________________
सोपानम् ]
स्वतःप्रामाण्यभङ्गः ।
1
योगिस्मरणासम्भवेन तथाऽनुभवेनैवाभावग्रहणात्पुनरभावप्रमाणप्रवृत्तेस्तत्र व्यर्थतापत्तेः । असंसृष्टताग्रहस्याभावप्रमाणेनाभ्युपगमे तु चक्रकापत्तिः, तथाविधप्रतियोगिग्रहणे हि तत्स्मरणं ततोऽभावप्रमाणप्रवृत्तिः, तत्प्रवृत्तौ चासंसृष्टताग्रहस्तग्रहे च स्मरणमिति । किञ्चाभावप्रमाणस्याभावग्राहकत्वेनाभ्युपगमे तेनाभावस्यैव प्रतीतिः स्यात्, प्रतियोगिनो निवृत्तिश्च कथं तेन प्रतिपादिता स्यात् । न चाभावप्रतिपत्तौ प्रतियोगिनिवृत्तिरपि प्रतिपन्नैवेति वाच्यम्, 5 निवृत्तेरपि स्वप्रतियोग्य संस्पर्शित्वेन तत्प्रतिपत्तावपि प्रतियोगिनिवृत्त्यसिद्धेः । अपि चाभावप्रतिपत्तौ तत्र प्रतियोगिस्वरूपं यद्यनुवर्त्तते तर्हि तत्र प्रतियोगिनोऽभावस्यासन्त्वप्रसङ्गः, अथ व्यावर्त्तते तर्हि कथं तत्प्रतिषेधः प्रतिपादयितुं शक्यः न च प्रतियोगिविविक्तस्य प्रतिपत्या तत्प्रतिषेध इति वाच्यम्, प्रतियोग्यप्रतिभासे तद्विविक्तताया एवाप्रतिपत्तेः । न च प्रत्यक्षे प्रतियोगिनः प्रतिभासनान्नायं दोष इति वाच्यम्, तथा सति तन्निवृत्त्य सिद्धेः 10 प्रतियोगिसद्भावस्यैव सिद्धत्वात् । न च स्मरणे तत्प्रतिभासत इति वाच्यम्, प्रतियोगिस्वरूपादभावस्यान्यत्वे प्रतियोगिप्रतिपत्तावपि तन्निवृत्त्यसिद्धेः । अनन्यत्वे प्रतियोगिनः प्रतिपन्नत्वादेव निषेधासम्भवाञ्च । किवाभावाख्यं प्रमाणं निश्चितं सत् प्रकृताभावनिश्चायकं किंवाऽनिश्चितं सत्, नाद्यः, तन्निश्चयस्याभावाख्यप्रमाणान्तरमूलकत्वेऽनवस्थाप्रसङ्गात् । प्रमेयाभावात्तन्निश्चये चान्योऽन्याश्रयः, प्रमेयाभावनिश्चयादभावप्रमाणनिश्चयः, सोऽपि प्रमेयाभा - 15 निश्चयोऽभावाख्यप्रमाणनिश्चयादिति । नान्त्यः स्वयम निश्चितस्यान्यनिश्चायकत्वासम्भवात्, खरविषाणादेखि | अभावस्य प्रमाण (भावात्मकत्वेनावस्तुतयाऽन्यज्ञानं प्रति कारणत्वासम्भ वान्नेन्द्रियादिवदनिश्चितस्यापि निश्चायकत्वमिति नाभावाख्यं प्रमाणं सम्भवतीति ॥
इति तपोगच्छनभोमणि श्रीमद्विजयानन्द सूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिन विन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्स्वसोपानस्य ज्ञातृव्यापारनिरसनं नाम प्रथमं सोपानम् ॥
←
20
अथ स्वतः प्रामाण्यभङ्गः ।
एवं प्रामाण्यं स्वोत्पत्तौ स्वतः, अनपेक्षत्वादिति यदुक्तं तदसङ्गतम्, अविद्यमानस्या- 25 त्मलाभरूपाया उत्पत्तेर्निर्हेतुकत्वे देशकालस्वभावनियमाभावप्रसङ्गात्, अतो गुणवचक्षुरादिकारणसद्भावे यथावस्थितार्थप्रतिपत्त्या तदभावे तदभावेन चान्वयव्यतिरेकाभ्यां तद्धेतुकत्वं निर्णीयते, अन्यथा दोषस्यान्वयव्यतिरेकस श्वेऽप्यप्रामाण्यं स्वत एव स्यात् । अक्षाणाम
२
"Aho Shrutgyanam"