________________
सोपानम् ]
वेदापौरुषेयताभः ण्याध्यवसितिरन्यथा संदेहविपर्ययौ न स्यातामिति उत्पत्तौ स्वकार्ये ज्ञप्तौ च सापेक्षत्वादनपेक्षत्वमसिद्धमिति स्थितम् । अत एव सर्वेषां प्रामाण्यं प्रति न संदेह विपर्ययौ स्यातामिति निराकृतम् , प्रेक्षापूर्वकारिणामेव प्रमाणाप्रमाणचिन्तायामधिकारात् , ते च कासाश्चिज्ज्ञानव्यक्तीनां विसंवाददर्शनाजातशङ्का न ज्ञानमात्रादेवमेवायमर्थ इति निश्चिन्वन्ति, न वा तज्ज्ञानस्य प्रामाण्यमध्यवस्यन्ति, अन्यथा तेषां प्रेक्षावत्त्वमेव न स्यात् , अतो न कथं सन्दे- 5 हविषये संदेहः । तथा कामलादिदोषप्रभवे ज्ञाने विपर्ययरूपताप्यस्तीति सद्लाद्विपर्ययकल्पनाऽपरज्ञानेऽपि सङ्गतैव । न चाप्रमाणे तदुत्तरकालं बाधककारणदोषज्ञाने अवश्यम्भाविनी, अतस्तत्र ततोऽप्रामाण्यनिश्चयः, प्रमाणे च तयोरभावेन नाप्रामाण्यशकेति वाच्यम् , एतादृशविशेषग्राहकाभावात् , स हि विशेषः किं बाधकाज्ञाने वा तदभावनिश्चये, वा गृह्यते, नाद्यः, भ्रान्तानां बाधकसद्भावेऽपि कश्चित्कालं तद्रहणात्सर्वत्राग्रहणप्रसङ्गात् । 10 न च तेषां कालान्तरे बाधकप्रत्यय उदेति, सम्यग्ज्ञाने तु न कदापि तद् इति वाच्यम् , एतादृशनिर्णयस्य सर्वविदामेव भावात् । न द्वितीयः, प्रवृत्तिप्राकालस्य बाधकामावनिश्च. यस्य भ्रान्तज्ञानेऽपि सम्भवेन प्रमाणताप्रसङ्गात् , प्रवृत्त्युत्तरकालस्य च तमन्तरेणैव प्रवृत्ते. रुत्पन्नतया वैयर्थ्यप्रसङ्गादिति दिक् ।। इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजय
15 कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पदृघरेण विजयलन्धिसूरिणा सङ्कलितस्य सम्मतितत्वसोपानस्य स्वतःप्रामाण्य
निरसनं नाम द्वितीयं सोपानम् ।।
अथ वेदापौरुषेयताभङ्गः।
20 __ एवं प्रेरणाजनितबुद्धेरप्रामाण्यं सूचयितुं जिनानामिति पदम् , न हि प्रेरणाबुद्धेः प्रामाण्ये प्रत्यक्षस्येव संवादोऽस्ति न वाऽव्यभिचारिलिङ्गनिश्चयो वर्त्तते किन्तु तव न्यायेनाप्रामाण्य निश्चय एव स्यात्, दुष्टकारणप्रभवज्ञानस्याप्रामाण्य नियतत्वात् । अग्निहोत्रं जुहुया. दित्यादिवाक्यजं ज्ञानञ्च दोषवत्प्रेरणावाक्यजन्यम् । त्वदभिप्रायेण प्रेरणायां गुणवद्वकभावे तद्गुणानिराकृतदोषजन्यत्वस्य प्रेरणाजन्यज्ञाने दुर्वारत्वात् । न च प्रामाण्यापवादका दोषा 25 वक्तगुणैरेव निराक्रियन्त इति न नियमः किन्तु वकभावेन तत्र निराश्रयाणां दोषाणामसद्भाव इति वाच्यम् , तदपौरुषेयत्वे प्रमाणाभावात् । तथाहि किमपौरुषेयत्वं प्रसज्यप्रतिषेधरूपं पर्युदासरूपं वा, न प्रथमः, तस्य सदुपलम्भकप्रमाणाग्राह्यत्वात् , यद्यभावप्रमाणप्रा. ह्यत्वमुच्यते तर्हि तदभावप्रमाणं निषेध्यविषयप्रमाणपञ्चकस्वरूपतयाऽऽत्मनोऽपरिणामलक्षणं
"Aho Shrutgyanam"