________________
सोपानम् ]
उत्पादादिविशेषनिरूपणम् । साभाविओ वि समुदयकओ व्व एगत्तिओव्व होजाहि । आगासाईआणं तिण्हं परपचओऽणियमा ॥ ३० ॥ स्वाभाविकोऽपि समुदायकृतो वा एकत्विको वा भवेत् ।
आकाशादीनां त्रयाणां परप्रत्ययोऽनियमात् ।। छाया ॥ स्वाभाविक इति, स्वाभाविकच द्विविध उत्पादः, एकः समुदायकृतः, प्राक्प्रतिपा- 5 दिताक्यवारब्धो घटादिवत्, अपरश्चैकत्विकः अनुत्पादितामूर्तिमव्यावयवारब्धः, आका शादिवत्, आकाशादीनाञ्च त्रयाणां द्रव्याणामवाहका दिघटादिपरद्रव्यनिमित्तोऽवगाहनादिक्रियोत्पादोऽनियमात्-अनेकान्ताद्भवेत् , अवगाहकगन्तस्थातद्रव्यसन्निधानतोऽम्बरधर्माधर्मध्ववगाहनगतिस्थितिक्रियोत्पत्तिनिमित्तभावोत्पत्तिरित्यभिप्रायः ॥ ननु अनारब्धामूर्तिम. व्यावयवत्वे गगनादीनां निरक्यवत्वप्रसक्तेरनेकान्तात्मकत्वव्याधातः, न, मूर्तिमव्यानार- 10 ब्धानामपि तेषां सावयवत्वात् , प्रदेशव्यवहारस्याकाशे दर्शनात् । न च तद्व्यवहारो मिथ्या, मिथ्यात्व निमित्ताभावात् , न च संयोगस्याव्याप्यवृत्तिसंयोगाधारत्वात्तन्निमित्तः सावयव. स्वाध्यारोपो मिथ्यात्वकारणम् , निरवयवेऽव्याप्यवृत्ति संयोगाधारत्वस्याध्यारोपनिमित्तस्यैवानुपपत्तेः, आकाशस्य निरवयवत्वे श्रोत्राकाशसमवेतस्येवान्यत्र समवेते शब्दस्याप्यस्मदादे. रुपलम्मप्रसङ्गाच्च, निरवयवैकाकाशसमवेतत्वात् । धर्माधर्माभिसंस्कृतकर्णशष्कुल्यवरुद्धाका. 15 शदेश एव श्रोत्रमन्यत्र समवेतन्तु न तत्र समवेतमिति चेन्न सावयवत्वप्रसङ्गात् , श्रोत्राकाशप्रदेशादन्यत्र समवेतशब्दाधाराकाशदेशस्यान्यत्वात् , सावयवत्वाभावेऽम्बरस्य शब्दस्य नित्यत्वसर्वगतत्वप्रसङ्गाच, आकाशैकगुणत्वात्तन्महत्त्ववत् , क्षणिकैकदेशवृत्तिविशेषगुणत्वं शब्दस्य प्रमाणतः सिद्धत्वान्नायं दोष इति चेन्न सावयवत्वप्रसङ्गात्, तदेकदेशवृत्तित्वाच्छन्दस्य, न हि निरवयवत्वे तस्यैकदेशः सङ्गच्छते । न च संयोगस्याव्याप्यवृत्तित्वनिबन्धनोऽयमेक- 20 देशव्यपदेश इति वाच्यम् , आकाशं व्याप्य संयोगो न वर्तते तदेकदेशे वर्तत इत्यभ्युपगमप्रसङ्गात्, व्याप्यवृत्तित्वं हि सामस्त्यवृत्तित्वं तत्प्रतिषेधश्च पर्युदासपक्षे एकदे. शवृतित्वमेव, प्रसज्यपक्षे तु वृत्तिप्रतिषेध एव, न चासौ युक्तः, संयोगस्य गुणत्वेन द्रव्याश्रितत्वात् , तदभावे तदभावात्, आकाशस्य निरवयवत्वे सन्तानवृत्त्या शब्दस्या
१. युगपन्निखिलद्रव्यावगाहः साधारणकारणापेक्षः, युगपन्निखिलद्रव्यावसाहत्वात् , य एवं स एवम्, यथेकसरःसलिलान्तःपातिमत्स्याद्यवगाहः तथाऽवगाहश्चायम् , तस्मात्तथा, यच्चापेक्षणीयमत्र साधारणं कारणं तदाकाशमिति, अत्र विशेषस्तत्त्वन्यायविभाकरे द्रष्टव्यः, एवं धर्मादिसिद्धिरपि ॥ २. पर्यायार्थादेशात् पूर्वपूर्वाकाशप्रदेशेभ्य उत्तरोत्तराकाशप्रदेशोत्पत्त्या कश्चित्तदभिन्नस्य व्योम्नोऽपि समुत्पादात् सावयवत्वमिति भावः । ३. प्रसज्यपक्षे व्याप्यवृत्ती निषिद्धायां न नभस एकदेशानभ्युपगमे तेनापि वृत्त्यसम्भवे वृत्तिमात्रस्यापि प्रतिषेधः स्यात्, न चैतत्तथोपपद्यते शब्दस्य गुणत्वस्वीकाराद्गणस्य चावश्यं द्रव्याश्रितत्वादिति ।।
"Aho Shrutgyanam"