SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने [प्रथम रूपस्य हेतोः सहानवस्थानलक्षणविरोधस्यासिद्धेः, अर्थप्रकाशनाज्ञातृव्यापारयोरर्थप्रकाशना. प्रकाशनयोरिव परस्परव्यवच्छेदरूपत्वाभावेन परस्परपरिहारस्थितिलक्षणविरोधस्यासिद्धेश्च । न चार्थप्रकाशनस्य ज्ञातव्यापारनियतत्वात्साध्यविपक्षेण तस्य विरोध इति वाच्यम् , नियतत्वसिद्धौ विपक्षविरोधसिद्ध्या तत्सिद्धौ च नियतत्वसिद्धथाऽन्योऽन्याश्रयात् । ननु मा 5 भूदनुफ्लम्भेन व्यतिरेकनिश्चयः, अभावाख्यप्रमाणेन तु स्यादिति चेन, यदि हि तन्निषिध्यमानवस्तुविषये प्रमाणपश्वकस्वरूपतयाऽऽत्मनोऽपरिणामलक्षणं तर्हि समुद्रोदकस्य पलादि परिमाणनिर्णये प्रमाणपञ्चकस्याप्रवृत्त्या तद्रूपेणात्मनोऽपरिणामेऽपि पलादिपरिमाणाभावानिश्चयेन व्यभिचारः । यदि तु अन्यवस्तुविषयकज्ञानरूपं तत्तदापि किं तज्ज्ञानं साध्य नियतसाधनाद्भिग्नं यत्पदार्थान्तरं तद्विषयकमुत साध्यनियतसाधनाद्भिन्नो यः साध्याभावस्त10 द्विषयकम् । तत्राद्य पदार्थान्तरस्य साधनेन सहैकज्ञानसंसर्गित्वेऽपि न तद्विषयकज्ञानात् यत्र यत्र साध्याभावस्तत्र तत्रावश्यन्तया साधनस्याप्यभाव इति सर्वोपसंहारेण साधनाभावनियतसाध्याभावनिश्चयात्मकस्य व्यतिरेकनिश्चयस्य साध्यनियतत्वलक्षणनियमनिश्चायकस्य सिद्धिः, तथाविधज्ञानात् प्रतिनियतविषयस्यैव यथोक्तसाधनाभावस्य सिद्धेः । पदार्थान्तर स्य साधनेनैकज्ञानासंसर्गित्वे चातिप्रसङ्गः, न बन्यपदार्थोंपलम्भमात्रात्तदतुल्ययोग्यताव. 15 तोऽन्यस्य तेन सहै कज्ञानासंसर्गिणोऽभावनिश्चयः, अन्यथा सह्योपलम्भाद्विन्ध्याभावनिश्चयः स्यात् । द्वितीयपक्षे च किं तज्ज्ञानं यत्र साध्याभावस्तत्र तत्र साधनाभाव इत्येवं प्रवर्त्तते किं वा कचिदेव साध्याभावे साधनाभाव इत्येवम् , तत्र प्रथमस्तु पक्षो निखिलदेशकालाप्रत्यक्षतया न सम्भवति, निखिलदेशकालप्रत्यक्षाङ्गीकारे च सर्वज्ञाभावप्रसाधनं अनुपपन्नं स्यात् । द्वितीयपक्षोऽपि सर्वोपसंहारेण साधनाभावनियतसाध्याभावानिश्चयेन व्यतिरेक. 20 स्यानिश्चयान सम्भवति । तस्मादन्यवस्तुविषयकविज्ञानस्वरूपाभावाख्यप्रमाणादपि व्यतिरेकस्यानिश्चयेन न ज्ञातृव्यापाररूपप्रमाणस्य प्रामाण्यधर्मिणः सिद्धिरिति ॥ किश्चाभावाख्यं प्रमाणमपि न सम्भवति, अभावप्रमाणोत्पत्तौ हि वस्तुसद्भावग्रहः प्रतियोगिस्मरणश्च निमित्ततया भवद्भिरभ्युपगतम् , तत्र वस्तुसद्भावग्रहणं किं प्रतियोगिसंसृष्ट वस्त्वन्तरग्रहणरूपं तदसंसृष्टवस्त्वन्तरग्रहणरूपं वा, आद्ये प्रत्यक्षेण तत्संसृष्टतया वस्त्वन्त25 रस्य ग्रहणे प्रतियोगिमत एव ग्रहणान्न तदभावप्राहकत्वेनाभावप्रमाणप्रवृत्तिः, प्रवृत्तौ वा प्रतियोगिसद्भावेऽपि तदभावग्राहकत्वेन विपर्यस्ततयाऽप्रामाण्यापत्तिः स्यात् । द्वितीये च प्रत्यक्षेणैव प्रतियोग्यभावस्य गृहीतत्वेन अभावप्रमाणं तत्र प्रवर्त्तमानं निरर्थकं स्यात् । एवं प्रतियोगिस्मरणमपि किं वस्त्वन्तरसंसृष्टस्य प्रतियोगिनः स्मरणं किं वाऽसंसृष्टस्य, नाद्यः पूर्ववदभावप्रमाणस्याप्रवृत्त्यापत्तेः । न द्वितीयः, तथाऽनुभवमन्तरेण वस्त्वन्तरासंसृष्टप्रति "Aho Shrutgyanam
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy