________________
सम्मतितत्त्वसोपाने
[प्रथम रनपेक्षत्वादिति , अप्रामाण्यस्येवोत्पत्तौ प्रामाण्यस्य चक्षुराद्यतिरिक्तगुणाद्यन्वयव्यतिरेकानुविधायित्वेन गुणादिकारणान्तरसापेक्षत्वात्, अन्यथाऽप्रामाण्यस्याप्युत्पत्तौ स्वतस्त्वापत्तेरिति, मैवम् , गुणानां प्रमाणतोऽनुपलम्भेनासत्त्वात् , न हि प्रत्यक्षेण चक्षुरादिगुणा ग्रहीतुं शक्या:,
इन्द्रियाणामतीन्द्रियत्वेन तद्गुणग्रहणासम्भवात् । नाप्यनुमानेन, उपादीयमानहेतौ साध्या5 विनाभावनिर्णयासम्भवात् , न हि प्रत्यक्षेण तन्निश्चयः, इन्द्रियगुणानामप्रत्यक्षत्वेन तया
तेरप्यप्रत्यक्षत्वात् । व्याप्तेः साध्यहेत्वोः सम्बन्धरूपत्वेन सम्बन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वात् । नवाऽनुमानेन तनिश्चयः, अनवस्थाप्रसङ्गात् , गृहीतसम्बन्धस्यैव तस्य व्याप्तिनिश्चायकत्वेन तत्र सम्बन्धग्रहणेऽनुमानान्तरापेक्षणेऽनवस्थानात् । तस्मान्नासिद्धो हेतुरिति,
अत्रोच्यते ज्ञातृव्यापारस्य भवदभ्युपगमेनैव प्रमाणस्वरूपत्वासम्भवात् , तद्राहकप्रमाणाभा10 वात् । न हि स्वसंवेदनलक्षणं प्रत्यक्षं तद्राहकम् , तस्य भवता तद्राह्यत्वानङ्गीकारात् । नापि
बाह्यम् , इन्द्रियाणां सम्बद्धवर्तमानप्रतिनियतरूपादिग्राहकतया ज्ञातृव्यापारेण तेषां सम्बन्धासम्भवात् । न वा मानसम् , तथाप्रतीत्यभावादनभ्युपगमाञ्च । अथानुमानं तद्ाहकमिति चेन्न, तद्धि ज्ञातसम्बन्धस्यैकदेशदर्शनादसन्निकृष्टेऽर्थे बुद्धिरूपम , तत्र सम्बन्धोऽपि नियमलक्षण ए.
वेति त्वयाऽभ्युपगम्यते, अपरेषां तादात्म्यादिसम्बन्धानां व्युदासात् , स च सम्बन्धः कथं 15 प्रतीयते, किमन्वयेन व्यतिरेकेण वा निश्चयेन, तत्र न तावत्प्रत्यक्षेणान्वयनिश्चयः सम्भवति,
झातृव्यापारस्य प्रत्यक्षविषयत्वासम्भवेन तद्भाव एव तद्भाव इत्येवमन्वयनिश्चयस्यासम्भवात्। नाप्यनुमानेन तन्निश्चय शक्यः कर्तुम् , तस्यापि निश्चितान्वयहेतुजन्यत्वेन तत्र प्रत्यक्षतरतन्निश्चयासम्भवात् , अनवस्थाप्रसङ्गेन चानुमानतस्तदसम्भवात् । नापि व्यतिरेकनिश्चयेन सम्ब
न्धप्रतीतिः, व्यतिरेको हि साध्याभावे हेतोरभाव इत्येवंरूपः, तत्र न साध्यस्याभावः प्रत्यक्षे20 णानुमानेन वा समधिगम्यः, तयोरभावविषयत्वानङ्गीकारात् , अन्यथाऽभावप्रमाणवैयर्थ्यप्र.
सनः स्यात् । न च साध्यस्यादर्शनात्तदभावो निश्चीयत इति वाच्यम्, यतः किमदर्शनमनुपल. म्भरूपमुताभावप्रमाणरूपं वा स्यात् , अनुपलम्भोऽपि दृश्यानुपलम्भरूपोऽदृश्यानुपलम्भरूपो वा स्यात् , तत्र न तावत्स्वस्यादृश्यानुपलम्भः साध्याभाव निश्चायकः, परचेतोवृत्तिविशेषाणां
स्वकीयानुपलम्भविषयत्वेऽपि तदभावासम्भवात् । नापि सर्वसम्बन्ध्यदृश्यानुपलम्भस्तथा, 25 तदसिद्धेः । दृश्यानुपलम्भोऽपि न, स हि चतुर्विधः, स्वभावानुपलम्भः, कारणानुपलम्मः,
व्यापकानुपलम्भो विरुद्धोपलब्धिश्चेति । तत्र न स्वभावानुपलम्भः साध्याभावनिश्चायकः, त
१ उपलब्धिलक्षणप्राप्तस्यानुपलम्भरूप इत्यर्थः, एकज्ञानसंसर्गिणि एकस्मिन् दृश्यमाने तदितर यदि समस्तदर्शनसामग्रीकं भवेत् तर्हि दृश्यमेव भवेत् , तस्यानुपलम्भो दृश्यानुपलम्भ इति भावः, एकेन्द्रियज्ञानग्राहामन्योन्यापेक्षं वस्तुद्वयमेकज्ञानसंसर्गौत्युच्यते ॥
"Aho Shrutgyanam"