SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] प्रत्यक्षलक्षणपरीक्षा । : २१५ । नैव तमसा व्यभिचारः स्यात् । न वालोकाभाव एव तमो नातिरिक्तं किञ्चिदिति वाच्यम्, आलोकस्यापि तमोऽभावरूपताप्रसक्तेः, तरतमरूपतयोपलम्भस्योभयत्र समानत्वान्न स आलोकस्य भावरूपतासाधकः । आलोकप्रतिभासाभाव एव तम इति चेत्तमः प्रतिभासाभाव एवालोक इत्यस्यापि समानत्वात् । न च चक्षुर्व्यापाराभावेऽपि तत्प्रतिभाससंवेदनात् आलो. कप्रतिभासाभाव एव तमः प्रतिभासः, प्रतिनियत सामग्री प्रभव विज्ञानावभासित्वात् प्रतिनिय - 5 तभावानां तमसस्तदतत्प्रभवविज्ञानावभासित्वात्, आलोकस्य तद्विपर्ययात्, यद्वाऽऽलोकस्याप्यचक्षुर्जे सत्यस्वप्नज्ञाने प्रतिभासनात्तमोज्ञानाभावरूपता भवेत् । आलोकस्य रूपप्रतिपत्तौ कारणत्वान्नाभावरूपता तर्हि तमसोऽपि नक्तंचररूपप्रतिपत्तौ हेतुभावो विद्यत इति नाभावरूपता भवेत्, तदेवमालोकस्य वस्तुत्वे तमसोऽपि तदस्त्विति तेन हेतोर्व्यभिचारः । भवतु वाssलोकाभाव एव तमस्तथापि न व्यभिचारपरिहारः तदभावस्या तैजसस्यापि तत्प्रकाशकत्वात् । न च तमोऽभावेऽपि रूपदर्शनान्न तस्य तत्प्रकाशकत्वमिति वाच्यम्, नक्तंचराणामालोकाभावेऽपि रूपदर्शनादालोकस्यापि तत्प्रकाशकत्वाभावप्रसक्तेः । आलोकाभावेऽपि किमिति नास्मदादीनां रूपदर्शनमिति न शङ्कयम्, रूपदर्शनस्य भावात्, अन्यथा न स्यादन्धकारसाक्षात्कारः, बहुलतमोव्यवधानान्न घटादिरूपदर्शनम्, तीव्रालोक तिरोहितास्परूपवत्, तद्व्यवच्छेदाय च प्रदीपोपादानम्, प्रदीपस्य च घटरूपव्यवधाय कतमोऽपनेतृत्व तैजसं चक्षुः, रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् प्रदीपवदिति साधनविकलो दृष्टान्तः । अथान्यतो रश्मयः सिद्धाः केवलमनेन प्राप्तार्थप्रकाशत्वं साध्यत इति चेन्न तद्राहकप्रमाणाभावात् । न चाप्राप्तार्थप्रकाशकत्वे सर्व प्रकाशयेदिति वाच्यम्, भावानां नियतशक्तित्वात्, य एव हि यत्र योग्यः स एव तत् प्रकाशयति, अन्यथा संयुक्तसमवायाविशेषाद्रूपादीनिव गन्धादीनपि प्रकाशयेत् । न च तत्र योग्यता नास्तीति वक्तव्यं योग्यताया अभावादेव प्रात्यभावेऽपि अतिदूरसन्निकृष्टस्य प्रकाशासम्भवात्सर्वत्र योग्यताया एवाश्रयणस्यौचित्यात्, ततश्च सम्बन्धकल्पना व्यथैत्र । किञ्च यदि चक्षुःप्राप्तार्थपरिच्छेदकं तर्हि स्फटिकाद्यन्तरितवस्तुप्रकाशकं न स्यात् वद्रश्मीनां स्फटिकादिना प्रतिबन्धात् । न च रश्मिभिः स्फटिकादेर्ध्वंसः स्फटिकव्यवहितवस्तुदर्शन वेलायां स्फटिकादेरपि दर्शनात् । व्यवहित पदार्थस्यापि दर्शने कलुषित जलाद्यावृतार्थस्यापि चक्षुः प्रकाशकं स्यात् । न च जलेन तद्रश्मयः प्रतिह - 25 न्यन्त इति वक्तव्यम्, स्वच्छजलेनापि प्रतिहतिप्रसङ्गेन तद्र्यवहितार्थप्रकाशकता न स्यात्, तेषां तत्र प्रकाशनयोग्यता कल्पने च तत एवाप्राप्तार्थप्रकाशसम्भवात् संयुक्तसमवायादिस 15 १ अत्रापि तमसो भावरूपत्वं तेजसो भावरूपत्वं वा भवतु तथापि पूर्वोदितव्यभिचारो नैव व्यपगतः तथापि प्रसङ्गात्तमसोऽभावस्वरूपत्वं निराकर्त्तुं न चालोकाभाव एव तम इत्याशङ्कोत्थापितेति विज्ञेयम् ॥ "Aho Shrutgyanam" 10 20
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy