________________
सोपानम् ]
स्वपरनिर्णयस्वभावस्थापनम् । तर्हि तत्समस्तानुमानजनकम् , तथाविधमपि लिङ्गं किञ्चिदेव कस्यचिदेव कारणमिति चेत्तदा ज्ञानमपि तथाविधं किश्चिदेव कस्यचिद्वाहकमों वा भिन्नकालः कश्चिदेव कस्यचिद्राह्य इति कुतो न स्यात् । न च भिन्नकाली नार्थग्रहणप्रवृत्तज्ञानस्य निर्विषयताप्रसङ्ग इति वाच्यम् , विनष्टानुत्पन्नाल्लिङ्गादुपजायमानस्यापि निर्हेतुकताप्रसङ्गात् । न च समकालमेव लिङ्गमनुमानकारणमिति वाच्यम् , समकालस्य जनकत्व विरोधात्, अन्यथाऽनुमानस्यापि 5 लिङ्गजनकत्वापत्तेः । न चानुमान एव जन्यता प्रतीयत इति वाच्यम् , ग्राह्यताया इवानुमानव्यतिरेकेण जन्यताया अप्रतिमासनात् । अनुमानस्वरूपमेव जन्यतेति चेल्लिङ्गेऽपि स्वरूपसद्भावेन जन्यताप्रसक्तिः । लिङ्गानुमानयोः स्वरूपाविशेषेऽपि लिङ्गापेक्षजन्यता तत्रैव न तु लिङ्गेऽनुमानापेक्षजन्यतेति चेत्तर्हि नीलतत्संवेदनयोः स्वरूपाविशेपेऽपि नीलस्यैव तत्संवेदनापेक्षग्राह्यता न तु तत्संवेदनस्य नीलापेक्षग्राह्यतेति समानत्वात् । 10 न च लिङ्गमुत्पादकमनुमानोत्पत्तिकरणादिति वाच्यम् , उत्पत्तेरनुमानाव्यतिरेकात्तेन तस्यैव करणादुत्तरलिङ्गक्षणवदनुमानस्य लिङ्गत्वापत्तेः, लिङ्गजन्यत्वात् । न चानुमानोपादानजन्यस्वात्तदनुमानमेवेति वक्तव्यम् , अनवस्थाप्रसङ्गात्. तदपि ह्युपादानकारणं कुत्तो जन्यत इति पर्यनुयोगेऽपरलिङ्गादिति वक्तव्यम् , तन च तस्य लिङ्गजन्यतया लिङ्गत्वापत्तौ पुनरप्यनुमानोपादानत्वादनुमानत्वमित्युत्तरपर्यनुयोगाविश्रान्तिः । लिङ्गजन्यत्वा विशेषेऽपि तथा प्रतीते: 15 किश्चिल्लिङ्ग किश्चिञ्चानुमानमित्युच्यते चेत्तर्हि ज्ञानजन्यत्वाविशेषेऽपि किश्चिज्ज्ञानमपरश्चार्थ इत्यपि किं न स्यात् , ततश्च नीलादि ज्ञानं ज्ञानकार्यत्वादुत्तरज्ञानवदित्यभिधानमयुक्तमेव । तस्मान्न स्वतोऽवभासनं हेतुरसिद्धत्वात् । न द्वितीयः, ' नान्योऽनुभाव्यो बुझ्यास्ति तस्या. नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशत' इत्यभिधानात्तवाभिप्रायेण परप्रकाशतायाः कस्यचिदप्यसिद्धेर्वाद्यसिद्धत्वात् । परतः प्रतिभासनानङ्गीकारे च प्रकाशनलक्ष-20 णस्य हेतोर्ज्ञानत्वेन न व्याप्तिसिद्धिः, ज्ञानस्य स्वरूपमात्रपर्यवसितत्वेन निखिलमवभा. सनं ज्ञानत्वव्याप्तमिति निश्चयासम्भवात्. सर्वेषां सम्बन्धिनामग्रहे हि द्विष्ठसम्बन्धसंविसिः कथं भवेत् । न चैकं ज्ञानमात्मन्येव ज्ञानत्वमवभासनश्च विज्ञाय तयोर्व्याप्तिमधिगच्छतीति वक्तव्यम् , तथा सति तत्रैवानुमानप्रवृत्तस्तस्य च व्यर्थत्वात् साध्यस्य सिद्धत्वात् । सकलज्ञानस्य स्वात्मनि ज्ञानासम्भवाद् व्याप्तिप्रतिपत्तरसम्भवाच्च । न च ज्ञानत्वस्वप्रकाशनयोः कुत- 25 श्चित्प्रमाणाद्व्याप्तिः प्रसिद्धा, ज्ञानवज्जडस्य नीलादेरपि परतो ग्रहणसिद्धेहेतोय मिचारप्रसङ्गात् । नैयायिकादेः सुखादेर्शीनरूपता न सिद्धेति सुखादिदृष्टान्तोऽपि साध्यविकलः, अनेनैव हेतुना तत्रापि ज्ञानरूपतासाधने च निदर्शनान्तरं मृग्यम् , तत्राप्येवं पर्यनुयोगेऽपरापरनिदर्शनान्वेषणप्रसङ्गतोऽनवस्था, सुखादौ दृष्टान्तमन्तरेणापि तद्रूपतासिद्धौ च नीलादेरपि
"Aho Shrutgyanam"