SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ सोपानम् ] erपर निर्णय स्वभावस्थापनम् । : १५३ । न्तरेण कार्यभेदो नोपपद्यत इति वाच्यम्, कारणशक्तिभेदमन्तरेणापि न कार्यभेद उपपद्यत इत्यभ्युपगमप्रसङ्गात् । न च यया शक्त्या एकमनेकाइशक्तीर्विभर्ति तत्राप्यपरापरशक्तिपरिकल्पनेऽनवस्थाप्रसङ्गात्कारणजात्यैव तदनेकं कार्यं विधास्यतीति न शक्तिभेद परिकल्पनेति कथाचिच्छक्त्या भिन्नाः शक्तीभिर्तत्यिनभ्युपगमात्, किन्तु स्वकारणकलापात्परमाण्वादेरनेकशक्त्यात्मकतयैवोत्पादात् न चैकमनेकात्मकमदृष्टमिति वाच्यम्, नानारूपा - 5 मकैकपटादेः प्रमाणतः प्रतिपतेः, अन्यथा समवायस्याभावाद्गुणगुणिभाव एव न स्यात् । तस्मात्सकलकारणानि नित्यानि चेत्साकल्यजननस्वभावानि तर्हि सकलकालभा विसाकल्यस्य तदैवोत्पत्तिप्रसक्तिः नो चेत्तज्जननस्वभावानि नैकदापि तदुत्पत्तिरतज्जननस्वभावाविशेषात्, नित्यस्यानुपकार्यतया सहकार्यपेक्षाभावेन तदपेक्षया जनकत्वस्याप्यसम्भवाच्च । नापि पदार्थान्तरं साकल्यम्, निखिलपदार्थान्तरस्य साकल्यरूपताप्रसङ्गात्, तथा च यस्य कस्य- 10 चित्पदार्थान्तरस्य सद्भावे सकलार्थोपलब्धिर्भवेदिति सर्वदा सर्वस्य सर्वज्ञताप्रसङ्ग इति न कारकसाकल्यं प्रमाणम्, एतेन प्रमातृप्रमेययोरभावे साकल्याभाव इति निरस्तम् । सन्निपत्यजननस्वरूपं साधकतमत्वमपि तस्य साकल्यरूपतया तत्प्रतिषेधे प्रतिषिद्धमेव । तस्मात् प्रमाणं स्वार्थनिर्णीतस्वभावं ज्ञानमित्येतदेव प्रमाणसामान्यलक्षणमनवद्यम् ॥ वाच्यम्, इति तपोगच्छनभोमणि श्रीमद्विजयानंदसूरीश्वर पट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा सङ्कलितस्य सम्मतितत्त्व सोपानस्य प्रमाणप रीक्षणं नाम त्रयोविंशं सोपानम् ॥ २५ • - अथ स्वपर निर्णयस्वभावस्थापनम् । ननु कथमर्थनिर्णीतिस्वभावं ज्ञानं स्वनिर्णीतिस्वभावमपि घटादिज्ञानं स्वग्राह्यं न भवति, ज्ञानान्तरमाह्यं बा, ज्ञेयत्वाद्धादिवदिति बाधकस्यानुमानस्य सद्भावादिति नैयायिकाः वदन्ति तन्न हेतोः स्वरूपासिद्धत्वादाश्रयासिद्धत्वाच्च, धर्मी हि ज्ञानं तच्च न प्रमाणसिद्धम्, ततश्च कथं तदाश्रितज्ञेयत्वधर्मप्रतिपत्तिः, न हि धर्मिप्रसिद्धिरध्यक्षेण, ज्ञानस्येन्द्रियेणासन्न - कर्षात्तज्जन्यतत्प्रत्यक्षासम्भवात् । ननु संयुक्तसमवायलक्षणसन्निकर्षेण मनसा तत्प्रत्यक्षं भवति 25 आत्मना हि मनः संयुक्तमात्मनि च ज्ञानं समवेतमिति तत्प्रत्यक्षेण घटादिज्ञानस्य ग्राह्यत्वात्कथमाश्रयासिद्ध्यादिदुष्टो हेतुरिति चेन्न मनसोऽसिद्धेः न च नानेन्द्रियविषयात्मसन्निधा "Aho Shrutgyanam" 15 20
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy