________________
सम्मतितस्वसोपाने
[अष्टत्रिशम् प्रतिपत्तिर्मुमुक्षुभिर्विधेया। तथाहि मोक्षार्थिभिरवश्यं मोक्षः प्रमाणतः प्रतिपत्तव्यः, अन्यथा तदुपायप्रवृत्त्यनुपपत्तेः, न ह्यनवगतसस्यादिसद्भावस्तत्प्राप्त्युपाये कृष्यादौ प्रवर्तितुमुत्सहते, तदुपायप्रवृत्तिरप्युपायस्वरूपसंवरनिर्जरालक्षणपदार्थद्वयप्रतिपत्तिमन्तरेणानुपपन्ना, अज्ञातस्य प्रेक्षापूर्वकादिविषयत्वानुपपत्तेः, तथाह्यशेषकर्मवियोगलक्षणो मोक्षः संवरनिर्जराफलः तदभावेऽनुपपद्यमानस्तत्प्रवृत्ति तज्ज्ञानपूर्विकामाक्षिपति, न ह्यभिनवकर्मोत्पत्तौ प्राक्तनाशेषकर्मसंयोगाभावो भावे वाऽऽत्यन्तिकस्तद्वियोगः सम्भवतीति संवरनिर्जराज्ञानं मुमुक्षुभिरवश्यं विधातव्यम् । कर्मबन्धोऽपि संवरनिर्जरानिवर्तनीयः संसारसरित्स्रोतः प्रवर्तको ज्ञातव्यः, अज्ञातस्योपायनिवर्तनीयत्वायोगात् । अयमप्यास्रवयुक्तत्वेन ज्ञातव्यः, अन्यथा
तदनुपपत्तेः, यथा हि घटादेः स्नेहाभावे रजःसम्बन्धो न घटते तथा कषायस्नेहाभावे 10 नात्मनः कर्मरजःसम्बन्ध उपपत्तिमान् । आस्रवोऽपि बन्धहेतुर्जीवाजीवकारणतया ज्ञातव्यः,
अन्यथा कारणस्य तस्यासम्भवात , न ह्यज्ञात कारण तत्कार्यतथा शाल्यकुरा दिवज्ज्ञातुं शक्यम् । म च जीवाजीवबहिर्भूतमासवस्य कारणं भवति तद्व्यतिरेकेण पदार्थान्तरस्यासत्वात् , जीवाजीवयोश्च परिणामित्वे सत्यास्रवहेतुत्वम् , एकान्तनित्यस्यानित्यस्य वाऽर्थ क्रियाऽ. निर्वर्तकत्वेनासत्त्वात् , तस्मात् परिणामिजीवाजीवपदार्थद्वयाव्यतिरिक्तौ कथश्चित्सकारणौ 15 हेयोपादेयरूपौ बन्धमोक्षौ प्रतिपत्तव्याविति सप्तपदार्थाः प्रमाणतोऽभ्युपगन्तव्याः । यथा ‘च संवरनिर्जरयोर्मोक्षहेतुता आस्रवस्य बन्धनिमित्तत्वं तथाऽऽगमात् प्रतिपत्तव्यम् , तस्य च जीवाजीवादिलक्षणे दृष्टविषये वस्तुतत्वे सर्वदाऽविसंवादाददृष्टविषयेऽप्येकवाक्यतया प्रवर्त्तमानस्य प्रामाण्यं प्रतिपत्तव्यम् । न च वक्कधीनत्वात्तस्याप्रामाण्यम् , वकधीनत्वप्रमाण
स्वयोर्विरोधाभावात् , ववधीनस्यापि प्रत्यक्षस्य प्रामाण्योपलब्धः। न चाक्षजत्वाद्वस्तुप्रति20 बद्धत्वेन तत्र प्रामाण्यं न शाब्दस्य विपर्ययादिति वक्तव्यम् । शाब्दस्यात एव प्रमाणान्तर.
त्योपपत्तेः, अन्यथाऽनुमानादविशेषप्रसङ्गात्, तथाहि गुणवद्वक्तप्रयुक्तशब्दप्रभवत्वादेव शान्दमनुमानज्ञानाद्विशिष्यते, अन्यथा बाह्यार्थप्रतिबन्धस्यात्रापि सद्भावानानुमानादस्य विशेषः स्यात् । यदा च परोक्षेऽपि विषयेऽस्य प्रामाण्यमुक्तन्यायात्तदा गुणवद्वक्त
प्रयुक्तत्वेनास्य प्रामाण्यमतश्च गुणवद्वक्तप्रयुक्तत्वमितीतरेतराश्रयदोषोऽपि नात्रावकाशं 25 लभते । यथोक्तसंवादादस्य प्रामाण्यनिश्चये कुतोऽयमस्यात्र संवाद इत्यपेक्षायामाप्त
प्रणीतत्वादित्यवगमो न पुनः प्रथममेव तत्प्रणीतत्वनिश्चयादस्यार्थप्रतिपादकत्वम् , प्रतिबन्धनिश्चयादनुमानस्येव, नापि दृष्टविषयाविसंवादिवाक्यैकवाक्यतां विरहय्यादृष्टार्थवाक्यैकदेश
"Aho Shrutgyanam"