________________
सोपानम् । . प्रत्यक्षलक्षणपरीक्षा।
:२११: समावेशः स्यात् । न चेन्द्रियार्थसन्निकर्षजा स्मृतिः, अतीतस्यापि तदाऽसतः स्मर्यमाणत्वात् । उत्पत्तिग्रहणं कारकत्वज्ञापनार्थम् , ज्ञानग्रहणं सुखादिनिवृत्त्यर्थम् । न च तुल्यकारणजन्यत्वाज्ज्ञानसुखादीनामेकत्वम् , अतो न ज्ञानग्रहणं सार्थकमिति वाच्यम् , तुल्य. कारणजन्यत्वस्यासिद्धत्वात् , आहादादिस्वभावाः सुखादयोऽनुभूयन्ते ग्राह्यतया ज्ञानन्वार्थावगमस्वभावं ग्राहकतयाऽनुभूयत इति ज्ञानसुखाद्यो दोऽध्यक्षसिद्ध एव विशिष्टादृष्ट- 5 कारणजन्यत्वात् सुखादेः ज्ञानजात्युत्पाद्यत्वाच्च ज्ञानस्य तु तद्भिन्नकारणजत्वान्न भिन्नहेतुजत्वमसिद्ध ज्ञानसुखाद्योः, अतो बोधजनकस्य ज्ञापनार्थ युक्तं ज्ञानग्रहणम् । व्यपदेशः शब्दस्तेनेन्द्रियार्थसन्निकर्षेण चोत्पादितस्याध्यक्षतानिवृत्त्यर्थमव्यपदेश्यपदोपादानम् , नन्वि. न्द्रियविषये शब्दस्य सामान्यविषयत्वेन व्यापारासम्भवादिन्द्रियस्य च स्वलक्षणविषयत्वानोभयोरेकविषयत्वमिति न तज्जन्यमेकं ज्ञानं सम्भवतीति चेन्न, तयोभिन्नविषयत्वाभावात्, 10 तद्भावभावित्वाचोभयजन्यत्वं ज्ञानस्यावगतमेव, चक्षुर्गोशब्दव्यापारे सति ह्ययं गौरिति विशिष्टकाले ज्ञानमुपजायमानमुपलभ्यते एव, तद्धावभावित्वेन चान्यत्रापि कार्यकारणभावो व्यवस्थाप्यते, तशात्रापि तुल्यमिति कथं नोभय ज्ञानम् । न चान्तःकरणानधिष्ठितत्वदो. पश्चक्षुषः तेनाधिष्ठानात शब्दस्य च प्रदीपवत्करणत्वात् । न च ग्राह्यत्वकाले शब्दस्य करणत्वमयुक्तम् , श्रोत्रस्यैव तदा करणत्वात् शब्दस्य तु तदा ग्राह्यत्वमेव गृहीतस्य चोत्तरकाल- 15 मन्तःकरणाधिष्ठितचक्षुःसहायस्य चार्थप्रतिपत्तौ व्यापार इत्युभयजं गौरिति ज्ञानम् । व्यपदेशकर्मतापन्नज्ञाननिवृत्त्यर्थमव्यपदेश्यविशेषणमिति केचित्तन्न, प्रदीपेन्द्रियसुवर्णादीनामभि. धीयमानत्वेऽपि कारणप्रमाणतापक्षे प्रत्यक्षत्वानिवृत्तेः । इन्द्रियार्थसन्निकर्षादुपजातं शब्देनाजनिनं च व्यभिचारिज्ञानं न प्रत्यक्षमित्यव्यभिचारिपदोपादानम् , मरीचिपूदकज्ञानस्येन्द्रियजत्वं तद्भावभावित्वेनावसीयते मरीच्यालम्बनत्वमपि तत एवावसीयते, मरीचिदेशं प्रति 20 प्रवृत्तेश्च, पूर्वानुभूतोदकविषयत्वे तु तद्देश एव प्रवृत्तिर्भवेत्, न मरीचिदेशे । भ्रान्तत्वान्मरीचिदेशे स्यादिति चेन्न भ्रान्तिनिमित्ताभावात् , इन्द्रियव्यापारस्य निमित्तत्वे तु इन्द्रियजत्वं सिद्धमेव, बाह्येन्द्रियजत्वाच्च न स्मृतिः। नचाप्रतिभासमाना मरीचयः कथमुदकज्ञाननस्यालम्बनमिति शङ्कयम , तेषु सत्सु भावान् , कुतो नान्यत्र घटादाविति चेन्न, उदकेन सारूप्याभावात् । अपरे तु स्मर्यमाणशब्दसहायेन्द्रियार्थसन्निकर्षजमपि मरीचिषु उदकमित्यु- 25 लेखवज्ञानमव्यभिचारिपदापोह्यमेव मन्यन्ते, अव्यपदेश्यपदव्यवच्छेद्यं तु यत्र प्रथमत एवे. न्द्रियसनिकृष्टेऽर्थे संकेतानभिज्ञस्य श्रूयमाणाच्छवात् पनसोऽयमिति ज्ञानमुत्पद्यते तत्र शब्दस्यैव तदवगतौ प्राधान्यादिन्द्रियार्थसंनिकर्षस्य तु विद्यमानस्यापि तदवगतावप्राधान्यात्तदेवाव्यपदेश्यपदव्यवच्छेद्यम्, न त्ववगतसंकेतस्मर्यमाणशब्दसचिवेन्द्रियार्थसन्निकर्ष
"Aho Shrutgyanam"