________________
सम्मतितत्वसोपाने
। द्वितीयं भिन्नार्थक्रियात उत्पन्नमुत तदन्तरेणेत्येवंभूतायाश्चिन्ताया निरर्थकत्वात् । न च स्वप्नेऽर्थक्रियाज्ञानमन्तरेणाप्यर्थक्रियां दृष्टमिति जाग्रदर्थक्रियाज्ञानमपि तथाशक्काविषयः स्यादिति वाच्यम् , तस्य तद्विपरीतत्वात् , स्वप्नार्थक्रियाज्ञानं ह्यप्रवृत्तिपूर्व व्याकुलमस्थिरञ्च तद्विपरीतश्च जाम्रज्ज्ञानम् , यदि जाग्रहशायामर्थक्रियाज्ञानमपि विनार्थं स्यात् तर्हि किमन्यज्ज्ञान5 माव्यभिचारि भवेत् , यतोऽर्थव्यवस्था स्यात् । तस्माद्यत् प्रमाणस्यात्मभूतं अर्थक्रियालक्ष
णपुरुषार्थाभिधानं फलं यदर्थोऽयं प्रेक्षावतां प्रयासः तेन स्वतःसिद्धेन फलान्तरं प्रत्यनङ्गीकृत. साधनान्तरात्मतया भवितव्यमिति तत्रानवस्था प्रेर्यमाणा परस्यासङ्गतैव । तदेतत्संवादज्ञानं न साधनज्ञानग्राहकत्वेन साधनज्ञानस्य प्रामाण्यं व्यवस्थापयति, किन्तु धूम इवाग्नि तत्कार्यविशेष
त्वेन, एतेन संवादज्ञानं किं साधननिर्भासिज्ञानग्राहि, किं वा तदप्राहि, नाद्यः, चक्षुरादिज्ञानेषु 10 ज्ञानान्तरस्याप्रतिभासनात्, प्रतिनियतरूपादीनामेवावभासनात् । न द्वितीयः, तज्ज्ञानप्रामा
ण्यानिश्चायकत्वप्रसङ्गात् , न हि धर्मिणोऽग्रहणे तद्गता धर्मा गृह्यन्त इत्यपास्तम् , संवादज्ञानाच्च प्रामाण्यनिश्चये न वा चक्रको दोषः, यदि हि प्रथममेव संवादज्ञानात्साधनस्य प्रामाण्यं निश्चित्य प्रवर्तेत स्यात्तदा तहषणम् , यदैकदा शीतपीडितः कश्चिदन्याथ केन
चिद्ववेरानयने तं दृष्ट्वा तत्स्पर्शमनुभवन् वहिदर्शनस्पर्शनज्ञानयोः सम्बन्धमेवस्वरूपो भाव 15 एवम्भूतप्रयोजननिर्वर्त्तक इत्येवलक्षणमवगच्छति, अवगतप्रतिबन्धोऽसावन्यदाऽनभ्यासद
शायां ममायं रूपप्रतिभासोऽभिमतार्थक्रियानिर्वर्तकः एवंरूपप्रतिभासत्वात्, पूर्वोत्पत्वं रूपप्रतिभासवदित्यनुमानाद्वद्विज्ञानस्य प्रामाण्यं निश्चित्य प्रवर्ततेऽतो न चक्रकावकाशः । अत्राभ्यासदशायामपि साधनज्ञानस्यानुमानात् प्रामाण्यं निश्चित्य प्रवर्तते तदान्वयव्यतिरेक
व्यापाराज्ञानेऽपि अकस्माद्धमदर्शनादग्निप्रतिपत्ताविवानुपलक्ष्यमाणस्यापि तद्व्यापारस्याभ्यु20 पगमनीयत्वादित्येके । अपरे तु तदाऽनुमानमन्तरेणापि प्रवृत्तिः सम्भवति, विकल्पस्वरू
पानुमानमन्तरेणापि अभ्यासदशायां प्रत्यक्षादपि प्रवृत्तिदर्शनेन प्रवृत्तेरनुमानकार्यत्वे नियामकाभावात् । न चादावनुमानमन्तरेण प्रवृत्तेरदर्शनात्पश्चादपि न तद्विना प्रवृत्तिसम्भव इति वाच्यम्, आदौ पर्यालोचनाद्व्यवहारदर्शनेऽपि पश्चात्तदन्तरेण पुरःस्थितवस्तुदर्शन
मात्रात्तद्भावात् । अनुमानं विना प्रवृत्तेरभावे तु व्याप्तिनिश्चयेऽपि प्रत्यक्षस्याप्रवृत्त्या तत्रा25 प्यनुमानस्यैव हेतुत्वेऽनवस्था दुवारा भवेदिति न कचित् प्रवृत्तिलक्षणो व्यवहारः स्या
दिति प्रत्यक्षं स्वत एव अभ्यासदशायां व्यवहारकृत्स्वीकार्यम् । अनुमानन्तु व्याप्तिनिश्चयबलेन स्वसाध्यादुपजायमानत्वादेव तत्प्रापणशक्तियुक्तमतः संवादप्रत्ययात्पूर्वमेव प्रमाणाभासविवेकेन निश्चीयत इति स्वत एव न तु परतः प्रामाण्यनिश्चय इति न चक्रकचोद्यावतारः। प्रत्यक्षे त्वनभ्यासदशायामदुत्पत्तिः संवादात्प्रागशक्यनिश्चयेति संवादापेक्षयैव तस्य प्रामा
"Aho Shrutgyanam"