SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्वसोपाने [पञ्चविंशम् इयत्वादिति वाच्यम् , पृथिव्यादावपि तेषां साध्यताप्रसक्तेः । न च वृषदंशचक्षुषो रश्मयोऽध्यक्षतो वीक्ष्यन्त इति नयनानां तत्साधने दुग्धधवलाबलालोचनादौ न विरोधो भूम्यादेस्तत्साधन इवेति वाच्यम् , तत्रेक्षणमात्रादन्यत्रापि तत्साधने हेम्नि पीतत्वप्रतीतौ रजतेऽपि पीतत्वप्रसङ्गात् , प्रमाणत्राधाया उभयत्रापि तुल्यत्वात् । तैजसत्वमपि चक्षु5 व्यसिद्धम् , न च तैजसं चक्षुः, रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् , प्रदीपवदित्यनु मानात्तत्सिद्धिरिति वक्तव्यम् , यतोऽत्र भास्वररूपोष्णस्पर्शवत्तेजोद्रव्यसमवेत गोलकस्वभावकार्यद्रव्यस्य चक्षुःशब्दवाच्यत्वेऽध्यक्षविरोधः, तद्विपरीतरूपस्पर्शाधारतयाऽध्यक्षतः प्रतिपत्तेः अबलापारावतबलीवर्दादीनां चक्षुषो धवललोहितनीलरूपतयोष्णस्पर्शविकलतया चाध्यक्षतोऽ. वगमात् । न च गोलकव्यतिरिक्तं चक्षुः, तद्राहकप्रमाणाभावात् तस्मादाश्रयासिद्धः। रूप10 स्यैव प्रकाशकत्वादिति हेतुरपि चन्द्रकिरणादिनाऽनैकान्तिकः, तस्य रूपस्यैव प्रकाशकत्वेऽपि अतैजसत्वात् । न च तस्यापि पक्षीकरणम् , अनैकान्तिकहेत्वभावप्रसक्तेः, सर्वत्र व्यभिचारविषयस्य पक्षीकरणसम्भवात् । न च चन्द्रकिरणान्तर्गतं तेजः रूपप्रकाशकमतो न व्यभिचार इत्यादेश्यम् , प्रदीपेऽप्यन्यस्य तदन्तर्गतस्य रूपप्रकाशकस्य प्रकल्पनया दृष्टान्ता सिद्धिप्रसङ्गात् । रूपस्यैव प्रकाशकेन रूपचक्षुःसन्निकर्षेण व्यभिचाराच । न चासौ 15 रसादेरपि प्रकाशकः, इन्द्रियान्तरकल्पनावैयर्थ्यप्रसङ्गात् । रूपप्रकाशकत्वस्य रूपज्ञान जनकत्वस्वरूपतया रूपादौ व्यभिचारोऽपि । यदि रूपादीनां मध्ये रूपस्यैव प्रकाशककरणद्रव्यत्वादिति हेतुरुच्यते तर्हि यथा सम्बन्धादेरद्रव्यादेरप्यतैजसस्य रूपज्ञानजनकता तथा चक्षुषोऽपि किं न स्यात् । एवं प्रदीपवदिति दृष्टान्तस्यापि रूपप्रकाशकत्वासिद्धेः साधनविकलता। न च प्रदीपे सति प्रतिनियतप्राणिनां रूपदर्शनसंभवात्तस्य रूपप्रकाशक20 त्वम् , अञ्जनादिसंस्कृतचक्षुषां तदभावेऽपि रूपदर्शनसद्भावात् कारणताव्यभिचारात् । न च प्रदीपसहकृतदर्शनस्य तदव्यभिचारित्वमिति वाच्यम् , यतो यादृशमेव रूपदर्शनमालोके संस्कृतचक्षुषां तदभावेऽपि तादृशमेव भवति भेदानवधारणात , तद्भेदकल्पने हि न किंचित केनचित्सदृशमिति सौगतमतानुप्रवेशः स्यात् , रूपप्रदीपयोश्च सहोत्पन्नयोर्युगपद्दर्शने प्रदीपव द्रुपस्यापि प्रदीपप्रकाशकत्वाद्रूपं तैजसं भवेत् , अन्यथा न प्रदीपोऽपि तेजसः स्यात् , 25 तयोस्तजनकत्वाविशेषात् । न चान्यदा प्रदीपस्यैव रूपप्रकाशकत्वोपलब्धेः स एव तदापि प्रकाशक इति वाच्यमन्यदाऽप्यञ्जनादिसंस्कृतचक्षुषां तदभावेऽपि रूपदर्शनसद्भावात् तस्य तत्प्रकाशकत्वासिद्धेः । अथ तस्मिन् सति कदाचित् कस्यचिद्रूपदर्शनात्तस्य तत्प्रदर्शकत्वं तर्हि नक्तवराणामन्धकारे रूपदर्शनात्तदभावे तदभावात् कार्यकारणभावस्य सर्वत्र तन्निबन्धनत्वात् तमोऽपि रूपप्रकाशकत्वात् प्रदीपवत्तैजसं भवेत् , अन्यथा रूपप्रकाशकत्वस्य हेतोरने "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy