________________
सम्मतितस्वसौपाने
{ पञ्चविंशम् दण्डपुरुषसंयोगे कश्चिद्दण्डविशिष्टतया पुरुषं दण्डीति प्रतिपद्यते, अपरस्तु तत्रैव पुरुषविशिष्टतया दण्डोऽस्येति, असङ्केतित विशेष्यविशेषणभावस्तु दण्डपुरुषाविति स्वतंत्र द्वयम् । वास्तवे तु तस्मिन्योग्यदेशस्थप्रतिपणां दण्डपुरुषरूपयोरिव तुल्याकारतयाऽवभासो भवेत् , न
चैवम् , तस्माद्दण्डपुरुषस्वरूपमेव स्वतंत्रमध्यक्षावसेयं विशेष्यविशेषणभावस्तु काल्पनिक एव । 5 येन हि दण्डोषकृतपुरुषजनितार्थक्रिया प्रागुपलब्धा तदर्थी च स तत्र विशेषणत्वेन दण्डं विशे. ध्यत्वेन च पुरुष प्रतिपद्यते प्रधानत्वात् , येन च पुरुषोपकृतदण्डेन फलमभ्युपेतं स तत्र दण्ड प्राधान्याद्विशेष्यमध्यवस्यति, अपरिगतफलोपकारस्य प्रथमदर्शने स्वरूपमात्रनिर्भासात् ततोऽन्वयव्यतिरेकाभ्यामवगतसामर्थ्य द्वयमासाद्य विशिष्टत्वप्रतिपत्तिः प्रागवगते च सामर्थ्य
नेन्द्रियस्य व्यापारः, तस्यासन्निहितत्वात् , न च व्यापाराविषये तत्प्रतिपत्तिजननसमर्थम् । 10 न च पुरः सन्निहितेऽर्थे प्रवर्त्तमानमिन्द्रियं तत्रापि प्रतिपत्तिमुपजनयितुं समर्थम् , वर्तमा
नकालालीढनीला दिदर्शनप्रवृत्तस्य चिरातीतभावपरम्परादर्शनप्रवृत्तिप्रसक्तः सकलातीतभावविषयस्मृतेरध्यक्षता भवेत् , तथा स्वगोचरचारिणी स्मृतिरपि स्फुटमर्थं वर्तमानसमयमुद्भासयिष्यतीति सर्वाक्षमतिः स्मृतिर्भवेत् । ननु वर्तमानमर्थमध्यक्षमेवोद्भासयति न तु स्मृतिः,
यत्र च न दर्शनमवतरति तत्र स्मृतिः वर्तमाने रूपादौ स्पष्टदर्शनावतारे स्मृतिप्रवृत्तिरसम्भ15 विनी विफला चेति चेन्न, अतीते विशेषणादौ स्मृतेरेव प्रवृत्तेस्तन विशदसंविदवतारस्य व्यर्थ
त्वात् । सा हि विशदसंवित् संनिहितमेवार्थमवतरति न च तदा विशेषणादयः सन्निहिताः, तानवलम्बमाना निरालम्बनैत्र भवेत् , ततो विशुद्धरूपमात्रप्रतिभासादध्यक्ष वेदनं निरस्तविशेघणमर्थमवगमयति विशेषणयोजना तु स्मरणादुपजायमानाऽपास्ताक्षार्थसन्निधिर्मानसी । न च
स्पष्टप्रतिमासाद्वर्तमानार्थग्राहिणीति वक्तव्यम् , तामन्तरेणापि स्फुटमर्थप्रतिभासनात् । न च 20 स्मृति विनापि यद्यर्थात्मा विशदतनुः प्रतिभातीति न तस्य ग्राहिका स्मृतिस्ताक्षव्यापार
सद्भावे सुखमन्तरेणापि विषयावगतिरस्तीति सुखमपि विषयग्राहि न स्यादिति वाच्यम् , यतो निरस्त बहिरर्थसन्निधयो भावनाविर्भूततनवः सुखादयो नार्थावेदकाः, तेषां स्वग्रहणपयवसितस्वरूपत्वात्। अक्षान्वयव्यतिरेकानुविधायिन्यो विशदसंविद एव बहिरर्थावभासिकाः पृथगवसीयन्ते सुखादिभ्यस्ता एव तदवमासिकास्तद्वद्विकल्पोऽपि नार्थसाक्षात्करणस्वभावः । मनु पुरःस्थितार्थनाही यदि न विकल्पः कथं तर्हि ततस्तत्र प्रवृत्तिर्भवेत् , यदेव हि विशेषणं प्राक् तेनानुभूतं तत्रैव ततः प्रवृत्तिर्भवेत् , न च स्वात्मानमनारूढेऽर्थे प्रवृत्तिविधायि विज्ञानमुपलब्धम् , अन्यथा शुक्लमर्थमवतरन्ती संविन्नीलाथे प्रवर्तिका भवेत् , न च निर्विकल्पकमेव संवेदनं वर्तमानार्थे प्रवर्तकम् , सर्वत्र विकल्पव्यतिरेकेणापि प्रवृत्तिप्रसङ्गात्, न च विना सुखसाधनतानिश्चयं पुरःप्रकाशनमात्रेण कस्यापि प्रवृत्तिरिति विकल्प एव प्रवर्त
"Aho Shrutgyanam"