________________
सम्मतितत्त्वसोपाने
[ चतुर्विंशम् तथैव तदापत्तिः । न च सुखादेर्जडत्वे न स्यात्प्रतिभासः जडस्य, प्रकाशायोगित्वादिति वाच्यम् , नीलादेः प्रकाशतासिद्धावप्येवं वक्तुं शक्यतया सुखादिनिदर्शनवैयर्थ्यात् । न च सुखादेरज्ञानतायामनुग्रहाद्यभावः स्यादिति वाच्यम् , सुखादेरनुग्रहाद्यव्यतिरेके ज्ञानत्वेनानुग्रहस्य कापि व्याप्त्यप्रतिपत्तेरज्ञानत्वेऽनुग्रहाद्यभावोपवर्णनस्यासंगतत्वात् , व्यापकाभावे हि नियमेन व्याप्याभावो भवेत् , व्यतिरेके च सुखादेर्शानरूपताविरहेऽर्थान्तरभूतानुग्रहाद्यभावस्य कथं सिद्धिः, न हि यज्ञदत्तस्य गौरत्वाभावे सति देवदत्तस्याभावो दृष्टः । ननु जैनस्य सुखादी ज्ञानरूपतया प्रकाशमानत्वं व्याप्तमिति चेन्न, स्वतः प्रकाशनं हि सुखादौ ज्ञानरूपतया सिद्धम् , तच्च न स्तम्भादौ, यच्च स्तम्भादौ परतः प्रकाशनं जैनस्य सिद्धं न
तज्ज्ञानरूपतया व्याप्तम् , स्तम्भादावुपलभ्यमानं प्रकाशनमात्रन्तु जडत्वेन सहाविरुद्धत्वा10 त्रैकान्तेन ज्ञानरूपतां साधयतीति न प्रकाशनलक्षणो हेतुर्नीलादेानरूपतासाधनसमर्थः ।
ननु नीलादेओनरूपता माभूत्. तत्साधकप्रमाणाभावात् , पारमार्थिकार्थरूपता तस्य कुतः, येन ताहिज्ञानमर्थनिर्णीतिरूपतया प्रमाणं भवेदिति चेदुच्यते, जाग्रदवस्थोपलभ्यमानो नीलादिः परमार्थसन् , सुनिश्चितासम्भवद्वाधकप्रमाणत्वात् , सुखादिसंवेदनवदिति तद्रूप.
तासिद्धेः । न हि अत्र प्रत्यक्षं बाधकमस्खलत्प्रत्ययविषयत्तया सर्वैरस्य दर्शनात् , न चानुमान 15 बाधकमध्यक्षसिद्धेऽनुमानस्य बाधकत्वेनाप्रवृत्तेः । न च प्रत्यक्षानुमानव्यतिरिक्त प्रमाणा
न्तरं सौगतस्याभीष्टमिति न सुनिश्चितासम्भवद्वाधकप्रमाणत्वादिति हेतुरसिद्धः । अपरमार्थसत्यस्य हेतोरसम्भवान्नायमनैकान्तिकः । ननु स्वप्न दृष्टे घटादावपरमार्थसति हेतोरस्य सद्भावादनैकान्तिकत्वम् , न हि स घटादिर्बाधकप्रमाणविषयः, बाध्यतायाः काप्यसम्भवात् , ज्ञानस्य
प्रतिभासकाले बाधकेन न स्वरूपं बाध्यते, तस्त्र परिस्फुटरूपेण प्रतिभासनात् , नाप्युत्तरकालम् , 20 क्षणिकतया तदा तस्य स्वयमेवाभावात् । नापि तज्ज्ञानप्रमेयस्य स्वरूपं प्रतिभासमानरूपेण
बाध्यते प्रतिभासनादेव । न च प्रतिभासमानरूपसहचारिणा स्पर्शादिरूपेण, तस्य ततोऽन्यत्वात् , न चान्याभावेऽन्यस्याभावोऽतिप्रसङ्गात् । न च ज्ञानस्य ज्ञेयस्य वा फलमुत्पन्नमनुत्पन्नं वा बाध्यते उत्पन्नस्य विद्यमानत्वेन बाध्यत्वायोगात् , अनुत्पन्नस्यापि स्वयमेवासत्त्वात् , मैवम् , बाधकेन ज्ञानेन ज्ञानस्यासविषयताया अर्थस्य वाऽसत्प्रतिभासनरूएताया ज्ञापनात्,यथा शुक्ति. काज्ञानेन रजतविज्ञानस्य रजतार्थस्य वा, एतच्च बाध्यबाधकभावमनिच्छताप्यवश्यमभ्युपगन्तव्यम् , प्रतिभासाद्वैते स्कन्धसन्तानादिविकल्पानां स्वयमेव निर्विषयत्वोपवर्णनात् , तदु. पवर्णनाभावे बाह्यभावानामेकानेकरूतया सामान्यसामानाधिकरण्य विशेष्यविशेषणभावादेः
25
"Aho Shrutgyanam