SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] प्रत्यक्षलक्षणपरीक्षा। पारमार्थिकस्य भावात् प्रतिभासाद्वैतस्याभाव एव स्यात् । तस्मान्न स्वप्नोपलब्धघटादौ प्रकृ. तहेतुर्यभिचारी । नापि विरुद्धता, परमार्थसत्त्वाभावेन व्याप्त्यसिद्धेः, अन्यथाऽपारमार्थिक स्वसंवेदनमात्रमपि भवेदित्यसिद्धविरुद्धानकान्तिकदोषरहितादस्माद्धेतोर्जाग्रदवस्थोपलभ्यमानस्य घटादेः परमार्थसत्त्वसिद्धिः तस्माद्विज्ञानशून्यवादयोनिषेधादर्थनिर्णीतिस्वभावताडपि प्रमाणस्य सिद्धा ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानंदसूरीश्वरपट्टालङ्कारश्रीमद्विजय. कमलसूरीश्वर चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्वसोपाने स्वपरनि. र्णयस्वभावस्थापनं नाम चतुर्विंशं सोपानम् ॥ 10 अथ प्रत्यक्षलक्षणपरीक्षणम् । अत्र सौगतः प्रमाणं स्वार्थनिर्णीतिस्वभावमपि तदनुमानरूपम् , प्रत्यक्षं तु निर्विकल्पकत्वान्न तन्निर्णयस्वभावम्. तथाहि यद्यथाऽवभाति तत्तथा व्यवहृतिपथमवतरति, यथा विशदमाभासमानं सुखा दिसंवेदनम् , नामोल्लेखशून्यतया चाध्यक्षं संवेदनमाभातीति स्वभावहेतुः । नामोल्लेखपरिष्वक्तवपुषः संविदोऽध्यक्षत्वविरोधात्, साक्षात्कारि ज्ञानं ह्यध्यक्षतया लोके 15 प्रसिद्धम् , साक्षात्कारित्वञ्च सन्निहितार्थावभासित्वम् , असन्निहिते तदभावात् , नामादिकञ्चासन्निहितत्वात् परोक्षमिति न तद्योजनामवतरीतुमलम् , अत्र वैयाकरणाः, न काचित्प्रतिपत्तिर्वाक्यसंस्पर्शरहिता विद्यते शब्दानुविद्धाया एवं प्रतिभासनात् , अन्यथा प्रकाशरूपतापि न स्यात्, न हि निरस्तोल्लेखं स्वसंवेदनं व्यवहाररचनाचतुरमिति सविकल्पकम.. भ्युपगन्तव्यमिति चेन्न, अध्यक्षं हि पुरःसन्निहितमेव भावात्मानमवभासयति तत्रैवाक्षवृत्तेः, 20 वाग्रूपता च न पुरः सन्निहिता, अतो न सा तन्न प्रतिभासते, न चार्थदर्शने व्यापितया पदार्थात्मतया वाऽर्थदेशे सन्निहितत्वात्सा तत्र प्रतिभातीति वक्तव्यम् , अर्थदेशे वाचा सन्निधेरयोगात् अक्षान्वये संवेदने पुरोवर्तिनीलादेरेवावभासनात् , न हि तद्देश एव शब्दोऽ. १. स्वप्नो हि द्विविधः सत्यस्तविपरीतश्च, प्रथमो देवताविशेषकृतो धर्माधर्मकृतो वा कश्चित्साक्षादर्थाव्यभिचारी, यद्देशकालाकारतयाऽर्थः स्वप्मे प्रतिपन्नः तद्देश कालाकारतया जाग्रहशायां तस्य प्राप्तिसिद्धः । 25 कश्चित्पुन: परम्परयाऽर्थाव्यभिचारी, राजादिदर्शनेन स्वप्नाध्यायनिगदितस्य कुटुम्बवर्धनादेः प्राप्तिहेतुत्वादनुमानवत् । योऽपि वातपित्ताद्यद्रेकजनितोऽसत्यस्वेन प्रसिद्धः स्वप्नः सोऽपि नार्थमानव्यभिचारी, न हि सर्वथाऽप्यननुभूतेऽर्थे स्वप्नोऽपि समुपजायत इति न निरालम्बनः स्वप्रप्रत्ययः ।। "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy