________________
सोपानम् ।
सामान्यविशेषात्मकत्वस्थापनम् । गइपरिगयं गई चेव केइ णियमेण दवियमिच्छति । तं पि य उड्ढगईयं तहा गई अन्नहा अगई ॥ २६ ॥ गतिपरिगतं गत्येव केचिनियमेन द्रव्यमिच्छन्ति ।।
तदपि चोर्ध्वगतिक तथा गतिरन्यथाऽगतिः ॥ छाया ॥ गतीति । गतिक्रियापरिणाम द्रव्यं गतिमदेवेति केचिन्मन्यन्ते तदपि गतिक्रियापरि. 5 णतं जीवद्रव्यं सर्वतो गमनायोगादू; दिप्रतिनियतदिग्गतिक तैर्वादिभिरभ्युपगन्तव्यम् , एवम्च तत् प्रतिनियतदिग्गमनेनैव गतिमत् , अन्यथापि गतिमत्स्यात् , तथाचाभिप्रेतदेशप्राप्तिवदनभिप्रेतदेशप्राप्तिरपि तस्य भवेदित्यनुपलभ्यमानयुगपद्विरुद्धोभयदेशप्राप्तिप्रसक्तरत्राप्यनेकान्तो नाव्यापकः, अभिप्रेतगतिरेव तत्रानभिप्रेताऽगतिरिति चेन्न, अनभिप्रेतगत्यभावाभावे प्रतिनियतगतिभाव एव न भवेत् , तत्सद्भावे वा तदवस्थोऽनेकान्तः ॥ २६ ॥ 10
स्यादेतत् , दहनाहहनः पवनात् पवन इत्यत्राप्यनेकान्ते दहनादावदहनादेविरुद्धरूपस्य सम्भवात्स्वरूपाभावः स्यादित्यत्राह-----
गुणणिव्वत्तियसण्णा एवं दहणादओ वि दहव्वा । जं तु जहा पडिसिद्धं दत्वमदव्वं तहा होइ ।। २७ ।। गुणनिर्वर्तितसंज्ञा एवं दहनादयोऽपि द्रष्टव्याः ।
15 यत्त यथा प्रतिषिद्धं द्रव्यमद्रव्यं तथा भवति ॥ छाया ॥ गुणेति । येषां दहनादिना गुणेनोत्पादिता संज्ञा तेऽपि दहनपवनादय एवमेवानेकान्तात्मका द्रष्टव्याः, तथाहि दाह्यपरिणामयोग्यं तृणादिकं दहतीति दहनः, तदपरिणतिस्वभावं स्वात्माकाशाप्राप्तवत्रादिकं न दहतीति । तेन यद्रव्यं यथा दहनरूपतया प्रतिषिद्धं तदद्रव्यमदहनादिरूपम् , तथा भजनाप्रकारेण स्याहहनः स्यान्नेति भवति ततो नाव्याप्यने । कान्तः। तथाऽदहन इत्यत्राप्यने कान्तः, तथाहि यदुदकद्रव्यं यथा दहन रूपेण प्रतिषिद्धं दहनो न भवतीति अढहन इति तदपि न सर्वथाऽदहनद्रव्यं भवति, पृथिव्यादेरदहनरूपाघ्यावृत्तत्वात , अन्यथा दहनव्यतिरिक्तभूतैकत्वप्रसङ्ग इत्यनेकान्त एव, अदहनव्यावृत्तस्य तद्रव्यत्वात् ॥ २७ ॥ नन्वेवं तदतद्व्यत्वाज्जीवद्रव्यमजीवद्रव्यम् , अजीवद्रव्यश्च जीवद्रव्यं म्यादित्यत्राह-- 25
कुंभो ण जीवदवियं जीवो वि ण होइ कुंभदवियं ति । तम्हा दो वि अदवियं अण्णोणविसेसिया होंति ॥ २८ ॥ कुम्भो न जीवद्रव्यं जीवोऽपि न भवति कुम्भद्रव्यमिति । तस्माद्धावप्यद्रव्यं अन्योऽन्यविशेषितौ भवतः ।। छाया ।
"Aho Shrutgyanam"