SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सम्मतितरवसोपाने [ चतुर्विंशम् ase युगपज्ञानानि न भवन्ति ततो विज्ञायतेऽस्ति किञ्चित्तत्र निमित्तम्, यस्मात्तथाऽनुत्पत्तिः, तदेव च मन इति तत्सिद्धिरिति वक्तव्यम्, तदनुत्पत्तिर्मनः प्रतिबद्धेत्यस्यासिद्धेः, ननु व्यापकस्यात्मनः सर्वैरर्थैः सम्बन्धादिन्द्रियैः पञ्चभिरात्मसम्बद्धैः स्वविषयसम्बन्धे एकदा किमिनि ज्ञानानि नोत्पद्यन्ते यद्यणु मनो नेन्द्रियैस्सम्बन्धमनुभवेत्, तत्सद्भावे तु यदै5 केन्द्रियेणैकदा मनः सम्बद्ध्यते न तदा परेण तस्य सूक्ष्मत्वादिति सिद्धा युगपज्ज्ञानानुस्पतिर्मनो निमित्तेति, मैवम्, तस्यात्मसम्बन्धसमये श्रोत्रसंज्ञकेन नमसा संयोगात् संयुसमवायाविशेषात् सुखादिवच्छन्दोपलब्धिरपि तदैव भवेत्, ततो निमित्तस्य समानत्वेऽपि युगपज्ज्ञानानुदयेन निमित्तान्तरकल्पनाप्रसङ्गात् । न च· कर्णशष्कुल्यवच्छिन्ना काशदेशस्य श्रोत्रत्वात् तेन च तदा मनसः सम्बन्धाभाव इति वाच्यम्, निरंशत्याकाशस्य प्रदेशाभा10 वात् । न च संयोगस्याव्याप्यवृत्तित्वं प्रदेशव्यपदेशनिमित्तम्, उपचरितस्य व्यपदेशमात्रनिबम्धनस्यार्थक्रियायामुपयोगाभावात् न ह्युप चरिताग्नित्वो माणवकः पाकनिर्वर्तनसमर्थो दृष्टः । -किंश्च चक्षुरादीन्द्रियसम्बन्धाद्रूपादिज्ञानोत्पत्तिकाले मनसः सम्बद्धसम्बन्धान्मानसज्ञानमषि भवेत्, तथाविधादृष्टाभावादिति चेत्तर्हि युगपज्ज्ञानान्यप्यदृष्टाभावादेव न भवन्तीति न मनः सिद्ध्येत् । अश्वविकल्पसमये गोदर्शनानुभवाद्युगपज्ज्ञानानुत्पत्तिश्चासिद्धा, न च तयोः 15 क्रमिकत्व मध्यक्ष विरोधात् । न चोत्पलपत्रशतव्यतिभेदवदाशुवृत्तेः क्रमेऽपि यौगपद्याभिमानः, अध्यक्ष सिद्धस्य दृष्टान्तमात्रेणान्यथाकर्तुमशक्तेः, क्षयोपशमापेक्षस्य चात्मनो युगपत् स्वपरप्रकाशस्वभावस्य स्वयममूर्त्तस्याप्राप्तार्थग्राहिणो युगपत्स्वविषयग्रहणे न कश्विद्विरोध इति कुतो न युगपज्ज्ञानोत्पत्तिर्भवेत् । ननु 'जुगवं दो णत्थि उवओगा [ आवश्यकनि० गा ९७९ ] इति वचनाद्भवतोऽपि युगपज्ज्ञानानुत्पत्तिः सिद्धैव, न, अस्य मानसविकल्पद्वययौगपद्यनिषेधपरत्वात् इन्द्रियमनोविज्ञानयोर्योगपद्यानिषेधात् । न च विवादास्पदीभूतानि ज्ञानानि क्रमभावीनि ज्ञानत्वात्, मानसविकल्पहयवदित्यनुमानाद्युगपज्ज्ञानानुत्पत्तिसिद्धिरिति वाच्यम, अस्य प्रत्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टत्वात् । एवञ्च मनसोऽसिद्धेर्न ततोऽप्याश्रयः सिद्धः । न च घटादिज्ञानज्ञानमिन्द्रियार्थसन्निकर्षजम्, प्रत्यक्षत्वे सति ज्ञानत्वादित्यनुमानेन तत्सिद्धिरिति वाच्यम्, हेतोरस्याप्रसिद्धविशे25 षणत्वात्, घटादिज्ञानज्ञानस्याध्यक्षत्वासिद्धेः, मन इन्द्रियसिद्धौ तस्याभ्यक्षता सिद्धिस्तत्सिद्धौ सविशेषण हेतु सिद्ध्या मनइन्द्रियसिद्धिरित्यन्योन्याश्रयात्, घटज्ञानाद्भिन्नस्य तद्राहकस्य परस्य ज्ञानस्याननुभवाद्धेतोर्विशेष्यासिद्धत्वात्, अध्यक्षत्वे सति ज्ञानत्वस्य सुखसंवेदने सत्त्वेन व्यभिचाराच्च । न चेदमपि पक्षीक्रियत इति वाच्यम्, व्यभिचारित्वप्रसिद्ध्यापत्तेः, अनित्यः शब्दः प्रमेयत्वाद्धटवदित्यादावपि व्यभिचारविषयात्मादेरपि पक्षीकरणसम्भवात् । । १९४ 20 "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy