SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने पञ्चविंशम् स्ति तस्य वक्तमुखदेशेऽवभासनात्. अतोऽसन्निधानान्न वाक्संस्पर्शवती अक्षमतिः । न च वाचः पदार्थस्वरूपता, तत्त्वेन प्रतिभासनात्, पुरः शब्दाकारविविकस्य स्तम्भादेरथेविविक्ततया श्रोत्रज्ञाने शब्दस्य च प्रतिभासनकरूपत्वासम्भवात् । असन्निहिताया अपि वाचः प्रतिभासे सकलव्यवहितभावपरम्पराप्रतिभासः स्यात्, वाचोऽर्थसन्निधानेऽपि च 5 लोचनमतौ तत्प्रतिभासेऽपि वाचोऽप्रतिभासान्न तद्विषयत्वम् । यो हि यदविषयः स सन्निहितोऽपि न तत्र प्रतिभाति, यथाऽऽम्ररूपपति पत्तौ तद्रसः, अविषयश्च लोचनमतेः शब्द इति । नयनमतिरपि स्वविषयमेवावभासयति नेन्द्रियान्तरविषयं सन्निहितमपि, यथा रसनसमुद्भवा मधुरादिमतिमधुरादिकमेव न परिमलादिकम् , अन्यथा लोचनबुद्ध्यैव सर्वे न्द्रियविषयप्रतिभासे इन्द्रियान्तरकल्पनावैयध्यं स्यात् , तस्मात्सकलमक्ष वेदनं वाचकविकलं 10 स्वविषयमेवावलोकयतीति निर्विकल्पकम् । लोचनव्यापारानुसारिणी दृग् वर्तमान रूपमात्र विशदतयाऽवभासयति विकल्पस्तु शब्दस्मरणप्रभवोऽसन्निहितां वायूपतामध्यवस्यतीति हेतुविषयभेदादर्शनविकल्पयोविभेदः, न चाक्षव्यापारादूपमिदमित्येकं संवेदनं शब्दपरिष्वक्तं रूपमधिगच्छदध्यवस्यति जन इति तयोरैक्य मिति वाच्यम् , रूपमिदमिति ज्ञानेन हि किं वापतापन्नपदार्थग्रहणं भिन्नवायूपताविशेषणविशिष्टपदार्थग्रहणं वा, न प्रथमः, वाप. तायां लोचनस्यासामर्थ्यात्तदनुसार्यक्षमतेरपि न तत्र प्रवृत्तेः, न द्वितीयः, तथापि नयनदृशः, स्वविषये शुद्ध एव पुरस्थे प्रवृत्तेन तु वाचि, तत्रावर्तमाना कथं तद्विशिष्टं स्वविषयमवभासयेत्, न हि विशेषणं भिन्नमनवभासयन्ती तद्विशिष्टतया विशेध्यमवभासयति दण्डाग्रहणे इब दण्डिनम् न च दृशि वाचोऽप्रतिभासनेऽपि स्मृतौ प्रतिभासनादर्थस्य विशेषणं भवति, भिन्नज्ञानग्राह्यस्यापि विशेषणत्वोपपत्तेरिति वाच्यम् , संविदन्तर• प्रतीतस्य स्वातन्त्र्येण प्रतिभासनात् तदनन्तरप्रतीयमानविशेषणत्वानुपपत्तेः । न ह्येककालमनेककालं वा शब्दस्वरूपं स्वतन्त्रतया स्वपाहिणि ज्ञाने प्रतिभासमान विशेषणभावं प्रतिपद्यते सर्वत्र तस्य तद्भावापत्तः । न च शब्दानुरक्तरूपाद्यध्यक्षमतिरुदेतीति शब्दो विशेषणं रूपादिविशेष्यमिति युक्तम् , यदि हि तदनुरक्तता तत्प्रतिभासलक्षणा तदा लोचनबुद्धौ शब्दाप्रतिभासनान्न तदनुरक्तता भवेत् , यदि च रूपादिदेशे शब्दवेदनं तदनुरक्तता तदा स्वज्ञाने 25 शब्दाऽप्रतिभासनेऽपि रूपादीनां प्रतिभासनात्तदनुरक्तताऽयोगः । न च शब्दानुषक्तरूपस्मृ. तिर्दृश्यतेऽतः प्राक् तद्रूपस्य तस्य दर्शनमुपेयत इति वाच्यम् , शब्दविविक्तमर्थरूपं प्रत्यक्षमधिगच्छति वाचकन्तु स्मृतिरुल्लिखतीति शब्दसंस्पर्शमध्यक्षनानुभवतीति निर्विकल्पकमासक्तम् , अन्यथा शब्दस्मरणासंभवादध्यक्षाभावो भवेत् । यदि हि वाक्संस्पृष्टस्य सकलार्थस्य संवेदनं तथासत्यर्थदर्शने तद्वाक्यस्मृतिस्तत्र च तत्परिकरितार्थदर्शनम्, न च कश्चिद् वाक्संस्पर्श 20 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy