SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ अहम् ।। श्री आत्मकमललब्धिसूरीश्वरेभ्यो नमः जैनाचार्यश्रीमद्विजयलब्धिस्सूरीश्वरेण सङ्कलितम् सम्मतितत्त्वसोपानम् ॥ -~~ -~श्रीज्ञानादिगुणैककान्तनिलयं स्याद्वादविद्यागुरुम् - दुर्वादिद्विपगर्वभञ्जनचणं देवेन्द्रमुख्यैर्नुतम् । श्रीमदीरजिनेश्वरं भविहितं नत्वाऽल्पधीसुग्रहम् कुर्वे सम्मतितत्वयोनिलययोः सोपानमत्युज्वलम् ।। अथ करालकालकवलितमतीनां मोक्षानन्यसाधारणकारणरत्नत्रयावाप्तिकामनया सुदुर्ग- 10 म्याईद्वचनमहार्णवमवतितीर्षणां भव्यानां तदवतरणकारणतया सम्मतितर्कनामानं प्रन्थमारिरिप्सुराचार्यः श्रीसिद्धसेनदिवाकरः शिष्टाः कचिदभीष्टे वस्तुनि प्रवर्त्तमाना अभीष्टदेवताविशेषस्तवविधानपूर्वकं प्रवर्तन्त इति शिष्टाचारपरिपालनपरः शासनमतिशयतः स्तवाह तीर्थकरैरपि शासनाभिव्यक्तिकरणसमये विहितस्तवत्वादिति मत्वा तदसाधारणगुणोत्कीर्तनमुखेन तत्स्तवमारचयति-- सिद्धं सिद्धत्थाणं ठाणमणोवमसुहं उवगयाणं । कुसुमयविसासणं सासणं जिणाणं भवजिणाणं ॥ १॥ सिद्धं सिद्धार्थानां स्थानमनुपमसुखमुपगतानाम् । कुसमयविशासनं शासनं जिनानां भवजिनानाम् ।। छाया ।। 'सिद्धं ' इति, जीवादयः पदार्था यथावस्थितत्वेन शास्यन्तेऽनुशिष्यन्तेऽनेनेति शासनं 20 द्वादशाङ्गम । तश्च कीदृशमित्यत्राह सिद्धमिति, स्वतो निश्चितप्रामाण्यकं नतु तत्र प्रकरणात् प्रामाण्यं प्रतिष्ठाप्यमित्यर्थः । केषां तच्छासनमित्यत्राह जिनानामिति, तीर्थकृतामित्यर्थः, तथा च जिनानां शासनमेव स्वतो निश्चितप्रामाण्यकमित्यर्थः। ननु जिनानां शासनमिति 15 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy