________________
सोपानम् ।
स्वतम्प्रामाण्यमः।
रजतज्ञानस्य तथाभूतं शुक्तिकाज्ञानं प्रामाण्यनिश्चायकं स्यात् । अथैकसन्तानप्रभवं भिन्नजातीयं ज्ञानं संवादकं तर्हि तदर्थक्रियाज्ञानं वा स्यादन्यद्वा भवेत् , तत्र चार्थक्रियाज्ञानस्य प्रामाण्यनिश्चये प्रवृत्तेरेवासम्भवः, तत्र प्रामाण्यनिश्चये क्रियमाणे चक्रकप्रसङ्गः अन्यज्ज्ञानन्तु नोपयोगि, अन्यथा घटज्ञानमपि पटज्ञानप्रामाण्य निश्चायकं भवेत् । न च प्रामाण्यनिश्चयाभावेऽपि संशयादपि प्रवृत्तिसम्भवान्नार्थक्रियाज्ञानमनुपयोगीति वाच्यम् , 5 प्रामाण्यनिश्चयस्य वैयापत्तेः । विना हि प्रामाण्यनिश्चयं प्रवृत्तो विसंवादभाङ् मा भूवमित्यर्थक्रियार्थी प्रामाण्यनिश्चयमन्वेषते सा च प्रवृत्तिनिश्चयमन्तरेणापि सखातेति प्रामाण्य. निश्चयप्रयासो निष्फल एवेति चेत् , अत्रोच्यते, न वयं कारणगुणज्ञानात् प्रामाण्यनिश्चय इत्यभ्युपगच्छामः, कारणगुणानां संवादज्ञानमन्तरेण ज्ञातुमशक्यत्वात् , तस्मात्तन्निश्चयाभ्युपगमे तु तत एव प्रामाण्यनिश्चस्यापि सिद्धत्वेन कारणगुणनिश्चयपरिकल्पनाया वैयर्थ्यप्रसङ्गः, 10 प्रामाण्यनिश्चयानन्तरश्च गुणज्ञानस्य भावात् तन्निश्चयः प्रामाण्यनिश्चयेऽनुपयोगी भवेत् । न चैकदा संवादात्कारणगुणानिश्चित्यान्यदा तदन्तरेणापि गुणनिर्णयादेव प्रामाण्यनिश्चय इति वाच्यम्, अन्यदापि संवादमन्तरेण प्रामाण्यनिश्चयासम्भवात् , अतीन्द्रियेषु चक्षुरादिषु तदा गुणानुवृत्तिनिश्चयाभावात् , अपि तु अर्थक्रियाज्ञानरूपात्संवादप्रत्ययात्प्रामाण्यनिश्चयोऽ भ्युपगम्यते, अविसंवादिज्ञानस्य प्रमाणत्वाभ्युपमात् । न च संवादित्वलक्षणं प्रामाण्यं 15 स्वतो ज्ञायते, संवादज्ञानजननशक्तिरूपस्य प्रमाणनिष्ठस्य तस्य संवादज्ञानलक्षणकार्यदर्शनम. न्तरेण निश्चेतुमशक्यत्वात् । संवादप्रत्ययस्य च स्वयं संवादरूपत्वेन संवादान्तरानपेक्षणा. नानवस्थाप्रसङ्गः, प्राथमिकञ्च ज्ञानं संवादमपेक्षत एव, तस्य संवादजनकत्वलक्षणप्रामाण्यास्मकत्वादतः पूर्वस्य प्रामाण्यमुत्तरसंवादज्ञानाव्यवस्थाप्यते । अर्थक्रियाज्ञानन्तु साक्षादविसंवादि, अर्थक्रियाविषयकत्वात् तस्य च प्रामाण्यं स्वविषयसंवेदनरूपमेव, तञ्च स्वतः 20 सिद्धमिति न तत्रान्यापेक्षा । न चार्थक्रियाज्ञानस्याप्यवस्तुवृत्तिशंकायामन्यप्रमाणापेक्षत्वादनवस्थेति वाच्यम् , अर्थक्रियाज्ञानस्यार्थक्रियानुभवस्वभावत्वेनार्थक्रियामात्रार्थिनां किमेतज्ज्ञानं
१ अविसंवादिज्ञानं हि प्रमाणं, अविसंवादोऽर्थक्रियालक्षण एव, प्रमाणचिन्तायास्तदर्थत्वात् , सा चाथक्रिया दाहपाकादिनिर्भासिज्ञानोदयरूपा, तदुत्पादादेवार्थक्रियार्थिनः प्रवृत्तस्याकांक्षानिवृत्तेः । तच्चार्थक्रियाज्ञानमात्मसंवेदनप्रत्यक्षतया स्वयमेवाविर्भवति, स्पटानुभवत्वाचानन्तरं यथानुभवं परामर्शज्ञानोत्पत्त्या निश्चितमिति स्वत एव सिद्धम् , न च तत्साध्यं फलान्तरमाकांक्षितं पुरुषेण । लोके हि वृद्धिच्छेदादिकं फलमभिवामिछ. तम् तच्चाहादपरितापादिरूपज्ञानाविर्भावादेवाभिनिवृत्तमित्येतावताऽऽहितसन्तोषा निवर्तन्ते जना इति स्वत एव तस्य सिद्धिरुच्यते, यत्तु पूर्व तत्कारणभूतं ज्ञानं तस्य च तत्प्रापणशक्तिः प्रामाण्यमुच्यते, सा च श. क्तिरनभ्यासादविदितकार्यैर वधारयितुं न शक्यत इत्युत्तरकार्यज्ञानप्रवृत्त्या निश्चीयत इति प्रथमस्य परतः प्रामाण्यमुच्यत इति भावः ॥
"Aho Shrutgyanam"