________________
सम्मतितत्त्वसोपाने
[ चतुर्विशम् तज्ज्ञानान्यसदसद्वर्गयोरनेकत्वाविशेषेऽपि एकज्ञानावलम्बनत्वाभावात्, एकशाखाप्रभवत्वानुमानवत् । ईश्वरज्ञानतदन्यसदसद्वर्गयोरेकज्ञानावलम्बनत्वे वाभ्युपगते स्वसंविदितत्वं ज्ञानस्य भवेत् , सर्व ज्ञानं स्वसंविदितं ज्ञानत्वात् सर्वज्ञज्ञानवदित्यनुमानात् तथा च सति
शेयत्वं हेतुर्यभिचारि स्यात् । किञ्च सति प्रथमज्ञाने यदि तद्वाहकं द्वितीयं ज्ञानमुत्पद्यते 5 तर्हि युगपज्ज्ञानानभ्युपगमविरोधः । असति चोत्पादे ग्राह्यस्यैवाभावान्न तदाहकत्वमन्यथा द्विचन्द्रादिविज्ञानस्येव भ्रान्तत्वं तस्य भवेत् । तदेवमनेकदोषात् स्वनिर्णीतिस्वभावमेव ज्ञानमिति सिद्धम् ।।
सौगताश्च भवतु ज्ञानं स्वसंविदितमर्थग्रहणस्वभावता तु तस्य न युक्ता, अर्थस्यैवा. भावात् , यद्ध्यवभासते तज्ज्ञानं यथा सुखादिः, अवभासते च नीलादिरिति स्वभावहेतुना 10 सर्वस्य हानात्मत्वादिति वदन्ति तदसत, यतोऽत्र किं स्वतोऽवभासो हेतुः, परतो वा,
अवमासमात्रं वा, नाद्यः, परस्यासिद्धेः, न हि परानपेक्षो नीलाद्यवभासः परस्य सिद्धः, नीलमहं वेद्मीत्ति नीलव्यतिरिक्तस्वरूपतया प्रतिभासमानेन ज्ञानेन नीलादेब्रहणाभ्युपगमात् । यदि परानपेक्षनीलाद्यवभासः परस्य सिद्धः स्यात्तर्हि किमतो हेतोरपरं साध्यमिति वक्त
व्यम् , यदि ज्ञानरूपता साध्येत्युच्यते तर्हि सा यदि प्रकाशतारूपा तदा सापि हेतुसिद्धौ 15 सिद्धैव न साध्या, न सिद्धा सा चेत्तदा हेतुरप्यसिद्धैव । ननु भ्रान्तिः पुरुषधर्मः, तेन नी
लादेः खतोऽवभासनमङ्गीकुर्वन्नपि तस्य ज्ञानरूपतां नेच्छति अतस्तम्प्रति साध्यते, नैवम् , को हि भावधर्मं हेतुमिच्छन् भावं नेच्छे दित्यभिधानविरोधात् , भ्रान्त्या भावस्यानभ्युपगमसम्भवात् । नीलादेर्भिन्नेन ज्ञानेन ग्रहणं नोपपद्यते, भिन्नकालस्य समानकालस्य वाऽर्थस्य
भिन्नेन ज्ञानेन निर्व्यापारेण भिन्नाभिन्नव्यापारवता वा परोक्षेण वा स्वसंविद्रूपेण वा ज्ञाना. 20 न्तरवेद्यन वा ग्रहणासम्भवादतो नासिद्धो हेतुरिति चेन्न, अनुमानविलोपप्रसङ्गात् , अनुमानं
हि त्रिरूपलिङ्गप्रभवं लिङ्गश्चानुमानाद्भिन्न भिन्नकालश्च यदि तस्य जनकं भवेत् कुतो न
१. अयम्भावः ययोः सहोपलम्भनियमस्तयोर भेदः, यथा तैमिरिकोपलभ्यमानमृगाङ्कमण्डलयोः, सहोपलम्भश्च ज्ञानार्थयोरिति । भेदे हि तयोनियमेन सहोपलम्भो न स्यात् स्तम्भकुम्भयोरिव, तथा यत्प्रकाशते
तद्विज्ञप्तिमात्रं यथा सुखादिकम् , तथा यद्यन वेदनेन वेदाते त्ततो न भिद्यते यथा वेदनस्य स्वरूपम् , 25 वेद्यन्ते च वेदनेन नीलादयः,भेदे हि ज्ञानेनैषां वेद्यत्वं न स्यात् , नियमहतुतादात्म्याभावात्तदुत्पत्तश्चक्षुरा
दिना व्यभिचारात् । प्रतिनियततया ग्राह्यत्वेनार्थस्य ग्राहकत्वेन ज्ञानस्य प्रतीतिस्तु अनाद्युपप्लववासनासामादिति। २. अयम्भावः, स्वभिन्नकालमप्यर्थ योग्यमेव ज्ञानं गृहाति. दृश्यते हि पूर्वचरादिलिङ्गप्रभवप्रत्ययात् भिन्न कालस्यापि प्रतिनियतस्यैव शकटोदयाद्यर्थस्य ग्रहणम. अन्यथा किञ्चिदपि लिङ्गं साध्यस्यानुमापक ने स्यात् , भावे वा भस्मादिलिङ्गमतीतस्य पावकादरिव समस्तस्याप्यतीतस्य प्रतिपत्तिहेतुः स्यात् , भिन्नकाल. त्वाऽविशेषादिति ॥
"Aho Shrutgyanam"