SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने [ पञ्चविंशम् न चाध्यक्षं सन्निहितार्थेऽवतरति नामादिकञ्च विशेषणमसन्निहितं न तत्रावतरीतुं समर्थमिति वाच्यम् , नामादिविशेषणोल्लेखराहित्येनाक्षमतेः अप्रतिभासनात् जातिगुणक्रियादिविशेषणविशिष्टतयैवैकानेकस्वभावस्य स्वसंवेदनाध्यक्षान्निर्णयात् , तथा सन्निहितस्यैवार्थ स्याध्यक्षेऽवतारे पक्ष्ममूलपरिष्वक्ताञ्जनाद्यप्यवतरेत् । न च योग्य वस्त्वेवावतरति, अञ्जनम5 योग्यं स्तंभादिकन्तु योग्यमिति वाच्यम् , नियामकाभावात् , स्तम्भादिप्रतिभासस्य नियाम. कत्थे चान्योन्याश्रयात् । न च योग्यतातो न प्रतिभासव्यवस्था, किन्तु प्रतिभासाद्योग्यता व्यवस्थाप्यते प्रतिभासनव्यवस्था च स्वसंवेदनादिति वाच्यम् , तथा सति सन्निधानासन्निधानयोरनुपयोगितासिद्धेः, तथा चासन्निहितस्यापि नामादेरध्यक्षबुद्धौ प्रतिभासे न कोऽपि विरोधः, तस्माद्वाधकाभावात् साधकप्रमाणविषयत्वात्स विकल्पकमध्यक्ष सिद्धमिति स्वार्थ10 निर्णीतिस्वभावं ज्ञानं प्रमाण व्यवस्थितमिति संक्षेपः ।। अथ नैयायिकाः, बौद्धोक्तनिर्विकल्पस्याध्यक्षप्रमाणत्वासम्भवेऽपि ' इन्द्रियार्थसन्निकर्पोत्पन्नं ज्ञानमव्यपदेश्यम व्यभिचारि व्यवसायात्मकं प्रत्यक्षम् न्यायद १-१-४] इत्येतलक्षणलक्षितं तु प्रत्यक्षं प्रमाणं भवति, अस्यार्थः इन्द्रियं द्रव्यत्वकरणत्वनियताधिष्ठानत्वाऽ. तीन्द्रियत्वे सत्यपरोक्षोपलब्धिजनकत्वाच्चक्षुरादिमनःपर्यन्तम् , तस्यार्थः परिच्छेद्य इन्द्रि15 यार्थः, तेन सन्निकर्षः प्रत्यासत्तेरिन्द्रियस्य प्राप्तिः, सन्निकर्षस्य च व्यवहितार्थानुपलब्ध्या सद्भावः सूत्रकृता प्रतिपादितः, तत्सद्भावे च सिद्धे पारिशेध्यात्तत्संयोगादिकल्पना, द्रव्यस्येन्द्रियेण संयोग एव, युतसिद्धत्वात् , गुणादीनां द्रव्यसमवेतानां संयुक्तसमवाय एव, अद्रव्यत्वे सत्यत्र समवायात् , तत्समवेतेषु संयुक्तसमवेतसमवाय एव, अन्यस्यासम्भ वात् , शब्दे समवाय एव, गगनस्य श्रोत्रत्वेन व्यवस्थापितत्वात् , शब्दत्वे समवेतसमवाय 20 एव परिशेषात्, समवायाभावयोश्च विशेषणविशेष्यभाव एव, कारणकार्यस्वरूपगत्वेन लक्षणस्य च त्रैविध्यादन्ययोगव्यवच्छेदार्थमिन्द्रियार्थसन्निकर्षः कारणमित्यभिधीयते, कार• णत्वेऽपि दोषाशङ्कापरिजिहीर्घयाऽसाधारणकारणवचनं न त्वनुयायिकारणव्यावृत्तिः, एव. म्भूतस्येन्द्रियार्थसन्निकर्षस्यैव कारणत्वाभिधानम्, न त्वन्तःकरणेन्द्रियसम्बन्धस्य, तस्या व्यापकत्वात् , अव्यापकत्वन्तु सुखादिज्ञानोत्पत्तावसम्भवात् । सम्यङ् निकर्षः संनिकर्षः, इदं 25 सन्निकर्षषट्कप्रतिपादनार्थम् , एतदेव सन्निकर्षषटुं ज्ञानोत्पादने समर्थं कारणं न संयुक्त संयोगादिकमिति, न चेन्द्रियग्रहणं व्यर्थम् , अनुमानव्यवच्छेदार्थत्वात् , तस्याप्यर्थसन्निकांदुत्पत्तेः, इन्द्रियविपयेऽर्थे सन्निकर्षाद्यदुत्पद्यते ज्ञानं तत्प्रत्यक्षमित्युक्तौ च तव्यवच्छेदः, तस्येन्द्रियविषये इन्द्रियसम्बन्धादनुत्पत्तेः । तथाप्यर्थग्रहणमनर्थकमिति चेन्न, स्मृतिफलसन्निकर्षनिवृत्त्यर्थत्वात् , आत्मान्तःकरणसम्बन्धाद्धि स्मृतिरुदेति इति वज्जनकस्यापि लक्षणे "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy