________________
सोपानम्
शातृव्यापारनिरसनम् । तेषां निरवशेषं रागादिजयाभावेनापवर्गप्राप्तेः पूर्वमेव शासनप्रणेतृत्वान्न दोष इत्युच्यते तदापि तच्छासनं रागलेशसंपृक्तपुरुषप्रणीतत्वेन नैकान्ततः प्रमाणं स्यात् , कपिलादिपुरुषप्रणीतशासनमिवेत्याशङ्कायामाह-स्थानमनुपमसुखमुपगतानामिति, यद्यपि जिनाः सर्वज्ञताप्र. तिबन्धकघातिकर्मचतुष्टयक्षयाविर्भूतकेवलज्ञानवन्तस्तथापि भवोपमाहिशरीरनिमित्तानामल्प. स्थितिकानां कर्मणां सद्भावेन न शरीराभावनिबन्धनशासनप्रणेतृत्वानुपपत्तिः, न वा रागादि- 5 लेशसद्भावेन तत्प्रणीतागमस्याप्रामाण्यम् , विपर्यासनिमित्तस्य घातिकर्मणोऽत्यन्तं क्षयात् । नापि तदानीमपवर्गप्राप्तिः भवोपनाहिकर्मणोऽद्यापि सामस्त्येनाक्षयात, तरक्षय एव चापवर्गस्यानन्तरभावित्वात्सकलकर्मक्षयस्यैवापवर्गप्राप्तावविकलकारणत्वादिति । शब्दार्थश्च तिष्ठन्ति सकलकर्मक्षयावाप्तानन्तज्ञानसुखाद्यध्यासिताश्शुद्धात्मानोऽस्मिन्निति स्थानं लोकाग्रलक्षणं वि. शिष्टक्षेत्रम् , न विद्यते उपमा स्वाभाविकात्यन्तिकत्वेन सकलव्याबाधारहितत्वेन च सर्व. 10 सुखातिशायित्वाद्यस्य तत्सुखमानन्दरूपं यस्मिस्तदनुपमसुखम् , उपगतानां- कालसामीप्येन तत्प्राप्तानां, यद्वा अनुपमसुखं स्थानं उप-प्रकर्षण गतानां प्राप्तानामित्यर्थः, यद्यपि ते लोकाग्र. लक्षणं स्थानं न प्राप्तास्तथापि ‘पदार्थे प्रयुज्यमानाः शब्दा वतिमन्तरेणापि तमर्थं गमयन्ती' ति न्यायादनुभूय मानतीर्थकरनामकर्मादिलेशसद्भावेऽपि तद्गता इव गता इत्युक्तास्तेन तस्यामवस्थायां शासनप्रणेतृत्वं तेषां नानुपपन्नमेव । अथवा 'मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत्ताप- 15 वर्जिता 'इति दुर्नयनिरासायोक्तं ' स्थानमनुपमसुखमुपगताना 'मिति, अनुपमसुखं स्थानं प्रकर्षणापुनरावृत्त्या गतानामुपगतानामित्यर्थः । यद्वा 'बुद्ध्यादीनां नवानां विशेषगुणानामात्यन्तिकः क्षय आत्मनो मुक्ति 'रिति मतव्यवच्छेदार्थमुक्तं स्थानमनुपमसुखमुपगतानामिति, स्थितिः-स्थानं स्वरूपप्राप्तिः, तदनुपमसुखं उप सकलकर्मक्षयानन्तरमव्यवधानेन गतानांप्राप्तानां शैलेश्यवस्थाचरमसमयोपादेयभूतमनन्तसुखस्वभावमात्मनः कथञ्चिदनन्यभूतं स्वरूपं 20 प्राप्तानामिति यावत् । अत्रापि प्राप्तव्यपदार्थसामीप्याद्विशेषणं सनमनीयमिति कारिकार्थः ।।
__अत्र सिद्धं शासनमिति पदाभ्यां शासनं स्वतस्सिद्धं नातःप्रकरणात प्रामाण्येन प्रतिष्ठाप्यमिति युक्तमुक्तम् , इदन्त्वयुक्तं जिनानामिति, जिनानामसत्त्वेन शासनस्य तस्कृतत्वानुप पत्तेः, उपपत्तौ च परतः प्रामाण्यं स्यात् तच्च न सम्भवति, तथाहि अर्थतथाभावप्रकाशकज्ञातृव्यापारः प्रमाणम, अर्थतथाभावप्रकाशकत्वं प्रमाणनिष्ठं प्रामाण्यम् , तच्चोत्पत्तौ स्वतः, 25 स्वोत्पादकसामग्र्यतिरिक्तगुणादिसामभ्यन्तरानपेक्षत्वात्, अर्थपरिच्छेदलक्षणे स्वकार्येऽपि स्वतः, प्रमाणान्तरानपेक्षत्वात् , तथा स्वज्ञप्तावपि स्वत एव, स्वसंवेदनग्रहणानपेक्षत्वात् , तथा च स्वोत्पत्तिप्रभृतिषु इतरापेक्षारहितत्वेन प्रामाण्यं स्वत उच्यते, प्रयोगश्च प्रामाण्य स्वरूपनियतं अनपेक्षत्वात् , यथाऽङ्करोत्पादने विकला कारणसामग्रीति । नन्वसिद्धोऽयं हेतु
"Aho Shrutgyanam"