________________
सम्मतितत्वसोपाने
[ तृतीयं चेत्तदा तस्यागमान्तरेऽपि सद्भावेन व्यभिचारः । तदन्यवस्तुविषयज्ञानस्वरूपं तदिति चेत् तर्हि तदन्यस द्विषयत्वेन न तदभावाख्यं प्रमाणं स्यात् , तस्य सद्विषयत्वविरोधात् । न च पौरुषेयत्वादन्यो यस्स एव पौरुषेयत्वाभावः, तद्विषयं ज्ञानमेव तदन्यज्ञानमुच्यते तचा.
भावप्रमाणमिति वाच्यम् , सर्वसम्बन्धिप्रमाणपत्रकाभावस्यासिद्धत्वेनाभावप्रमाणोत्थापक5 त्वासम्भवात् , स्वसम्बन्धिप्रमाणपञ्चकाभावस्याऽऽगमान्तरेऽपि सम्भवेन व्यभिचारात् ।
न चागमान्तरे परेण पुरुषसद्भावस्वीकारान्न स प्रमाणपञ्चकाभावोऽभावप्रमाणोत्थापक इति वाच्यम् , भवतः पराभ्युपगमस्याप्रमाणत्वात् । वेदेऽपि परेण पुरुषसद्भावाभ्युपगमेन प्रमाणताप्रसङ्गाच्च । किश्च प्रमाणपञ्चकाभावो ज्ञातः सन् यद्यभावप्रमाणस्योत्थापकस्तर्हि अनवस्था
तज्ज्ञानस्याप्यपरप्रमाणपञ्चकाभावेन ज्ञातेन भावात् । यद्यज्ञातस्तदा समयानभिज्ञस्यापि अ10 भावप्रमाणोत्थापको भवेत् , न चेष्टापत्तिः, कृतयत्नस्यैव प्रमाणपञ्चकाभावोऽभावज्ञापक इत्य
भिधानात् , अभावस्य सर्वशक्तिवैधुर्यतयेन्द्रियादेरिवाज्ञातस्यापि अभावप्रमाणोत्थापकत्वमित्यभ्युपगन्तुमशक्यत्वाच्च, अभ्युपगमे वा भावस्यैवाभाव इत्यभिधानान्तरं स्यात् । न वा प्रमाणपञ्चकरहित आत्माऽभावज्ञानजनकस्तस्यागमान्तरेऽपि भावात् , न च तस्य प्रमेयाभावः
सहकारी, आगमान्तरे च तदभावान्नाभावज्ञानमिति वाच्यम् , प्रमेयाभावाभावस्य प्रमेयात्म15 कतया तस्य प्रत्यक्षादिनाऽनिश्चये प्रमेयाभावाभावज्ञानासम्भवात् । यदि त्वभावज्ञानाभावात्
प्रमेयाभावाभावप्रतिपत्तिर्न पुनः सदुपलम्भकप्रमाणादिति चेत्तर्हि कस्याभावज्ञानाभावात् प्रमेयाभावाभावज्ञानं किं वादिनः प्रतिवादिनः सर्वस्य वा, नाद्यः, वादिनस्तेनाऽऽगमान्तरे प्रमेयाभावाभावज्ञानवत्प्रतिवादिनो वेदेऽपि तेन तज्ज्ञानं स्यात् । न च वेदे वादिनोऽभावज्ञानम
स्तीति न प्रमेयाभावाभावावगम इति वाच्यम, वादिनस्तज्ज्ञानस्य साङ्केतिकत्वात् , न हि साङ्के20 तिकादभावज्ञानादभावसिद्धिः । न द्वितीयः, वेदेऽपि तत्प्रसङ्गात्। अत एव न तृतीयः, सर्वस्या
भावज्ञानाभावासिद्धेश्व, तस्मात्रात्मा प्रमाणपञ्चकविनिर्मुक्तोऽभावज्ञानजनकः । न च वेदस्यानादिसत्त्वमभावप्रमाणोत्थापकमिति वाच्यम्, प्रत्यक्षादेरप्रवृत्त्या वेदानादिसत्त्वज्ञानाभावात् , तत्प्रवृत्त्यभ्युपगमे वा तत एव पुरुषाभावसिद्ध्याऽभावप्रमाणवैयर्थ्यप्रसङ्गात् , अनादिसत्त्वसिद्धेः
पुरुषाभावज्ञाननान्तरीयकत्वात्। अगृहीतसमयस्यापि तत्र तदुत्पत्तिप्रसङ्गेन नाना दिसत्त्वमज्ञात25 मुत्थापकमिति नाभावप्रमाणात्पुरुषाभावसिद्धिः। नाप्यपौरुषेयत्वं पर्युदासरूपम् , तस्य पौरुषे.
यत्वादन्यसत्त्वलक्षणत्वे इष्टापत्तेः, तस्यास्माभिरप्यभ्युपगमात् । अनादिसरवस्वरूपन्तु न सिद्धं तद्राहकप्रमाणाभावात् । अनादिकालस्येन्द्रियाविषयतया तत्सम्बद्धसत्त्वस्यापि प्रत्यक्षेणाग्रहणात् । अथातीतानागतौ कालौ वेदकर्तृपुरुषरहितौ कालत्वात् , वर्तमानकालवदित्यनुमान
१ प्रमेयाभावज्ञानाभावेन ॥
"Aho Shrutgyanam"