SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] प्रत्यक्षलक्षणपरीक्षा। व्यापारयोगात् । यद्युभयजज्ञानविषयस्यापि तदतिक्रान्तत्वं तीव्यपदेश्यपदोपादानमन्तरेणापि शाब्द एव तस्यान्तर्भावो भविष्यतीति तद्व्यवच्छेदार्थमव्यपदेश्यपदोपादानमनर्थकम् । अथोभयजत्वादस्य प्रमाणान्तरत्वं अव्यपदेश्यग्रहणेऽसति स्यादिति चेन्न, यतोऽक्षप्राधान्ये प्रत्यक्षता शब्दप्राधान्ये तु शाब्दतेति कथं प्रमाणान्तरता, न चोभयोरपि प्राधान्यम् , सामग्र्यामेकस्यैव साधकतमत्वात् , तेनैव च व्यपदेशप्राप्तेः। अव्यभिचारादिपदमपि न व्यभिचारिज्ञाननिवृत्त्यर्थ 5 युज्यते, तत्प्रतिपाद्यार्थस्य परमतेनासङ्गतेः, तथाहि अदुष्टकारणारब्धत्वं बाधारहितत्वं वा नाव्यभिचारित्वं, प्रवृत्तिसामर्थ्यावगमव्यतिरेकेण ज्ञातुमशक्तेः, अतः प्रवृत्तिसामर्थ्य मेवाव्यभिचारित्वम् , तच्च विज्ञानस्याव्यभिचारित्वं ज्ञायमानं यदि प्रतिभातविषयप्राप्त्याऽवगम्यते तर्हि उदकज्ञाने किमुदकावयवी प्रतिभातः प्राप्यते, उत तत्सामान्यम् , किं वोभयम् । नायः, अवयविन एवाभावात् प्रतिभासाविषयत्वात् , सत्त्वेऽपि तस्य न प्रतिभासस्य पराभ्युपगमेन 10 प्राप्तिः, झषादिविवर्तनाभिघातोपजातावयव क्रियादिक्रमेण ध्वंससम्भवात् । न च विद्यमानव्यूहैरवयवरारब्धस्य तस्य तज्जातीयतया प्रतिभातस्यैव प्राप्तिरिति वाच्यम्, प्रतिभातस्य प्राप्तस्य चान्यत्वात् , न ह्यन्यस्य प्रतिभासनेऽन्यत्र प्राप्तावव्यभिचारिता, अतिप्रसङ्गात् । न च प्रतिभातोदकसामान्य प्राप्त्या तदव्यभिचारीति पक्ष आश्रियत इति वाच्यम् , व्यक्तिभ्य एकान्ततो भिन्नस्याभिन्नस्य वा सामान्यस्यासत्त्वात, सत्त्वेऽपि तस्य नित्यतया स्वप्रतिभास. 15 ज्ञानजनकत्वायोगात् , अजनकस्याविषयत्वाभ्युपगमात् , विषयत्वेऽपि तस्य पानाद्यर्थ क्रियाजनकत्वायोगेन प्रवृस्यभावप्रसङ्गात् । न च तदनगमेऽपि व्यक्तौ अर्थक्रियार्थिनां प्रवृत्तिरिति वाच्यम् , अन्यप्रतिभासेऽन्यत्र प्रवृत्त्ययोगात् । न च समवायस्यातिसूक्ष्मतया जातिव्यक्तयोरेकलोलीभावेन जातिप्रतिपत्तावपि भ्रान्त्या व्यक्ती प्रवृत्तिरिति वाच्यम् , तज्ज्ञानस्यातस्मिस्तगणरूपतया भ्रान्तिरूपत्वादव्यभिचरित्वायोगात् । नापि तृतीयः, अवयविसामान्ययोरभावे 20 तद्वत्पक्षस्यापि दुरापास्तत्वात् । प्रवृत्तिसामर्थेन पूर्वज्ञानस्याव्यभिचारिता किं लिङ्गभूतेन ज्ञायते उताध्यक्षरूपेण, नाद्यः, तेन सह सम्बन्धानवगतः, अवगतौ वा प्रवृत्तिसामर्थेन न किञ्चित् प्रयोजनम् । न द्वितीयः ध्वस्तेत पूर्वज्ञानेन सहेन्द्रियस्य सन्निकर्षाभावात्तद्विषयज्ञानस्याध्यक्षतानुपपत्तेः, केशोन्दुकादिज्ञानवत् तस्य निरालम्बनत्वाञ्च कथमव्यभिचारिता. व्यवस्थापकत्वम् । न ह्यविद्यमानस्य कथञ्चिद्विषयभावः सम्भवति, जनकत्वाकारार्पकत्वमह- 25 स्वादिधर्मोपेतत्वसहोत्पादसत्त्वमात्रादीनां विषयत्वहेतुत्वेन परिकल्पितानामसति पदार्थे सर्वे. षामभावात् । अथात्मान्तःकरणसम्बन्धेनाव्यभिचारितादिविशिष्टज्ञानमुत्पन्नं गृह्यत इति तव्यभिचारितावगम इति चेन्न अव्यभिचारिताया ज्ञानधर्मत्वे सामान्यदूषणरीत्या नित्यता १ सकलप्रवृत्तिजनकत्वं प्रवृत्तिसामर्थ्यम् । २८ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy