________________
सम्मतितत्त्वसोपाने
[ प्रथम शासनस्य जिनप्रणीतत्वं तत्प्रणीतत्वाञ्च प्रामाण्यमुक्तं भवति तथा च कथं तस्य तत्प्रणीतत्वसि. द्धिरित्यत्र हेतुगर्भविशेषणमाह-कुसमयविशासनमिति, सम्यक्-प्रमाणान्तराविसंवादित्वेन, ईयन्ते-परिच्छिद्यन्त इति समया नष्टमुष्टिचिन्तालाभालाभसुखासुखजीवितमरणग्रहोपरागमंत्री
षधशत्यादयः पदार्थाः, तेषां विविधमन्यपदार्थकारणवेन कार्यत्वेन चानेकप्रकारं शासनं प्रति5 पादकं समयविशासनम् , कु:--पृथिवी तस्या इव समयविशासनं कुसमयविशासनमिति । एवं
च यो यद्विषयाविसंवाद्यलिङ्गानुपदेशानन्वयव्यतिरेकपूर्वको वचनविशेषः स तत्साक्षात्कारि ज्ञानविशेषप्रभवः, यथाऽस्मदादिप्रवर्तितः पृथिवीकाठिन्यादिविषयस्तथा भूतो वचनविशेषः, नष्टमुष्टिविशेषादिविषयाविसंवाद्यलिङ्गानुपदेशानन्यव्यतिरेकपूर्वकवचन विशेषश्चार्य शासनल
क्षणोऽर्थः, तस्मात्तस्साक्षात्कारिज्ञानविशेषप्रभव इति प्रयोगः । तत्साक्षात्कारिज्ञानवान् 10 बुद्धादिः कुतो नेत्यत्राह-सिद्धार्थानामिति, निश्चितानामर्थानां शासनमिति भावः, बुद्धादीनामागमे हि येऽर्थाः प्रतिपादिता न ते प्रमाणविषयत्वेन निश्चिताः, अर्हच्छासनन्तु न तथा, अत्र प्रमाणविषयत्वेन प्रतिपादितानामर्थानां तथैव निश्चितत्वादिति भावः । ननु मा भूत्तत्साक्षात्कारिज्ञानवान बुद्धादिः परं स्वभावसंसिद्धज्ञानादिसम्पन्न ईश्वरः स्यादित्यत्राह-भव
जिनानामिति, नारकादिचतुःपर्यायत्वेन भवन्त्युत्पद्यन्ते प्राणिनोऽस्मिन्निति भवः संसारः, 15 तत्कारणत्वेन रागादिरत्रोपचाराद्विवक्षितः, तं जितवन्त इति भवजिनास्तेषाम् । अनेन
कारणरागादिजयद्वारेण तत्कार्यभूतस्य भवस्य जयो यैः कृतस्तेषामेवेश्वरत्वं न तु कस्यचित्तव्यतिरिक्तम्येति सूचितम् | अथवा यतः सिद्धानामर्थानां शासन-प्रतिपादकं द्वादशाङ्गं भव. त्यतस्तच्छासनं भवजिनानां कार्यत्वेन सम्बन्धि, अत्र च प्रयोगः, शासनं जिनप्रणीतम् , प्रमा
णान्तराविसंवादियथोक्तनष्टमुष्ट्या दिसूक्ष्मान्तरितदूरार्थप्रतिपादकत्वान्यथानुपपत्तेरिति, अत्र 20 च पक्षे साधनस्य स्वसाध्येन व्याप्तिः साध्यधर्मिण्येव निश्चिताऽतो न दृष्टान्तोपन्यासः
कृतः, बहिर्याप्त विद्यमानत्वेऽपि साध्यधर्मिणि साध्यव्याप्त्यप्रतिपत्तौ तत्र साध्यासिद्धेः सादृश्यमानस्याकिञ्चित्करत्वात् , दृष्टान्तव्यतिरेकेणापि साध्यस्य सिद्धेश्च । कुसमयविशासनमिति पदन्तु बुद्धादिशासनानामसर्वज्ञप्रणीतत्वप्रतिपादनपरम् , तथा च कुत्सिता ये
समयाः बुद्धकपिलादिप्रणीतसिद्धान्तास्तेषां दृष्टादृष्टविषये विरोधाशुद्भावकत्वेन विशासनं25 विध्वंसकं यतो द्वादशाङ्गमतस्तदेव भवजिनानां जिनानां शासनं भवति, अत एव च तत्सिद्धं
निश्चितप्रामाण्यकमिति भावः । ननु यदि संसारहेतुरागादिजेतृत्वं तीर्थकृतां न तर्हि तेषां शास्त्रप्रणेतृत्वं स्यात् , तज्जयानन्तरमेवापवर्गप्राप्त्या शरीराभावेन वक्तृत्वासम्भवात् , यदि तु तत्क्षयेऽपि नानन्तरमपवर्गप्राप्तिर्न तर्हि तज्जयोऽपवर्गहेतुर्भवेत् , न हि यस्मिन् सत्यपि यन्न भवति तत्तदविकलकारणमिति व्यवस्थापयितुं शक्यम् , शाल्यङ्करस्य यवबीजमिव । अथ
"Aho Shrutgyanam"