SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] प्रत्यक्षलक्षणपरीक्षा । कत्वात् पुरोवस्थितार्थग्राही, अक्षानुसारित्वात्स एवाध्यक्षमिति युक्तं पूर्वदृष्टनामादिविशेषण. ग्राही निश्चय इति चेन्न, विकल्पस्य पुरोवर्त्यर्थप्रकाशनसामर्थेऽपि तत्रैव प्रवृत्त्यसम्भवात् , प्रवृत्ति विधानसमर्थार्थक्रियायोग्यरूपानवभासनात् , तदवभासने ह्यर्थक्रियार्थिनां प्रवृत्तिः स्यात् , वर्तमानसमयसम्बधिन्यथै न हि विकल्पोऽर्थक्रियासम्बन्धमादर्शयति, तस्यास्तदानीमभावात , पदार्थस्वरूपमात्रावसायाच्च न सामावगतिरतिप्रसङ्गात् , तस्मान्न पुरोवर्तिनि प्रवर्त्तमा- 5 नोऽपि विकल्पः प्रवर्तकः । न च पूर्वं यस्मादर्थ किया जायमाना दृष्टा सम्प्रत्यपि तदर्थक्रियार्थितया तद्ध्यवसायात् प्रवृत्तिरिति वाच्यम् , तदेवेदमिति निर्भासाभावे प्रवृत्त्यसिद्धेः, न च तदध्यवसायिनी कल्पनैव तन्निर्भासः, कल्पनाबुद्ध्यध्यवसितस्यार्थस्य परमार्थसद्व्यवहाराविषयत्वात् , प्रत्यक्षावगतस्यैव तद्व्यवहारविषयत्वात् तदभावे तदभावात् , तस्मान्न करूपनाऽध्यक्षविषयस्तत्त्वम् , आद्यदर्शनानधिगतत्वादिति, अत्र प्रतिविधीयते, स्वार्थनिर्णयस्वभावं 10 प्रत्यक्षं न भवतीत्येतत् किं तद्राहकप्रमाणाभावात् , उत्त तद्वाधकप्रमाणसद्भावादुच्यते, न प्रथमः पक्षः, स्थिरस्थूलसाधारणस्य स्तम्भादेरर्थस्य बहिरन्तश्च सद्रव्यचेतनत्वाद्यनेकधर्माकान्तस्य ज्ञानस्यैकदा निर्णयात् सांशस्वार्थनिर्णयात्मनोऽध्यक्षस्य स्वसंवेदनप्रत्यक्ष सिद्धत्वात्तद्राहकप्रमाणाभावोऽसिद्धः । तथाहि अन्तर्बहिश्च स्वलक्षणं पश्यन् लोकः स्थूलमेकं स्वगुणावयवात्मकं ज्ञानं घटादिकञ्च सकृत्प्रतिपत्त्याऽध्यवस्यति, न चेयं प्रतिपत्तिरनध्यक्षा, विशदस्वभावतयानु- 15 भूतेः । न च विकल्पाविकल्पयोर्मनसो युगपद्वृत्तः क्रमभाविनोलधुवृत्तेर्वा एकत्वमध्यवस्यति जनस्तत्रेत्यविकल्पाध्यक्षगतं वैशा विकल्पे स्वांशस्वार्थाध्यवसायिन्यध्यारोपयतीति वैशद्यावगतिः, एकस्यैव तथाभूतस्वार्थनिर्णयात्मनो विशदज्ञानस्यानुभूतेरननुभूयमानस्याप्यपरनिर्विकल्पस्य परिकल्पने बुद्धेरचैतन्यस्यापरस्य परिकल्पनाप्रसङ्ग इति सांख्यमतमप्यनिषेध्यं स्यात् । किश्च सविकल्पाविकल्पयोः कः पुनरैक्यमध्यवस्यति, न तावदनुभवो विकल्पे- 20 नात्मन ऐक्यमध्यवस्यति, व्यवसाय विकलत्वेनाभ्युपगमात्तस्य, अन्यथा भ्रान्तताप्रसङ्गात् । नापि विकल्पोऽविकल्पेन स्वस्यैक्यमध्यवस्यति, तेनाविकल्पस्याविषयीकरणादन्यथा स्वल. क्षणगोचरताप्राप्तेः, अविषयीकृतस्य चान्यत्राध्यारोपासम्भवात्, न ह्यप्रतिपन्नरजतः शुक्तिकायां रजतमेतदिति रजतमध्यारोपयितुं समर्थः । किञ्च तयोरैक्यं व्यवस्यतीत्यत्र यदि विकल्प व्यवहारी निर्विकल्पतया मन्यते तदा निर्विकल्पकमेव सर्व ज्ञानमिति विकल्पव्य. 25 ---- - ---- ----- १ पार्थक्येन हि प्रतीताइपरत्रापरस्यारोप उपपन्नः, चैत्रे मैत्रारोपवत् , न चास्पष्टाभो विकल्पः स्पष्टाभञ्च निर्विकल्पकं प्रत्यक्षतः प्रतीतम्, तथापि परिस्फुटत्वेनानुभूयमानस्वरूपं विकल्पं परित्यज्याननुभूयमानस्वभावं निर्विकल्पकं परिकल्पकं परिकल्पयन् कथं नाम परीक्षकः स्यात् , अनवस्थाप्रसक्तः, निर्विकल्पकस्वभावादप्यन्याक्स्वभावं प्रत्यक्षमित्यपि कल्पनापत्तेरिति ॥ "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy