________________
: २१२ :
सम्मतितत्त्व सोपाने
[ पञ्चविंशम्
प्रभवम्, तत्र तत्सन्निकर्षस्यैव प्राधान्यात्, वाचकस्य तद्विपर्ययात् । ननु सामग्र्यां कस्य न्यूनतया व्यभिचारः कर्तुः करणस्य कर्मणो वा, उच्यते, तत्र स्वाकारसंवरणेनाकारान्तरेण ज्ञानजननात् कर्मणो व्यभिचारः कर्तृकरणयोस्तु तथाविधकर्म सहकारित्वादिति मन्यन्ते, स्यादयं व्यभिचारो न त्वेतन्निवृत्त्यर्थमव्यभिचारिपदोपादानमर्थवत् अनिन्द्रियार्थसन्निक5 जत्वादेव तन्निवृत्तिसिद्धेः । न हि मरीचिकायामुदकज्ञानमिन्द्रियार्थसन्निकर्षजम्, जलेनेन्द्रियसन्निकर्षाभावात्, तस्माद्यदतस्मिंस्तदित्युत्पद्यते तद्व्यभिचारि ज्ञानं तद्व्यवच्छेदेन तस्मि स्तदिति ज्ञानमव्यभिचारिपदसङ्ग्राह्यम् । न च ज्ञानपदमनर्थकमव्यभिचारिपदादेव ज्ञानसिद्धेः व्यभिचारित्वमव्यभिचारित्वं हि ज्ञानस्यैवेति वाच्यम्, इन्द्रियार्थसन्निकर्षोत्पन्नस्याज्ञानरूपस्यापि सुखस्याव्यभिचारात्तनिवृत्त्यर्थं ज्ञानपदमर्थवत् सुखस्य व्यभिचारित्वञ्चासु10 खसाधनपराङ्गनादौ सुखस्य भावः मरीचिकासूदकज्ञानस्य ज्ञानतेव यथोक्तविशेषणविशिष्टं संशयज्ञानं भवति अतस्तद्व्यवच्छेदार्थं व्यवसायात्मकपदोपादानम्, व्यवसीयतेऽनेनेति व्यवसायो विशेष उच्यते विशेषजनितं व्यवसायात्मकं ज्ञानम्, संशयज्ञानन्तु सामान्यजनितत्वान्नैवम्, अथवा निश्चयात्मकं व्यवसायः, संज्ञयज्ञानन्त्वनिश्चयात्मकमिति तन युक्तम्, इन्द्रियार्थसन्निकर्षोत्पन्नत्वादेरघटमानत्वात् इन्द्रियं यदि चक्षुर्गोलकाद्यवयबिलक्षणं 15 तदा तस्य पर्वतादि स्वविषयेण व्यवहितदेशेन सन्निकर्षोऽसिद्धः संयोगादेर्निषिद्धत्वात् योsपि कथञ्चित् पदार्थाव्यतिरिक्तः संश्लेषलक्षणः काष्ठजतुनोरिव सम्बन्धः प्रसिद्धः सोऽपि व्यवहितेन पर्वतादिना चक्षुर्गोलकस्यानुपपन्नः तत्प्रसाधकप्रमाणाभावात्, न हि तत्र प्रत्यक्षं प्रमाणम्, देवदत्तचक्षुस्तद्विषयेण पर्वतादिना सम्बद्धमित्येवं न ह्यस्मदादेरक्षप्रभवा प्रतिपत्तिः, न च चक्षुःप्राप्तार्थप्रकाशकं बाह्येन्द्रियत्वात् त्वगादिवदित्यनुमानं 20 तत्सन्निकर्षप्रसाधकमिति वाच्यम्, चक्षुर्गोलक तदर्थ योर ध्यक्षेणैवासन्निकृष्टयोः प्रतिपत्तेरस्य हेतोः कालात्ययापदित्वात्, अवयविलक्षणचक्षुषोऽसिद्धेराश्रयासिद्धत्वात्, अत एव स्वरूपासिद्धेश्व, न ह्यविद्यमानस्यावयविनो बाह्येन्द्रियत्वं सिद्धम् । न च चक्षुःशब्देनात्र तद्रश्मयोऽभिधीयन्ते इति नोक्तदोष इति वक्तव्यम्, तेषामप्यसिद्धेः, अन्यथाऽस्यानुमानस्य वैक - ल्यापत्तेः । न चानेनैवानुमानेन तत्सिद्धिः, इतरेतराश्रयात्, रश्मिसिद्धावाश्रयासिद्धिपरि25 हारः ततश्चातो हेतोस्तत्सिद्धिरिति । यदि गोलक बहिर्भूतरश्मिविशेषस्य चक्षुः शब्दवाच्यस्वेऽर्थकाशकत्वे च गोलकस्याञ्जनादिना संस्कार उन्मीलनादिकञ्च व्यापारो व्यर्थः स्यात् । अथ से गोलकाश्रया इति तन्निमीलनेऽसंस्कारे वा तेषामपि स्थगनादसंस्कृतत्वाच्च विषयं
•
1
"Aho Shrutgyanam"
9
·
१ यत्र चक्षुष एवोपर्युक्त हेतुभिर सिद्धि रतस्तद्रश्मयोऽत्र पक्षतयोवन्यस्यन्त इत्याशङ्कनं न युज्यते तथापि शिष्यबुद्धिनैर्मल्यापादनायैव । ऽऽशका मुद्भाव्य निरासः कृतः ॥