SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ भोपानम् । प्रत्यक्षलक्षणपरीक्षा। यविषयत्वात् । न चाध्यक्षेण धर्मिस्वरूपग्राहिणा शब्दग्रहणेऽपि न क्षणक्षयग्रहणम् , विरुवधर्माध्यासतो धर्मिणः क्षणक्षयाद्भेदप्रसक्तेः । ननु भवत्वसौ विकल्पः प्रमाणं न च प्रमाणान्तरमनुमानेऽन्तर्भावादिति चेन्न , अनभ्यासदशायां हि भाविनि प्रवर्तकत्वादनुमानं प्रमा पमिष्टम् , तच्च निश्चितत्रिरूपाल्लिङ्गादुपजायते, निश्चयस्य चानुमानान्तर्भावे त्रैरूप्यनिश्वयोऽप्यनुमानं तदपि निश्चितत्रैरूप्याल्लिङ्गादित्यनवस्था स्यात् । अथ लिङ्गस्य पक्षधर्मान्वय- 5 व्यतिरेकनिश्चायकं नानुमानम् , तर्हि प्रमाणान्तरस्याभावादध्यक्षं निर्णयात्मक पक्षधर्मस्वा. दिनिश्चयः सिद्धः, तस्मात्. पुरोवर्तिस्थिरस्थूलस्वगुणपर्यायसाधारणस्तम्भादिप्रतिभासस्थाक्षप्रभवस्य निर्णयात्मनः स्वसंवेदनाध्यक्षतोऽनुभूतेः स्वार्थनिर्णयात्मकमध्यक्षं सिद्धम् । न चेदं मानसम् , एतद्व्यतिरेकेण निरंशैकपरमाणुग्राहिणोऽविकल्पस्य कदाचिदध्यननुभवात् , ततोऽ ध्यक्षप्रमाणसिद्धत्वान्न सविकल्पकत्वे साधकप्रमाणाभावः । तथानुमानादपि सविकल्पक- 10 त्वमध्यक्षस्य नासिद्धम् , तथाहि यज्ज्ञानं यद्विषयीकरोति तन्निर्णयात्मकम् , अनुमानमिवाग्न्यादिकम् , विषयीकरोति च स्वार्थमध्यक्षम् । न चास्याध्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टत्वम् , पक्षस्य वाऽध्यक्षबाधः, साध्यविपरीतार्थोपस्थापकस्याध्यक्षस्य निषिद्धत्वात् । न च स्वार्थविषयीकरणं विज्ञानस्यासिद्धम् , प्राक्तस्य प्रसाधितत्वात् , अतो नासिद्धो हेतुः । न च सपक्षावृत्तित्वादसाधारणानकान्तिकः, स्वार्थनिर्णयात्मकत्वेन प्रसिद्धेऽ 15 नुमानेऽस्य वृत्तिनिश्चयात् । न चानुमानस्याप्यर्थविषयीकरणमन्तरेण तन्निश्चयस्वरूपता सम्भवति समारोपव्यवच्छेदकत्वादेः प्रामाण्यनिमित्तस्य तत्रासम्भवात् तदन्तरेण प्रामाण्यस्यैवायोगात् । न च निर्णयात्मकार्थविषयीकरणयोः साध्यसाधनयोरनुमाने साहचर्यदर्शनेऽपि विपर्यये बाधकप्रमाणाभावतः सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकः, तदुत्पत्तिसारूप्या. देनिर्णयस्वभावताव्यतिरिक्तस्यैकान्तवादेऽर्थविषयीकरणनिबन्धनस्य विज्ञानेऽसम्भवात् । अत 20 एव न विरुद्धः, विपक्षे वृत्तरेव विरुद्धत्वात् । ततोऽसिद्धविरुद्धानेकान्तिकादिदोषविकलादतः साधनाद्विवक्षितसाध्यसिद्धिर्भवतीति न तत्साधकप्रमाणाभावान्निर्णयात्मकाध्यक्षाभावः । नापि तद्बाधकप्रमाणान् , तस्यैवासिद्धेः, निरंशक्षणिकैकपरमाणुसंवेदनस्य स्वसंवेदनाध्यक्षतोऽसिद्धेरध्यक्षस्य बाधकत्वासम्भवात् , अत एवाध्यक्षाभावान्नानुमानमपि बाधकम् । -१ नन्वर्थविषयीकरणलक्षणो हेतुः कुतो विपक्षेऽनिर्णयात्म के वर्तते, निर्णयानात्मकस्यापि निर्विकल्पस्यार्थजन्यतया सारूप्येणानुमानस्य चार्थविषयीकरणसम्भवादिति चेन, तदुत्पत्तिमात्रेण तद्विषयीकरणासम्भवात् अन्यथेन्द्रियादिप्रभवत्वादिन्द्रियादेरपि विषयीकरणप्रसङ्गः तस्मात्तदुत्पत्तिसारूप्यादेरर्थविषयीकरणप्रयोजकत्वासम्भवेन निर्णयस्वभावतैव निबन्धनमिति विपक्षे हेतुसत्वेऽथविषयीकरणताया असम्भवात्तझ्यावृत्तो निर्णयस्वभावतयैव व्याप्यत इति भावः ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy