________________
सम्मतितत्त्वसापाने
[द्वितीय तेन स्वसमानकालीनसम्निहितनीलादेरेवावभासात्, पूर्वमनुत्पन्नबाधकानामप्युत्तरकालं बाध्यत्वदर्शनाच | उत्तरझानेन तस्य ज्ञातत्वेऽप्युत्तरकालभाविबाधाविरहस्य विनष्टपूर्व विज्ञानं प्रति भिन्नकालतया विशेषत्वासम्भवात् । अपि च बाधकेन विज्ञानस्य स्वरूपं कि बाध्यते,
प्रमेयं वा, अर्थक्रिया वा, नायः स्वसत्ताकाले विज्ञानस्य स्पष्टतया प्रतिभासमानत्वेन 5 तदानीं बाधायोगात् , उत्तरकाले च विज्ञानस्य स्वत एव नाशाभ्युपगमेन तत्र बाधकस्याकिश्चित्करत्वात् । न द्वितीयः, येन रूपेण प्रमेयं भासते तेन रूपेण तस्य सत्त्वादेव बाधाऽसम्भवात् , अन्यथा सम्यम्ज्ञानावभासिनोऽप्यसवप्रसङ्गः । येन च रूपेण न भासते तेन रूपेणापि बाधाऽसम्भवात् , अप्रतिभासमानरूपस्य प्रतिभासमानरूपादन्यत्वात् , न
झन्यस्याभावेऽन्यस्याभावः सम्भवत्यतिप्रसङ्गात् । नाप्यन्त्यः, उत्पन्नाया अर्थक्रियायाः 10 सत्त्वादेव बाधाऽसम्भवात् , अनुत्पन्नायास्वनुत्पन्नत्वादेव बाधाऽसम्भवाच । एवमदुष्टकार
णारब्धत्त्वमपि न विशेषस्तस्याज्ञातस्य विशेषत्वासम्भवात् । न च ज्ञातस्य विशेषत्वं स. म्भवति तज्ज्ञानोपायाभावात् । अन्यस्माददुष्टकारणारब्धाद्विज्ञानात्तज्ज्ञानमिति चेदनवस्था, तस्यापि तादृशाज्ञानं तस्याप्यपरस्मात्तादृशादिति । न च संवादप्रत्ययात्तज्ज्ञानमिति वा
च्यम्, तथाप्यनवस्थातादवस्थ्यात् , तस्याप्यदुष्टकारणारब्धत्वं विशेषः, स चान्यस्माद15 दुष्टकारणारब्धात्संवादप्रत्ययाद्विज्ञायते सोऽपि च तथेति । किश्च ज्ञातमदुष्टकारणारब्ध
त्वलक्षणं विशेषमपेक्ष्य प्रमाण स्वकार्ये प्रवर्तत इति स्वीकारे परत इति स्वीकृतं स्यादिति स्वसिद्धान्तभङ्गप्रसङ्गः । अदुष्टकारणारब्धत्व निश्चयमन्तरेण स्वकार्ये प्रमाणस्य प्र. वृत्तिस्वीकारोऽपि न चारु, संशयादिविषयीकृतस्य प्रमाणस्य स्वार्थनिश्चायकत्वासंभवात् ,
अन्यथाऽप्रमाणस्यापि स्वार्थनिश्वायकत्वं स्यादिति । अथ संवादित्वं विशेष इति चेत्तर्हि 20 तनिश्चयमन्तरेण स न ज्ञातुं शक्यते तदपेक्षश्च प्रमाणं स्वकार्ये प्रवर्तत इत्यभ्युपगमे तत्र
तत् परत एव स्यात् । न चात्र चक्रको दोषः, तस्याग्रे निराकरिष्यमाणत्वात् । तस्मादविसंवादित्वरूपार्थतथात्वपरिच्छेदशक्तेः परतो ज्ञायमानत्वात्तदपेक्षं प्रमाणं स्वकार्ये प्रवर्तत इति निमित्तान्तरानपेक्षत्वमसिद्धमिति दिक् ॥
अथ प्रामाण्यं स्वनिश्चये नान्यापेक्षम , अपेक्ष्यमाणानां कारणगुणानां निश्चयासम्भवात् , 25 न च संवादमपेक्षते, अपेक्ष्यमाणं हि संवादकज्ञानं यदि भिन्नसन्तानविषयं समानजातीयं
ज्ञानान्तरं तदा देवदत्तघटज्ञानं प्रति यज्ञदत्तघटज्ञानस्यापि संवादकत्वप्रसङ्गः, यदि च एक सन्तानप्रभवस्य समानजातीयस्य ज्ञानान्तरस्थ तथात्वे तज्ज्ञानान्तरं यदि पूर्व प्रमाणतयाभिमतविज्ञानगृहीतवस्तुविषयं तदा संवाद्यसंवादकयोरविशेषप्रसङ्गः, पूर्वज्ञानस्योत्तरज्ञानं प्रयसंवादकत्ववदुत्तरस्याप्यसंवादकत्वात् , एकविषयत्वात् । भिन्नार्थविषयत्वे च शुकिकायां
"Aho Shrutgyanam"