SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ लम्मतितत्त्वसोपाने [ एकोनत्रिंशम् कुम्भ इति, कुम्भो जीवद्रव्यं न भवति जीवोऽपि न भवति घटद्रव्यम्, तस्माद्दावप्यद्रव्यमन्योऽन्यविशेषितौ परस्पराभावात्मकौ । तथाहि जीवद्रव्यं कुम्भादेरजीवद्रव्यायावृत्तं अव्यावृत्तं वा, आधे स्वरूपापेक्षया जीवो जीवद्रव्यम, कुम्भाद्यजीवद्रव्यापेक्षया च न जीवद्रव्यमित्युभयरूपत्वादनेकान्त एव द्वितीये च सर्वस्य सर्वात्मकतापत्तेः प्रतिनिय 5 तरूपाभावतस्तयोरभावः खरविषाणवत्, ततः सर्वमनेकान्तात्मकमन्यथा प्रतिनियतरूपताऽ नुपपत्तेरिति व्यवस्थितम् ॥ २८ ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजय : २७० : 10 कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्वसोपानस्य सामान्यविशेषात्मकत्वस्थापनं नाम एकोनत्रिंशं सोपानम् ॥ 20 --- उत्पादादिविशेषनिरूपणम् । अथ प्रत्युत्पन्नपर्यायं विगतभविष्यद्भयां यत्समानयति वचनं तत्प्रतीत्यवचनमिति यदुक्तं तत्र वचनादिकोऽपि पर्यायः, स चाप्रयत्नानन्तरीयको वचनविशेषलक्षणः, घटा15 दिकस्तु प्रयत्नानन्तरीयक इति केचित्संप्रतिपन्नाः, तन्निराकरणाय यद्यतोऽन्वयव्यतिरेकाभ्यां प्रतीयते तत्तत एवाभ्युपगन्तव्यमन्यथा कार्यकारणभावाभावप्रसक्तिरित्याह--- उपाओ दुविप्पो पओगजणिओ य वीससा चेव । तत्थ उपओगजणिओ समुदयवायो अपरिस्रुद्धो ॥ २९ ॥ उत्पादो द्विविकल्पः प्रयोगजनितश्च विस्नसा चैव । तत्र तु प्रयोगजनितस्समुदयवादोऽपरिशुद्धः ॥ छाया ॥ उत्पाद इति द्विविध उत्पादः, पुरुषेतरकारकव्यापारजन्यतया अध्यक्षानुमानाभ्यां तथा तस्य प्रतीतेः । पुरुषव्यापारान्वयव्यतिरेकानुविधायित्वेऽपि शब्दविशेषस्य तदजन्यत्वे घटादेरपि तदजन्यताप्रसक्तेः, विशेषाभावात् प्रत्यभिज्ञानादेश्व विशेषस्य प्रागेव निरासात् । तत्र प्रयोगेण यो जनितः - उत्पादः, मूर्त्तिमद्रव्यारब्धावयवकृतत्वात्स समुदाय25 वादः, तथाभूताऽऽरब्धस्य समुदायात्मकत्वात् तत एवासावपरिशुद्धः सावयवात्मकस्य तच्छब्दवाच्यत्वेनाभिप्रेतत्वात् ॥ २९ ॥ विसाजनितोऽप्युत्पादो द्विविध इत्याह- .) "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy