SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ सम्मतितस्वसोपाने [प्रयोविंशम् भावे वा न कारकसाकल्यम् । न च तेषामेव कर्तकर्मरूपत्वम, तेषां करणत्वानुपपत्तेः कर्तृत्वकर्मत्वकरणत्वानां परस्परं विरोधात्, कर्तृत्वं हि ज्ञानचिकीर्षाधारत्वं स्वतंत्रता वा, कर्मत्वं निवर्त्यविकार्यप्राप्यादिधर्मयोगित्वम्, प्रधानक्रियानाधारत्वश्च करणत्वं विरुद्धान्ये. तानि कथमेकत्र सम्भवन्ति । न च भिन्न भिन्ननिमित्तभेदात्तेषामविरोध इति वाच्यम् , 5 निमित्तानां तेषां सकलकारकेभ्योऽभेदे कर्तृत्वादीनामप्यभेदात् , भेदे वा तेषां कारक स्यापि भेदात्, सकलकारकभिन्नत्वे च सम्बन्धासिद्धेः, समवायादीनां निषिद्धत्वात् । विशेषणविशेष्यभावादिकोऽपि न सम्बन्धस्तत्रापि सम्बन्धान्तरकल्पनातोऽनवस्थाप्रसङ्गात् , न च तस्य सम्बन्धरूपतया न सम्बन्धान्तरकल्पनाप्रसङ्ग इति वाच्यम , एकान्तभेदे सम्बन्धरूपताया एवायोगात् । न द्वितीयः, तस्यापि कारकाव्यतिरिक्तत्वे धर्ममात्रस्य 10 कारकमात्रस्य वा प्रसङ्गात् , व्यतिरिक्तत्वे कारकैस्तस्य सम्बन्धासिद्धिः सकलकारणेषु च युगपत्तस्य सम्बन्धे तद्गतबहुत्वसंयोगविभागसामान्यानामन्यतमस्वरूपापत्तिरिति तद्षणेनैतस्यापि दूषितत्वात् । नापि तृतीयः पक्षः, नित्यानां साकल्यजननस्वभावत्वे सवंदा तदुत्पत्तिप्रसङ्गात् , ततश्चैकप्रमाणोत्पत्तिसमये सकलतदुत्पाद्यनमाणोत्पत्तिप्रसङ्गः, त. जनकस्वभावस्थ कारणेषु पूर्वोत्तरकालभाविनस्तदैव भावात् , तथाहि यजनकं यदाs15 स्ति तत्तदोत्पत्तिमत्, यथा तत्कालाभिमतं प्रमाणम् , अस्ति च पूर्वोत्तरकालभाविना सर्वप्रमाणानां तदा नियाभिमतं जनकमात्मादिकं कारणमिति कथं न तदुत्पाद्यसकलप्रमाजोत्पत्तिप्रसङ्गः, अन्यथा सत्कारणमेव तन्न भवेदिति सकृदपि तत्ततो न स्यात् ततश्च प्रमाणविकलं जगत् स्यात्, न च तत्करणसमर्थे आत्मादिके सत्यपि प्रमाणानि स्वकाल एव भवन्तीति वाच्यम् , तत्कार्यवाभावप्रसङ्गात् , सत्यपि तस्मिन् तदाऽभावात् , स्वयमेवा20 न्यदा च भावात् । न च स्वकालेऽपि कारणे सत्येव भवन्तीति तत्कार्यत्वमिति वाच्यम् , गगनादीनामपि सत्त्वे तेषां भावाद्गगनादिकार्यताप्रसङ्गात् , न चेष्टापत्तिः प्रमितिलक्षणस्य तत्फलस्यापि व्योमादिजन्यतयाऽऽत्मानात्मविभागाभावप्रसङ्गात् , न च प्रमितिर्यत्र समवेता स आत्मा नान्य इति विभागसम्भवः, समवायस्य नित्यैकसर्वगतत्वेन प्रमितेव्योमा दावपि समवेतताप्रसक्तेः, समवायाविशेषेऽपि समवायिनोविशेषाङ्गीकारेण तत्परिहारे तु 25 समवायाभावप्रसङ्गात्, तत एव विशेषान्नियमसम्भवात् । अथ यदा यत्र यथा यद्भवति तदा तत्र तथा तदात्मादिकं कर्तुं समर्थमिति नैकदा सकलतदुत्पाद्यपमाणोत्पत्तिप्रसङ्ग इति चेन्न, स्वभावभूतसामर्थ्य भेदमन्तरेण कार्यस्य कालादिभेदायोगात्, अन्यथा दृश्यपृथिव्यादिमहाभूतकार्यनानात्वस्य कारणं किमर्थमदृष्टं पृथिवीपरमाण्यादिचतुर्विधमभ्युपगम्यते, एकमेवानंशं नित्यं सर्वगतं सर्वोत्पत्तिमतां समवायिकारणमभ्युपगम्यताम् । न च कारणजातिभेदम "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy