SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] भावव्यापारनिरसनम् । स्यैवंविधविषये व्यापारासम्भवात् , तथाहि एकज्ञानसंसर्गि तुल्ययोग्यतास्वरूपं भावान्तरमभावव्यवहारहेतुः, स च पर्युदासवृत्त्या तदन्यज्ञानस्वभावोऽभ्युपगम्यते न च प्रकृतस्य साध्य. स्य केनचित्सहै कहानसंसर्गित्वं सम्भवतीति । प्रकृतस्य साध्यस्यादृश्यत्वात्केनचित्सह कार्यस्वस्यानिश्चयेन न कारणानुपलम्भोऽपि तनिश्चायकः प्रत्यक्षादीनामप्रवृत्त्या कार्यकारणभाव. स्यासिद्धेः । साध्यस्यादृश्यत्वादेव च कस्यापि पदार्थस्य प्रकृतसाध्यव्यापकत्वेन निश्चेतुम- 5 शक्यत्वान्न व्यापकानुपलम्भोऽपि तन्निश्चयसमर्थः । नापि विरुद्धोपलब्धिरत्र प्रवर्तते, विरोधो हि सहानवेस्थानरूपो वा परस्परपैरिहारस्थितिलक्षणो वा स्यात् , सत्र न प्रथमः, सकलकारणसमवधाने सति हि यत्सद्भावे यस्याभावस्तयोः सहानवस्थानलक्षणो विरोधो भवेत् , शीतोष्णयोरिव, साध्यस्य चात्रादृश्यत्वेन नाविकलकारणं तत्कस्यचिद्भावे निवर्तमानमुपलभ्यते । नापि द्वितीयो विरोधः, तस्य दृश्यत्वाभ्युपगमनिष्ठस्य दृश्यत्वाभ्युपगमनिमित्त- 10 प्रमाणनिबन्धनस्य प्रकृतसाध्यविषयेऽसम्भवात् । अर्थप्राकट्यलक्षणसाधनाभावनिश्चयोऽपि नादृश्यानुपलम्भेन सम्भवति, स्वपरसम्बन्धिनस्तस्यानैकान्तिकासिद्धत्वादिदोषदुष्टत्वात् । दृश्यानुपलम्भेऽपि न स्वभावानुपलम्भो निमित्तम् , तस्योद्दिष्टविषयाभावव्यवहारसाधकत्वात् । नापि कारणानुपलम्भो नियामकः, भवताऽर्थप्राकट्यलक्षणफलहेतुत्वेन ज्ञातृव्यापारस्याभ्युपगतत्वात् ज्ञातृव्यापारस्याप्रत्यक्षतया कारणत्वानिश्चयेन कारणानुपलम्भासम्भवात् । अत 15 एव न व्यापकानुपलम्भोऽपि तथा, अर्थप्राकट्य प्रति हि ज्ञातृव्यापारस्य व्यापकत्वमभ्युपेयम् , नान्यं प्रति, अन्यथा विपक्षाव्यापकनिवृत्त्या निवर्तमानस्य साधनस्य साध्यनयत्यं न भवेत् तथा च न पूर्वोदितरीत्या तस्य व्यापकत्वनिश्चयः सम्भवति । न वा विरुद्धोपलन्ध्या साधनाभावनिश्चयः, अत्यन्तपरोक्षत्वेन साध्येऽज्ञाते तद्विपक्षस्याप्यज्ञानात्तेन सहार्थप्रकाशन १ घटभूतलयोरेकज्ञानेन विषयीकरणात्ते एकज्ञानसंसर्गिणी, तयोः प्रत्यक्ष सामग्री तुल्याऽतस्ते तुल्ययोग्यता. स्वरूपे. तत्रैकस्य भूतलादेरुपलम्भे घटादेरनुपलम्भे केवलं भूतलमेव घटाभावव्यवहारहेतुः, पर्युदासवृत्त्या च भावान्तरविनिर्मुक्तभाव एव घटाभावो नातिरिक्तः कश्चित् , तथास्वरूपोपलम्भभिन्नज्ञानान्तरमेव स्वभावानुपल. म्भरूपम् , नास्ति च प्रकृते साध्यस्य केनचिदेकज्ञानसंसर्गित्वमिति न स्वभावानुपलम्भप्रवृत्तिरिति भावः ॥ २ यो हि उरुणस्पर्शस्याविकलकारणस्य जनको भूत्वा शीतस्पर्शजननशक्ति प्रतिबध्नन् शीतस्पर्शस्य निवतक: स विरुद्धः, स च हेतुवैकल्यकारी जनक एव, अकिञ्चित्करस्य विरुद्धत्वासम्भवात् । दूरस्थयोर्विरोधाभावानिकटस्थयोरेव निवर्त्यनिवर्तकभावः, निवत्तकश्चायं तृतीये क्षणे निवर्तयति, प्रथमक्षणे निपतनसमर्थावस्थानयोग्यो भवति, द्वितीयेऽसमर्थ विरुद्धं करोति, तृतीये त्वसमर्थे निवृत्ते तद्देशमाकामति, असमर्थावस्थाजनकत्वमेव निवर्तकत्वं बोध्यम् ॥ ३ यस्मिन् परिच्छिद्यमाने यद्व्यवच्छिद्यते तत्परिच्छिद्यमानमवच्छिद्यमानपरिहारेण स्थितं भवति, एवम्भूतो विरोधः । आंधन विरोधेन शीतोष्णस्पर्शयोरेकत्वं वार्यते, द्वितीये न तु सहावस्थानम् । आद्यः कतिपये वस्तुन्येच प्रवर्तते, द्वितीयश्च सकले वस्तुन्यवस्तुनि चेति बौद्धसिद्धान्तः ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy