________________
सम्मतितस्वसोपाने
[ पञ्चविंशम् । ग्निकर्षकल्पनावैयर्यम् । एवं समवायस्याभावात् संयुक्तसमवायादीनामप्यभावेन रूपाप्रकाशकतया रूपस्यैव प्रकाशकत्वमसिद्धम् । इह तन्तुषु पट इत्यादिबुद्ध्या समवायः साध्यत इति चेत्, न इह बुद्ध्या सम्बन्धमात्रसाधने घटतद्रूपयोः कथञ्चित्तादात्म्यसम्बन्धा
भ्युपगमात् सिद्धसाध्यताप्रसनः। तद्बुद्धिनिमित्ततया तत्सम्बन्धाप्रतिपत्तौ कथं समवायोऽपि 5 तनिमित्ततया प्रतिपन्नः । घटतद्रूपयोः कथञ्चित्तादात्म्यसम्बन्धी विरोधान्नेष्यते चेत्तर्हि भावाभाक्योः कथश्चित्तादात्म्याभावे समवायादेरसम्भवादसम्बन्धः स्यात् , तथा चाभावेन सहाक्षाणां सन्निकर्षाभावान्नाक्षतस्तत्प्रतिपत्तिः स्यात् । न च भावाभावयोर्विशेषणविशेष्यभाव एवं सम्बन्ध इति वाच्यम् , भावाभावाभ्यां तस्यानर्थान्तरत्वे तावेव स एव वा स्यात् , अर्था
न्तरत्वे न भावाभावाभ्यां तस्य सम्बन्धः, सम्बन्धाभावात् , सम्बन्धान्तरकल्पनायामनवस्था10 नात् अतस्तयोः कथञ्चित्तादात्म्यमभ्युपेयमन्यथाऽभावोऽध्यक्षप्रमाणग्राह्यो न स्यात् । एवञ्च
समवायासिद्ध्या नाक्षस्य रूपेण सम्बन्धः संयोगादिषड्विधसन्निकर्षाभावात् । अथ भवतोऽपि कथमप्राप्तार्थप्रकाशकत्वं सिद्धमिति चेन्न, अप्राप्तार्थप्रकाशकं चक्षुः, अत्यासन्नार्थाप्रकाशकस्यात् , यन्नैवं तन्नैवं यथा श्रोत्रादि, न चेदं तथा इति व्यतिरे किहेतुना तत्साधनात्, न
चायमसिद्धो हेतुः, गोलकस्य कामलादेः पक्ष्मपुटगतस्य चाञ्जनादेस्तेनाप्रकाशनात् । अथ 15 श्रोत्रादौ अत्यासन्नार्थप्रकाशकत्वं न सिद्धमिति कथं तस्य वैधर्म्यदृष्टान्ततेति चेन्न, कर्णशष्कु
लीप्रविष्टमशकादिशब्दस्य श्रवणात् , स्पर्शनादौ विवादाभावाच, एवञ्च सन्निकर्षादेश्चक्षुषोऽ. सिद्धेरिन्द्रियार्थसन्निकर्षोत्पन्नत्वं प्रत्यक्षस्यासिद्धम् , एवमेवान्तःकरणेन्द्रियसम्बन्धोऽपि न सम्भवति, परकल्पितान्तःकरणस्यासिद्धेः । यचार्थग्रहणं स्मृतिफलसन्निकर्षनिवृत्यर्थमित्युक्तं
तदयुक्तम् , स्मृतिवज्ज्ञानस्याप्यर्थजन्यत्वासिद्धेः, तज्जन्यत्वात्तस्य तदाहकत्वे समानसमय20 चिरातीतानागतार्थग्राहकत्वं तस्य न स्यात् , तथाभूतस्यार्थस्य तत् प्रत्यजनकत्वात् , तथा च
सर्वज्ञज्ञानं सकलपदार्थप्राहकं न भवेदिति । ज्ञानग्रहणं सुखादिनिवृत्त्यर्थमित्यप्यसङ्गतम् , ज्ञानरूपत्वानतिक्रमात्सुखादेः, अन्यथाऽऽहादाद्यनुभवो न स्यात् , अनवस्थादोषप्रसङ्गात् । ज्ञानसुखयोरेकत्वे प्रत्यक्षविरोधो ज्ञानमर्थावबोधस्वभावं सुखादिक्रमाह्वादादिस्वभावमिति
यदुक्तं तन्न, यतः स्वावबोध एव विज्ञानेऽव्यभिचरितो धर्मः, स्मरणादौ ज्ञानरूपतायामप्य25 वबोधरूपताया अभावात् स्वावबोधरूपता तु ज्ञानाव्यभिचारिता सुखादावप्यस्ति, अन्यथा
तस्यानुभव एव न स्यात् , ततश्च सुखादेर्ज्ञानरूपतायां कथमध्यक्षविरोधः । अव्यपदेश्यपदोपादानमप्यनर्थकम् , व्यवच्छेद्याभावात् , उभयजं ज्ञानं व्यवच्छेद्यमिति चेन्न, तस्याध्य. क्षतायां दोषाभावात् । शब्दजन्यत्वाद्यदि तस्य शाब्देऽन्तर्भावस्तर्हि अक्षजत्वात् किमिति अध्यक्षे नान्तर्भावः । शब्दस्य प्राधान्यादिति चेन्न, अक्ष लिङ्गातिक्रान्त एव शब्दस्य प्राधान्येन
"Aho Shrutgyanam