________________
श्रीपामम् ]
प्रत्यक्षलक्षणपरीक्षा |
: २०१ :
विकलमर्थमवगच्छति तमन्तरेण च न वाक्यस्मृतिः, ताञ्चान्तरेण न वानुषक्तार्थ दर्शनमित्यर्थदर्शनाभावो भवेत्, ततोऽर्थदर्शनान्निर्विकल्पकमेव तदभ्युपगन्तव्यम् । यदि च वाक्संसप्रार्थस्यैव ग्रहणं तदाऽगृहीतसङ्केतस्य बालकस्य तद्ग्रहणं न भवेत् । ततोऽध्यक्षमर्थ साक्षात्करणान्न वाग्योजनामुपस्पृशतीति रूपमात्र साक्षात्कारिनयनसंवेदनं निर्विकल्पकमेव, तदर्शनोपजनितन्तु विकल्पज्ञानं वचनपरीतार्थाध्यवसाय स्वभावं भिन्नमेवेत्यविकल्पकमध्यक्षं सिद्धम् | 5 अत्र यद्यपि वाचो नयनजप्रतिपत्त्यविषयत्वान्न तद्विशिष्टार्थदर्शन मध्यक्षं तथापि द्रव्यादेर्नयनादिविषयत्वात्तद्विशिष्टार्थाध्यक्ष प्रतिपत्तिः सविकल्पिका भविष्यति, तथाहि नियतदेशादितया वस्तु परिदृश्यमानं व्यवहारोपयोगि, अन्यथा तदसम्भवात्, देशादिसंसर्ग रहितस्य च तस्य कदाचिदप्यननुभवात् यच्च देशादिविशिष्टतया नामोल्लेखाभावेऽपि वस्तु संगृह्णाति तत्सविकल्पकम्, विशेष्यविशेषणभावेन हि प्रतीतिर्विकल्पना, देशादयश्च नीलादिवत्तदवच्छे- 10 दका दर्शने प्रतिभान्तीति न तत्र शब्दसंयोजनापक्षभावी दोष इति नैयायिका वदन्ति तदपि न सम्यक, अध्यक्षस्य पुरोवर्त्तिनीलादेरवभासन एव सामर्थ्यात्, न तु तदवष्टब्धभूतलादेरपि, अवष्टब्धस्य शुद्धस्यैव प्रतिभासनाच्च न विशेष्यविशेषणभावग्रहणम् । दर्शने हि रूपमालोकश्च स्वस्वरूपव्यवस्थितं द्वितयमाभाति न तु तद्व्यतिरिक्तं कालदिगादिकमिति कथमप्रतिभासमानं तद्विशेषणं भवति, सर्वत्र तद्भावप्रसक्तेः, यत्रापि स्थिरावेयदर्शनादधस्तादा- 15 धारमनुमिन्वन्ति तत्रापि नानुमानावसेयमधिकरणमिन्द्रियविज्ञानविषयविशेषणम्, नापि तदवसायोऽअबुद्धेः स्वरूपमिति न विशेषणविशिष्टप्रतिपत्तिरक्षबुद्धि: । किन किं समानकालयोर्वा भावयोर्विशेष्यविशेषणभाव मध्यक्षबुद्धिरवभासयति भिन्नकालयोर्वा, तत्र यदि भिन्नकालयोर्न तर्हि युगपत्तयोस्तत्राप्रतिभासनाद्विशेष्यविशेषणभावावगमः, यदा हि पूर्वं स्वादिकमवभाति न तदा स्वाम्यादिकम्, यदा च स्वाम्यादिकं न तदा स्वादिकमित्यसन्नि - 20 धानात्कथं तद्विशिष्टतयाऽऽध्यक्षेण तस्य ग्रहणम्, चक्षुर्व्यापारे सति हि पुरोवस्थितश्चैत्र एव परिस्फुटमाभातीति तन्मात्रग्रहणान्न तद्विशिष्टत्वप्रतीतिः । न चासन्निहितमपि विशेषणं स्मरणसन्निधापितमध्यबुद्धिरधिगच्छति, स्मरणात् प्रागिव तदुत्तरकालमपि विशेषणासन्निधेस्तुल्यत्वान्न तत्र तदाप्यक्षबुद्धिप्रवृत्तिरित्यपास्त विशेषणस्यार्थस्य साक्षात्करणं युक्तियुक्तम् । नापि तुल्यकालयोर्भावयोर्विशेषणविशेष्यभाव मध्यक्ष मधिगन्तुं समर्थं तस्यानवस्थिते:, अविशिष्टे हि 20
१. समीपवर्त्तिनं निजांशव्यापिनं कालान्तरस्थायिनं स्थगितप्रतिक्षणपरिणाममलक्ष्यमाणपरमाणुपरिमाणं वस्त्वन्तरैः सह सदृशविसदृशाकारं कुम्भादिकं शब्दसंस्पर्शरहितमपि भावमवभासयन्तीति कृत्वा सविकल्पकमित्यभिधीयते, एवमध्यक्षविषयीकृत एव वस्तुनि व्यवहाराः संज्ञासंज्ञिसम्बन्धग्रहणादयस्तत्त्ववृत्त्यैव घटन्ते नान्यथा ॥
२६
"Aho Shrutgyanam"