्णस्वरूपमेवाविर्भावितं भवतीति वर्णस्य व्यञ्जकजन्यत्वमपि दुष्परिहरमेव, स्वभावभेदेन तत्स्वरूपभेदादन्यथा व्यञ्जकबलोद्भूतविज्ञानजननस्वरूपस्याव- 5 स्थानेऽनवरतं तज्ज्ञानोदयो भवेत् । श्रोत्रसंस्कारस्याभिव्यक्तित्वे तु सकृत्संस्कृतं श्रोत्रं सर्व. वर्णानेकदैव शृणुयात् , अञ्जनादिसंस्कृतं नेत्रं यथाऽविशेषेण सर्वान् गृह्णाति स्वविषयान् । न च प्रतिनियतवर्णश्रवणान्यथानुपपत्त्या कर्णमूलादि विभिन्नावयवसम्बद्धानां व्यञ्जकानामभ्युपगमान्न यौगपद्येन सर्वेषां वर्णानां श्रवणप्रसङ्गः, यथा ताल्वादिसंयोगविभागलक्षणनिमित्ताविशेषेऽपि प्रतिनियतानामेव वर्णानामुत्पत्तिरनित्यपक्षे, न हि गकारजनकैः संयोग- 10 विभागैः ककारादिरन्यो वर्णो जन्यत इति वाच्यम , इन्द्रियसंस्कारकाणां व्यञ्जकानां समानदेशसमानेन्द्रियग्राह्येष्वर्थेषु प्रतिनियतविषयग्राहकतया संस्कारकत्वस्यादर्शनात्, न ह्यञ्जनादिसंस्कृतं चक्षुः पुरस्थं कश्चन स्वविषयं गृह्णाति न कञ्चन, तथा बाधिर्यनिराकरणद्वारेण बलातैलादिना संस्कृतं श्रोत्रं स्वग्राह्यान् गकारादीन वर्णानविशेषेणैवोपलभमानमुपलभ्यते । किञ्च व्यञ्जकमिन्द्रियं संस्कुर्वद्यथावस्थितवस्तुग्राहकत्वेन यदीन्द्रियसंस्कारं विदध्यात्तदा 15 सकलनभस्तलव्यापिनो गादेः प्रतिपत्तिः स्यान्न चासौ दृष्टा, अथान्यथा न तर्हि वर्णस्वरूपप्रतिभास इति न तत्स्वरूपसिद्धिरिति न श्रोत्रसंस्कारोऽभिव्यक्तिः । एवमुभयसंस्कारोऽभिव्यक्तिरिति पक्षोऽपि प्रत्येकपक्षोक्तदोषानुषङ्गादुपेक्ष्य एव । तस्माद्गादिप्रत्यभिन्ना लूनपुनर्जातनखादिष्विवाप्रमाणैवातोऽन्तरलेऽनुपलम्भो गादीनां नानभिव्यक्तिनिमित्तः, एवञ्च पूर्वोपलब्धगादेरयमल्पो महान् कर्कशो मधुरो वा गादिरित्यबाधितमहत्वादिभेदभि- 20 नगकारादेः प्रतिभासनाद्गादिनानात्वसिद्धौ सामान्य सद्भावेन संकेतावगमस्य धूमादीनां व्याप्यवगमस्येव सम्भवात्परार्थशब्दोच्चारणोपपत्तौ तदन्यथानुपपत्त्या शब्दस्य नित्यत्वकल्पनमयुक्तमेव । किञ्च किं वर्णानां नित्यत्वमुत तत्क्रमस्य, आहोस्विद्वर्णाभिव्यक्तेरुत वा तदभिव्यक्तिक्रमस्येष्टम् , तत्र न तावद्वर्णाभिव्यक्तनित्यता, पुरुषप्रयत्नप्रेरितवायुजन्यत्वेनापौरुषे
------
----
१ तथा च प्रयोगद्वयम् . श्रोत्रं समानेन्द्रियग्राह्यसमानधर्मापन्नानामर्थानां ग्रहणाय प्रतिनियतसंस्कारकसंस्कार्य न भरति, इन्द्रियत्वात् , नयनपत् । तथा शब्दाः प्रतिनियतसंस्कारसंस्कायन्द्रियग्राह्या न भवन्ति, समानेन्द्रियप्रायित्वे सति युगपदिन्द्रियसम्बद्धत्वात् , कुम्भादिवदिति, एकेन्द्रियाभिसम्बद्धरूपरसादिभिराम्रफलगतळभिचारवारणाय सत्यन्तम् । व्यवहिताव्यवहितघटाभ्यां व्यभिचारवारणाय विशेष्यम् ॥
"Aho Shrutgyanam"