SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ सोपानम् । वेदापौरुषेयताभन तद्वाहकमिति चेत्तर्हि किमिदानी यादृशो वेदकरणासमर्थपुरुषयुक्तस्तरकर्तृपुरुषरहितः काल उपलब्धस्तादृशावेवातीतानागतौ कालौ साध्येते उतान्यथाभूतौ वा, न प्रथमः, सिद्धसाधनात् कचित्कालविशेषे वर्तमानसदृशे तत्कर्तृरहितत्वस्यास्माकमपीष्टत्वात् । न द्वितीयः, अप्रयोजकत्वात्कालत्वहेतोः सन्निवेशादिहेतोरिव, यथाभूतानामभिनवकूपप्रासादादीनां हि सन्निवेशादिकं बुद्धिमत्कारणपूर्वकत्वेन व्याप्तमुपलब्धं तथाभूतानामेव जीर्णकूपप्रासादादीनां 3 सनिवेशादिकं बुद्धिमत्कारणत्वप्रयोजकं भवति न त्वन्यथाभूतानां तत् । यदि त्वन्यथाभूतस्य कालस्य कालत्वं तद्रहिततां साधयेत्तर्हि अन्यथाभूतभूभूधरादीनां सन्निवेशादिकमपि बुद्धिमत्कारणपूर्वकत्वं साधयेदिति जगत्कर्तुरीश्वरस्य सर्वज्ञस्य सिद्ध्यापत्त्या वेदानामपौरुषेयत्वं न सिद्धयेत् । नापि शब्दादपौरुषेयत्वसिद्धिः, अन्योऽन्याश्रयात् , शब्दस्यापौरुषेयत्वसिद्धौ तस्य प्रमाणतयाऽपौरुषेयत्वं सिद्ध्येत्, सिद्धे च तस्मिन् प्रमाणं शब्दः स्यादिति, 10 नाप्युपमानात्तत्सिद्धिः, विधिवाक्यसदृशस्यापौरुषेयस्य कस्याप्यभावात् । नाप्यर्थापत्तेः, अपौरुषेयत्वाभावेऽनुपपद्यमानस्य कस्यचिद्धर्मस्य वेदेऽभावात् । नाप्रामाण्याभावस्तादृशो धर्मः, आगमान्तरेऽपि तादृशधर्मसद्भावेनापौरुषेयत्वप्रसङ्गात् । नाप्यतीन्द्रियार्थप्रतिपादनं तादृशो धर्मः, तस्याप्यागमान्तरे समानत्वात् । ननु परार्थवाक्योच्चारणान्यथानुपपत्त्या - पौरुषेयताप्रतिपत्तिः, तथाहि अगृहीतसंकेतस्य पुरुषस्य वाक्यादर्थप्रतिपत्तेरभावेन स्वार्थे- 15 नावगतसम्बन्ध एवं शब्दोऽथं गमयति, सोऽयं सम्बन्धावगमः प्रत्यक्षानुमानार्थापत्तिभ्यः मम्पद्यते, यथा देवदत्तः गामभ्याज एनां शुक्लेन दण्डेनेत्यादौ वाक्ये प्रतिपन्नसंकेताय वृद्धेन प्रयुक्ते सति पार्श्वस्थोऽव्युत्पन्नसंकेतः शब्दार्थों प्रत्यक्षेण प्रतिपद्यते, श्रोतृचेष्टालक्षणलिङ्गेन तस्य गवादिबोधमवगच्छति, तत्प्रतीत्यन्यथानुपपत्त्या च शब्दस्य तत्र शक्ति निर्धारयति तदेवं सङ्गत्यवगमो न सकृद्वाक्यप्रयोगात्सम्भवति, वाक्यात्सं मुग्धार्थप्रतिपत्ताववयवशक्ते- 20 रावापोद्वापाभ्यां निश्चयात् । पुनः पुनरुचारणचास्थिरत्वे शब्दस्य न सम्भवति, तदभावे च कथं वाचकशक्तरन्धयव्यतिरेकतोऽवगमः, अतःपरप्रबोधाय वाक्यमनुच्चारणीयं भवेत् उच्चार्यते च प्रेक्षावद्भिः, तस्मात्परार्थवाक्योच्चारणान्यथानुपपत्त्या गृहीतशक्तिकोऽर्थप्रतिपादकः शब्दो नित्योऽभ्युपेयः । न च सादृश्यादेकत्वेन निश्चीयमानो भूयो भूय उच्चार्यमाणशब्दोऽर्थ गमयतीति वाच्यम् , सादृश्येन शब्दादर्थाप्रतिपत्तेः, य एव हि सम्बन्धग्रहणसमये मया प्रति. 25 पन्नशब्दः स एवायमित्येकत्वेन प्रतीयमानो वाचकतयाऽध्यवसीयते न पुनः सदृशतया, अन्यथा शब्दादर्थप्रतीतिर्धमरूपा भवेत् , अन्यत्र सङ्केतग्रहादन्यतो बोधाच्चेति चेत्र, अनित्यस्यापि शब्दस्य धूमादेरिवावगतसम्बन्धस्यार्थप्रत्यायकत्वसम्भवात् नहि धूमत्वादिकं सा. मान्यं वह्नयादिसामान्यस्य गमकम् , धूमत्वान्मया वह्निः प्रतिपन्न इत्यप्रतिपत्तेः, धूमावह्निः "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy