________________
सोपानम् 1
आग्यामवर्णनम् ।
: ३४५
ब्धिः स्यादनुपलभ्यते चातो न तत्सदिति वाच्यम्, यतो न सर्वं मूर्त्तिमदुपलभ्यते सौक्ष्मात् पिशाचादिशरीरस्येवौदारिकादिशरीरनिमित्ततयोपकल्पितस्यानुपलम्भेऽप्यपह्नोतुमशक्यत्वात्, अनुपलभ्यमानस्यास्तित्वं चाप्तवादात् न च तदभावे औदारिकाद्य पूर्व शरीरसम्बन्ध आत्मनः स्यात्, न हि रज्वाकाशयोरिव मूर्तीमूर्तयोर्बन्धविशेषयोगः कार्मणशरीराविनाभूतश्वामुक्तेः सदात्मेति तस्य कथञ्चिन्मूर्त्तत्वं ततश्चौदा रिकादिशरीरसम्बन्धो रज्जुघटयो 5 रिवोपपत्तिमान् । अथ सूक्ष्मशरीर सिद्धावप्यास्रवनिरपेक्षाः परमाणवो वाय्वादिसूक्ष्मद्रव्यनिमित्तपरमाणु द्रव्यवद्भविष्यतीति न बन्धहेत्वास्रवसिद्धिः, नैतत्, क्रोडीकृतचैतन्यप्रयोजनस्याचेतनस्यास्रवनिरपेक्ष परमाणुहेतुत्वानुपपत्तेः, न ह्यभ्यन्तरीकृतचैतन्यप्रयोजनस्य आकाश द्रव्यादेर्वाग्बुद्धिशरीरारम्भ निरपेक्षपरमाणुजन्यता परस्यापि सिद्धा, अतस्तृष्णानुबद्धस्य चैतन्यस्य मनोवाक्कायव्यापारवतः कर्मवर्गणापुद्गलसचिवस्य कार्मणशरीरानुविद्धस्य 10 तथाविधतच्छरीरनिर्वर्त्तकत्वम्, अन्यथा तथाविधकारणप्रभवतच्छरीराभावे आत्मनो बन्धाभावतः संसारित्वविकलं जगत् स्यादेव तदेवमनुमानागमाभ्यां बन्धस्य प्रसिद्धिः । संवरस्य त्वभ्यक्षानुमानागमप्रसिद्धता न्यायानुगतैव, चैतन्यपरिणतेः स्वात्मनि स्वसंवेदनाध्यक्षसिद्धत्वात्, अन्यत्र तु तत्प्रभवकार्यानुमेयत्वात् तत्प्रतिपादकस्यागमस्य सद्भाञ्च । निर्जरां तु ज्ञानावरणीयादेः कर्मणः केवलज्ञानसद्भावान्यथानुपपत्त्याऽनुमानतः आगमतश्चास्मदा- 13 दादिभिः प्रतीयते, सर्वकर्मनिर्जरावद्भिस्तु स्वसंवेदनाध्यक्षतः, परमपदप्राप्तिहेतोः सम्यरज्ञानादेः स्वसंविदितत्वात् । सर्वकर्मापगमाविर्भूतचैतन्यसुखस्वभावात्मस्वरूपस्य मोक्षस्याध्यनन्तरोक्तन्यायतः प्रतिपत्तिः, तथाहि यदुत्कर्षतारतम्याद्यस्यापचयतारतम्यं तत्प्रकर्षनिष्ठागमने भवति तस्यात्यन्तिकः क्षयः, यथेोष्णस्पर्शतारतम्यात् शीतस्पर्शस्य, भवति च ज्ञानवैराग्यादेरुत्कर्षतारतम्यादज्ञानरागादेरपचय तारतम्यमित्यनुमानतो स्मदादेरपवर्गसिद्धिः, भगवतान्तु केवलाघ्यक्षत इति जीवाजीव पदार्थद्वयाऽव्यतिरिक्तास्रवादि
"
भगवदागमतम्बा
१ एवं क्वचिदात्मनि सामस्त्येन कर्माणि निर्जीयन्ते विपाकान्तत्वात् यन्नैवं तन्नैवं यथाकालादि, विपाकान्तानि च कर्माणि फलावसानत्वादन्यथा नित्यत्वप्रसङ्गात् सर्वकर्मनिर्जरासिद्धिर्भाच्या | २ अन यद्यपि जीवाजीवव्यतिरिक्ता नाश्रवादयः तत्राश्रवः मिथ्यादर्शनादिरूपो जीवस्य परिणामः संवरश्व देशसर्वभेद आश्रवनिरोधलक्षणः आत्मनो निरृत्तिरूपः परिणामः, परिणामपरिणामिनोचानन्यत्वादामरूप एव, निर्जरापि कर्मपरिशाटः, जीवः स्वशक्त्या कर्मणां यत्पार्थक्यमापादयति, मोक्षोऽपि समस्तकर्मविरहित आत्मा, बन्धश्च कर्मस्वरूपः पुद्गलात्मत्वादजीव एवैति जीवाजीवावैव तत्त्वं तथापि प्राणिनां मोक्षमार्गप्रवृत्तिसम्पादयायास्त्रत्रादयः पृथक्तस्वतया तत्र तत्राभिहिता इति मत्वोक्त जीवाजीवेत्यादि ॥
४४
2
" Aho Shrutgyanam"
20