SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ 5 : ४ . सम्मसितस्वसोपाने [ अनिशम् निर्जराया अपि एकान्तवादेऽनुपपत्तिः । यस्मिन्नेकत्वेन वितर्कस्तदेकत्ववितर्क विगतार्थव्यञ्ज. नयोगसंक्रमत्वादवीचारं द्वितीय शुक्लध्यानम् , तथाधेकपरमाणावेकमेव पर्यायमालम्ब्यत्वेना. दाय अन्यतरैकयोगबलाधानमाश्रितव्यतिरिक्ताशेषार्थव्यञ्जनयोगसंक्रमविषयचिन्ताविक्षेपर. हितं बहुतरकर्मनिर्जरारूपं नि:शेषमोहनीयक्षयानन्तरं युगपद्भाविधातिकमंत्रयध्वंसनसमर्थमकपायछद्मस्थवीतरागगुणस्थानभूमिकं क्षपको द्वितीय शुक्लध्यानमासादयति । प्रायः पूर्वविदेव तदनन्तरं ध्यानान्तरे वर्तमानः क्षापिकज्ञानदर्शनचारित्रवीर्या तिशयसंपत्समन्वितो भगवान् केवली जायत इति, स चात्यन्तापुनर्भवसम्पदङ्गनासमालिङ्गिततनुः कृतकृत्योऽचिन्त्यज्ञानाद्यैश्वर्यमाहात्म्यातिशयपरमभक्तिनम्रामरेश्वरादिवन्द्यचरणोऽन्तर्मुहूर्त देशानां वा पूर्वकोटि भवो पग्राहिकर्मवशाद्विहरन् यदाऽन्तर्मुहूर्तपरिशेषायुष्कस्तत्तुल्यस्थितिनामगोत्रवेदनीयश्च भवति 10 तदा मनोवाग्बादरकाययोगं निरुध्य सूक्ष्मकाययोगोपगः सूक्ष्म क्रियाऽप्रतिपाति शुक्लथ्यानं तृतीयमध्यास्ते । यदा पुनरन्तर्मुहूर्त्तस्थितिकायुष्ककर्माधिकस्थितिशेषकर्मत्रयो भवत्यसौ तदाऽऽयुष्ककर्मस्थितिसमानस्थिति शेषकर्मसम्पादनार्थ समुद्धातमाश्रित्य दण्डकपाटमन्थलोकपू. रणानि स्वात्मप्रदेशविसरणतश्चतुर्भिः समयैर्विधाय तावद्भिरेव तैः पुनस्तानुपसंहृत्य स्वप्रदेश विसरणसमीकृतभवोपग्राहिकर्मा स्वशरीरपरिमाणो भूत्वा ततस्तृतीयं शुक्लध्यानभेदं परिस15 माप्य पुनश्चतुर्थ शुक्लध्यानमारभते, तत् पुनर्विगतप्राणापानप्रचाराशेषकायवाङ्मनोयोगस देशपरिस्पन्दत्वाद्विगतक्रियानिवर्तीत्युच्यते, तत्र च सर्वबन्धास्रवनिरोधः, अशेषकर्मपरिक्षयसामोपपत्तेः, तदेव च निश्शेषभवदुःखविटपिदावानलकल्पं साक्षान्मोक्षकारणम् , तद्ध्यानवांश्चायोगिकेवली निःशेपितमलकलकोऽवाप्तनिजशुद्धस्वभावः ऊर्ध्वगतिपरिणामस्वा भाव्यान्निवातप्रदेशप्रदीपशिखावदूर्ध्व गच्छति एकसमयेनाऽऽलोकान्ताद्विनिमुक्ताशेषबन्धस्य 20 प्राप्तनिजस्वरूपस्य आत्मनो लोकान्तेऽवस्थानं मोक्षः। अत्र च जीवाजीवयोरावस्यापि आगमा. दिवाध्यक्षानुमानतोऽपि सिद्धिः प्रदर्शिता, कर्मयोगपुद्गलाऽऽत्मप्रदेशानां परस्परानुप्रवेशस्व. भावस्थ त्वध्यक्षतोऽनुपलब्धावपि अनुमानात् सिद्धिः, तथाहि, सकलज्ञेयज्ञानस्वभावस्यास्मनः स्वविषयेऽप्रवृत्तिर्विशिष्टद्रव्य सम्बन्धनिमित्ता, पीतहत्पूरपुरुषस्व विषयज्ञानाप्रवृत्तिवत् , यच्च ज्ञानस्य स्वविषयप्रतिबंधक द्रव्यं तज्ज्ञानावरणादि वस्तु सत् पुद्गलरूपं कर्म, आत्मनश्च 25 सकलशेयज्ञानस्वभावता स्त्रविषयाप्रवृत्तिश्च छद्मस्थावस्थायां प्राक् प्रदर्शितैव । औदारिकाद्य शेषशरीरनिबन्धनस्यानेकावान्तरभेदभिन्नाष्टविधकर्मात्मकस्य कार्मणशरीरस्य सर्वज्ञप्रणीतागमात् सिद्धेः कथं न ततो बन्धसिद्धिः । न च कार्मणशरीरस्य मूर्तिमत्त्वात् सत्त्वे उपल १ तथा च देशतः कर्मक्षयो निर्जरा, सर्वतः कर्मक्षयो मोक्ष इति न तयोरभेदः, संवरस्त्वाश्रवनिरोधलक्षण: ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy