SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] स्वपरनिर्णयस्वभावस्थापनम् । न चात्र प्रत्यक्षबाधेति वाच्यम् , अत्रापि समानत्वात् , न हि अविदितस्वरूपं सुखादिकं पूर्व घटादिवदुत्पन्नं पश्चादिन्द्रियसम्बन्धोपजातज्ञानान्तराद्वेद्यत इति लोकप्रतीतिः, अपि तु प्रथममेव स्वप्रकाशरूपं तदुदयमासादयदुपलभ्यत इति । न च स्वात्मनि क्रियाविरोधो वाच्यः स्वरूपेण सह पदार्थस्य विरोधाभावात् , अन्यथा प्रदीपादेरप्यपरप्रकाशविकलस्वरूपप्रकाशविरोधः स्यात, न च तत्स्वरूपत्वं तस्यासिद्धमिति वाच्यम् , प्रदीपादावपि तथास्वभा- 5 वासिद्धिप्रसङ्गात् , तथा दर्शनन्तूभयत्र समानम् , खड्गादेरात्मनि छिदिक्रियाऽजननेऽपि न तद्धर्मोऽन्यत्रापादयितुं शक्यः, अन्यथा घटनिष्ठायाः स्वपराप्रकाशनतायाः प्रदीपेऽप्यभ्युपगमप्रसङ्गात् । नापि सुखावगमात्पूर्वं तदभ्युपगमो युक्तः, शब्दस्यापि श्रवणसमयात्पूर्व पश्वाच्च सत्ताभ्युपगमप्रसङ्गेन नित्यतापत्तेः । न चात्मनो ज्ञानाच्च पृथग्भूताः सुखादयोऽनुग्रहादिविधायिनो भवेयुः, इतरथा मुक्तात्मनोऽपि ते तथा स्युः । न च तेषां तत्रासमवेत- 10 त्वान्नायं दोषः, समवायाभावात्तस्मान्न सुखादिग्रहणे मनइन्द्रियसिद्धिः । अत एवात्मा मनसा संयुक्त इति न युक्तम् , आत्ममनसोर्निरंशतया संयोगासम्भवात् , एकदेशेन संयोगे सांशताप्रसक्तेः, सर्वात्मना संयोगे उभयोरेकताप्राप्तेः । यदि च यत्र मनः संयुक्तं तत्र समबेतं ज्ञानं समुत्पादयति तदा सर्वात्मनां व्यापित्वात् समानदेशत्वेन मनसः तैस्संयुक्तत्वात् सर्वात्मसमवेतसुखादिषु तदेव मन एकं ज्ञानमुत्पादयतीति प्रतिप्राणि भिन्नमनःपरिकल्पन- 15 मनर्थकमासज्येत । न च यस्य सम्बन्धि यन्मनः तत्समवेतसुखादिज्ञाने तद्धेतुरिति नायं दोषः, प्रतिनियतात्मसम्बन्धित्वस्यैव तत्रासिद्धेः, न हि तदात्मकार्यत्वेन तन्मनसस्तत्सम्बधित्वम् , तस्य नित्यताभ्युपगमात्, तत्र चानाधेयाप्रहे यातिशये तत्कार्यत्वायोगात् । न च यस्यादृष्टेन प्रेरितं सत्तत्प्रवर्तते तत्तत्सम्बन्धीति वाच्यम् , अदृष्टस्याचेतनत्वेन प्रतिनि यतविषये तत्प्रेरकत्वायोगात् , प्रेरकत्वे वेश्वरपरिकल्पनं निरर्थकं भवेत् । न 20 चेश्वरप्रेरित एवात्मा तत्प्रेरक इति न तत्परिकल्पनव्यर्थता, अदृष्टप्रेरणामन्तरेणेश्वरस्य साक्षान्मनःप्रेरकत्वोपपत्तेर दृष्टपरिकल्पनाया निरर्थकत्वात् । न च सर्वसाधारणस्वादीश्वरस्यादृष्टविकलस्य मनःप्रेरकत्वे न ततस्तस्य प्रतिनियतात्मसम्बन्धित्वमिति अहष्टस्यावश्यकतेति वक्तव्यम् , तस्याचेतनतयेश्वरसहितस्यापि प्रतिनियतमनःप्रवृत्तिहेतुत्वायोगात् तस्मान्न मनसोऽदृष्टादिः प्रतिनियमहेतुः, किश्च स्वसंविदितज्ञानानभ्युपगमे सदस- 25 द्वर्गः कस्यचिदेकज्ञानावलम्बनः, अनेकत्वात् पञ्चाङ्गुलिवदित्यत्र पक्षीकृतैकदेशेन व्यभिचारः, १ स्वात्मा हि क्रियायाः स्वरूपं, तत्र क्रियायाः कथं विरोधः स्वरूपस्याविरोधकत्वात् , विरोधस्य द्विष्टत्वाच न स्वात्मनि कियाविरोध इति भावः । ज्ञानक्रियायाः कर्मतया स्वात्मनि विरोधः, ततोऽन्यत्रैव कर्मस्वदर्शनादित्यत्राह न चेति । "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy