________________
सम्मतितस्वसोपाने
[तृतीयं प्रतिपन्नः इत्येव प्रतिपत्तेः, सा च सामान्यविशिष्टयोर्विशेषयोः सम्बन्धग्रहणे सति युक्ता न तु धूमसामान्यवह्निसामान्ययोः, तथा च सामान्यविशिष्टविशेषयोरेव गम्यगमकभावो वाच्यवाचकभावश्चाभ्युपगन्तव्यः, अन्यथा सामान्यस्यैव अनुमेयत्वे वाच्यत्वे वा दाहाद्य
र्थक्रियायास्तदसाध्यत्वात् तत्साध्यज्ञानाद्यर्थक्रियायाश्च सदैव समुद्भूतेरनुमेयस्य वाच्यस्य वा 5 सामान्यात्मकस्य प्रतिभासेऽपि दाहाद्यर्थिनां प्रवृत्त्यनुदयापत्त्याऽनुमेयवाच्यप्रतिभासयोरप्रामाण्यं भवेत् , तस्मात्सामान्यविशिष्टस्यानुमेयत्ववाच्यत्वयोरिव तथाविधस्यैव लिङ्गत्वं वाचकत्वश्चाभ्युपगन्तव्यमेव । न च व्यक्ति विना सामान्यस्यानुपपद्यमानतया व्यक्ती लक्षणातः प्रवृत्तिभविष्यतीति वाच्यम् , आदौ सामान्यप्रतिभासस्ततो व्यक्तिप्रतिभास इति
क्रमानुपलक्षणात् , तस्माद्भूमादेः सामान्यविशिष्टस्य विशेषस्य गमकत्ववच्छब्दादेर्वाच. 10 कत्वे सम्भवति किं नित्यत्वेन, विनापि तेनार्थप्रतिपत्तेः । ननु धूमादेर्गमकत्वं तत्र सामा.
न्यस्य सम्भवाद्भवतु नाम, शब्दे तु नास्ति तथाविधं सामान्य किञ्चित् , येन तस्य वाचकत्वं भवेत् । न च शब्दत्वं सामान्यमस्तीति वक्तुं शक्यम् , गोशब्दत्वेन गोः सम्बन्धा. ग्रहात , शब्दत्वस्यैवाभावाच्च न तद्व्याप्यानां गोशब्दत्वगत्वादीनां सत्त्वम् , वर्णान्तरस्य
ग्रहणे वर्णान्तरस्यानुसन्धानाभावाच्छन्दत्वादीनामभावः सिद्धः, दृष्टं हि यत्र सामान्य15 मस्ति तत्रैकस्य ग्रहणेऽपरस्यानुसन्धानम् , यथा शाबलेयग्रहणे बाहुलेयस्य । गादौ च गृह्यमाणे न कादीनामनुसन्धानमस्ति, तन्न शब्दत्वादीनां सम्भव इति चेन्मैवम् , कादिवर्णेषु अयमपि वर्णोऽयमपि वर्ण इत्यनुसन्धानस्यानुभूयमानत्वात् , कादौ गृह्यमाणे न मादीनामनुसन्धानमिति तु शाबलेयादावपि समानमिति गोत्वादीनामप्यभावप्रसङ्गेन न वक्तुं
शक्यम् , न हि शाबले यादौ गृह्यमाणेऽयमपि बाहुलेय इत्यनुसन्धानमस्ति, तथा च यथा 20 तत्र गौौरित्यनुगताकारा प्रतीति रस्ति तथात्रापि वर्णो वर्ण इत्यनुगताकारप्रतीतेः सद्भावेन
कथं न वर्णत्वादीनां सद्भावः, निमित्तस्योभयत्र तुल्यत्वात् । न चात्र श्रोत्रग्राह्यत्वमेव निमि. त्तम् , तस्यातीन्द्रियत्वेन निमित्ताग्रहणे तद्हणनिबन्धनानुगतप्रतीतेरसम्भवात् । न च गा. दिवर्णानां प्रत्यभिज्ञयैकत्वान्न तत्र गत्वादिसामान्यसम्भव, इति वाच्यम् , दलितपुनरुदि.
तनखशिखरादाविव प्रत्यभिज्ञाया भ्रान्तत्वात् , अन्तरालेऽदर्शनरूपबाधकस्योभयत्र समा. 25 नत्वात् । न च नखशिखरादेरन्तरालेऽदर्शन तदभावनिमित्तं गादीनामदर्शनन्तु अभिव्य. त्यभावनिमित्तमेव, न तु तदभावनिमित्तमिति वाच्यम् , यतो वायुविशेषेण वर्णस्य श्रोत्रस्योभयस्य चावारकाणां वायूनामपनयनमनुक्रमेण वर्णसंस्कारः श्रोत्रसंस्कार उभयसंस्कारश्वाभिव्यक्तिरिति वक्तव्यम् , तत्र वर्णसंस्कारस्याभिव्यक्तित्वाभ्युपगमे वायुनाऽऽवारकेण ज्ञानानुकूलशक्तिप्रतिघाताद्वर्णोऽपान्तराले ज्ञानं न जनयतीत्यभ्युपेयम, एवश्च तच्छक्तेर्वर्णाः
"Aho Shrutgyanam"