________________
। २०८ : सम्मतितस्वसोपाने
[ पञ्चविंशम् नाद्यो रूपादिसंविदां चक्षुरादेरपि विषयतापत्तेः, तथा च यस्मिन् सत्यपि यन्न भवति तत्तदतिरिक्तहेत्वपेक्षं यथा कुलालाभावे सत्यप्यपरकारकसमूहेऽभवन् घटः कुलालापेक्षः सत्यपि च रूपादौ कदाचिन्न भवति रूपादिज्ञानमित्यनुमानोपन्यासो व्यर्थः, अध्यक्षत एव चक्षुराद्यधिगतेः । द्वितीयपक्षेऽपि भविष्यति रोहिण्युदयः कृत्तिकोदयात् , अतीतक्षपायामिवेत्यस्यानुमानस्य भावी रोहिण्युदयोऽकारणत्वाद्विषयो न स्यात् , न हि भावी रोहिण्युदयः कृत्तिकोदयस्य परम्परयापि कारणम् । अथ कारणं स्वाकाराधायकं विज्ञाने विषय एवेति पक्षः, अयमध्ययुक्तो यतः किं कारणमेव तदाधायकं तत्र, उत तत्तदाधाय कमेवेति विकल्पद्वयम् , आद्ये केशोन्दुकादिज्ञानं कुतः कारणात्तदाकारमुपजायते, न तावदर्थात् , तस्य तत्कारण
स्वानभ्युपगमात् , अभ्युपगमे वा तस्याभ्रान्ततापत्तेः । न समनन्तरप्रत्ययात् , तस्य तदाका10 रतायोगात् , नेन्द्रियादेः, अत एव हेतोः । नापि द्वितीयः पक्षः, इन्द्रियस्यापि तदाधायक
तापत्तेस्तज्ज्ञानविषयताप्रसक्तेः । अर्थस्य च सर्वात्मना तत्र स्वाकाराधाने ज्ञानस्य जडताप्रसक्तेः । उत्तरार्थक्षणवदेकदेशेन तदाधायकत्वे सांशताप्रसक्तः, समनन्तरप्रत्ययस्य तत्र स्वाकाराधायकत्वान्न जडतापत्तिलक्षणो दोष इति चेन्न समनन्तरप्रत्ययार्थक्षणयोर्द्वयोरपि
स्वाकारार्पकत्वे तज्ज्ञानस्य चेतनाचेतनरूपद्वयापत्तेः, प्राक्तनज्ञानक्षणस्यैव तत्र स्वाकाराधा15 यकत्वे सर्वात्मना तदाधाने तस्य पूर्वरूपताप्रसक्तिरिति कारणरूपतैव स्यात् , तथा च पूर्व
पूर्वक्षणानामप्येवं प्रसक्तेः सर्व एकक्षणवर्ती सन्तानो भवेदिति प्रमाणादिव्यवहारलोपः । ननु किमिति विकल्पः न परमार्थतोऽपि स्वलक्षणानुकारी, सामान्यावभासादिति चेत् , नवसावपि कुतः, अनाद्य सत्यविकल्पवासनातः, नन्वेवं न दर्शनं विकल्पजनकमिति यत्रैव
जनयेदेनामित्यसङ्गतं वचनं स्यात् । न च तद्वासनोबोधकतया दर्शन हेतुरिति वाच्यम् , 20 इन्द्रियार्थसन्निधानस्यैव तत्प्रबोधहेतुत्वात् । न च तर्हि तस्याक्षजस्य वासनाप्रभवत्वेन भ्रान्तता
स्थादिति वाच्यम् , अर्थस्यापि कारणत्वेनानुमानवत् प्रमाणत्वात् । न च निर्विषयत्वाद्यवसायस्याप्रामाण्यम, अनुमानस्यापि तत्प्रसङ्गात, प्रत्यक्षप्रभवविकल्पवत्तस्याप्यवस्तुसामान्य. गोचरत्वात्। न च तबाह्यविषयस्यावस्तुत्वेऽपि अध्यवसेयस्य स्वलक्षणत्वादश्यविकल्प्याव
वेकीकृत्य ततः प्रवृत्तरनमानस्य प्रामाण्य मिति वाच्यम् , प्रकृतविकल्पेऽप्यस्य समानत्वात्, 25 अन्यथा पक्षधर्मतानिश्चयः प्रत्यक्षतः कचिदिति कथं वचो युक्तं भवेत् । न च गृहीतग्रहणाद्विकल्पोऽप्रमाणम् , क्षगक्षयानुमानस्यापि तत्त मक्तेः, शब्दस्वरूपावभास्यध्यक्षावगतक्ष्णन
१ निर्विकल्पकस्य विकल्पोत्पादकतं न घटते, स्वरामविकात्वादर्यस्वलक्षणवत् विकल्पोत्पादनमामाविकल्पवयोरधस्वलक्षणे परस्पर विरोषस्य वदभिप्रायेण प्रतीते:, अथ विकल्पवासनां सहकारिणीमपेक्ष्य निर्विकल्पकस्य विकल्पोत्पादनसामयं स्त्रीक्रियते तर्हि तथाविध सामर्थसमन्धितोऽर्थ एवोत्पादक: स्यास्किं निर्विकल्पकेनेति भावः ।।
"Aho Shrutgyanam"