________________
सोपानम् ]
स्वतःप्रामाण्यभङ्गः। कारणजन्यत्वेन नौत्सर्गिकत्वम् , दुष्टकारणजन्येषु मिथ्याज्ञानेषु तदभावात् । न च प्रामाण्यस्योत्पत्तौ गुणानां नापेक्षा किन्तु तेभ्यो दोषाभावस्तदभावाच्च संशयविपर्ययलक्षणाप्रा. माण्यस्यासम्भवादौत्सर्गिकं प्रामाण्यमनपोदितमेवास्त इति वाच्यम् , अप्रामाण्येऽपि तथा वक्तुं शक्यत्वात् , प्रामाण्यस्य गुणवत्कारणजन्यतयाऽन्वयव्यतिरेकसिद्धत्वात् , दोषाभावस्य तुच्छस्य गुणनिष्पाद्यत्वासम्भवाच्च । तुच्छाभावाभ्युपगमे च भावान्तरविनिर्मुक्त- 5 भावस्याभावत्वाभ्युपगमविरोधः, तस्मात्पर्युदासवृत्त्या दोषाभावो गुणात्मक एव स्यात् , एवञ्च सति गुणेभ्यो गुणा इति स्यात् , न च गुणेभ्यः कारणस्वरूपा गुणा जायन्ते, स्वात्मनि क्रियाविरोधात , अन्येभ्य एव गुणोत्पत्तिसद्भावाच, तथा च जन्मापेक्षया गुणवञ्चक्षुरादिकारणप्रभवं प्रामाण्यं परत इति सिद्धम् ॥
अथार्थपरिच्छेदलक्षणे स्वकार्ये प्रवर्तमान प्रमाणं म्वोत्पादककारणातिरिक्तनिमित्तान. 10 पेक्षमेव प्रवर्तते न तु निमित्तान्तरापेक्षम , यदि हि तदपेक्ष्येत तदा किं संवादज्ञानमुत स्वोत्पादककारणगतगुणाः, नाद्यः, स्वकार्ये प्रमाणस्य प्रवृत्तौ सत्यां हि भवेदर्थक्रियार्थिनां प्रवृत्तिः, सत्याञ्च प्रवृत्तावर्थक्रियाज्ञानरूपः संवादस्तश्च संवादमपेक्ष्य प्रमाणं स्वकार्ये प्रवर्त्तते नान्यथेति चक्रको दोषः, न च भाविसंवादापेक्षया प्रवर्तत इति वक्तुं शक्यम् , भाविनः सहकारित्वासम्भवात् , असत्त्वात् । न द्वितीयः, अगृहीतानां गुणानां सत्त्वासिद्ध्या सहका- 15 रित्वासम्भवात् । गुणानां ज्ञानन्त्वनवस्थाप्रसङ्गेन न सहकारि, गृहीतस्वकारणगुणापेक्षं हि प्रमाणं स्वकार्ये प्रवर्तेत, स्वकारणगुणज्ञानमपि निजकारणगुणज्ञानापेक्षं सत्प्रमाणकारणगुणज्ञानरूपे स्वकार्ये प्रवर्तेत तदपि तथेति । न च प्रमाणकारणगुणज्ञानं निजकारणगुणज्ञानानपेक्षमेव प्रवर्तत इति शक्यं वक्तुम , प्रमाणस्यापि तथा प्रसङ्गात् । तस्मात्स्वकारणेभ्यः अर्थयाथात्म्यपरिच्छेदशक्तियुक्तमेव प्रमाणमुपजायत इति स्वकार्ये प्रवृत्तिः स्वत एवेति चेनमैवम् , 20 निमित्तान्तरानपेक्षमित्यनेन हि किं कार्योत्पादकसामग्रीव्यतिरिक्तनिमित्तसामान्यानपेक्षमित्य. भिप्रेतं यत्किश्चिनिमित्तानपेक्षमिति वा, न प्रथमः सिद्धसाधनात् । न द्वितीयः, सामग्र्येकदेशस्याकारणत्वात् , सामग्र्या एव जनकत्वात् । प्रमाणस्य कार्यमपि न केवलमर्थपरिच्छेदः, तस्याप्रमाणेऽपि भावात , किन्तु याथात्म्यपरिच्छेदः, स च न ज्ञानस्वरूपकार्य:, भ्रान्तज्ञानेऽपि स्वरूपस्य सत्त्वेन यथार्थपरिच्छेदापत्तेः । न च ज्ञानस्वरूपविशेषकार्यः स इति 25 वक्तव्यम , स हि स्वरूपविशेषो यद्यपूर्वार्थविज्ञानत्वं तर्हि तैमिरिकज्ञानस्यापि तादृशत्वेन यथार्थपरिच्छेदः स्यात् , यदि बाधारहितत्वम् , तदा तत्कालभाविनो बाधाविरहस्य मिथ्याज्ञानेऽपि भावात्तथात्वं स्यात् , उत्तरकालभाविनोऽज्ञातस्य तस्य विशेषत्वन्तु असाचे न न सम्भवति, यदि ज्ञातस्य विशेषत्वं तर्हि पूर्वज्ञानेन बाधाविरहस्य ज्ञान न सम्भवति,
"Aho Shrutgyanam"