________________
सोपानम् |
प्रमाणविचारः ।
: १९१ :
स्वासाधकतमस्याभावे तदपेक्षया साधकतमत्वस्यानुपपत्तेः, असाधकतममपेक्ष्य साधकतम - त्वव्यवस्थिते: । न चानेककारकजन्यत्वेऽपि कार्यस्य विवक्षातः कारकाणि भवन्तीति न्यायात्साधकतमत्वं विवनात इति वक्तव्यम्, पुरुषेच्छानिबन्धनत्वेन वस्तुव्यवस्थितेरयोगात् । अथ कर्मकर्तृविलक्षणस्याव्यभिचारादिविशेषणविशिष्टोपलब्धिजनकस्य प्रमाणत्वान्न यथोक्तदोषानुषङ्गः, असदेतत्, अनेकसन्निधानात् कार्यस्य स्वरूपलाभे एकस्य तदुत्पत्तौ वैलक्षण्याभावे सा- 5 धकतमत्वानुपपत्तेः, तन्न कर्मकर्तृवैलक्षण्यमपि साधकतमत्वम् । सन्निपत्यजनकत्वे पूर्वोदितदोषाभाव:, तथाहि अनेकसन्निधौ कार्यनिष्पत्तेः साधकतमत्वानुपपत्तिः, तस्मिंस्तु सति यदा नियमेन कार्यमुपजायते तदा कथं न तस्य साधकतमत्वोपपत्तिः, असदेतत् एवं प्रमाणत्वस्याव्यवस्थितिप्रसक्तेः तथाहि दीपादेः प्रकाशस्य सामग्र्येकदेशस्य कस्याचिदवस्थायां प्रमाणत्वेनाभिमतस्य सद्भावेऽपि प्रमेयाभावात्कार्यानिष्पत्तौ तत्सद्भावे तु तन्निष्पत्तौ तस्यापि 10 प्रदीपवत् सन्निपत्यकारकत्वात् प्रमाणताप्रसक्तिर्भवेत्, तथा प्रमातुरपि मूर्छाद्यवस्थायामनधाने वाsन्यकारकसन्निधानेऽपि कार्यानुत्पत्तौ तदवधानादिसन्निधाने तज्जन्यकार्यनिष्पत्तेः सन्निपत्यजनकत्वेन साधकतमत्वप्रसक्तिः । अत्र कारकसाकल्यस्य साधकतमत्वेनाभ्युपगमात् पूर्वोक्तदोषाभावं केचिन्मन्यन्ते तथाहि नैकस्य प्रदीपादे: सामग्र्येकदेशस्य कारणता, अपि तु कारकसाकल्यस्य तदभावेऽभावेनाभिमतकार्याभावात् प्रमातृप्रमेयसद्भावे कारकसाकल्य- 15 स्योत्पत्तौ प्रमितिलक्षणस्य कार्यस्य भाव एव । अथ मुख्यप्रमातृप्रमेयसद्भावेऽपि पूर्वोदितस्य नियमस्य तुल्यता न कारकसाकल्यभावाभावनिमित्तत्वात्तन्मुख्य गौणभावस्य, तथाहि कथञ्जि त्कारकवैकल्येतयोः सत्वेऽपि गौणता, तत्साकल्ये कुतश्चिन्निमित्तान्तराद्यथोक्तप्रमितिलक्षकार्यनिष्पत्तावगौणता प्रमातृप्रमेययोः, तयोश्वानुपपत्तौ साकल्यस्यासत्त्वम्, अतः कारकसाकल्ये कार्यस्यावश्यम्भाव इति तस्यैव साधकतमत्वम्, अनेककारकसन्निधाने उपजाय- 20 मानोऽतिशयः सन्निपत्यजननं साधकतमत्वं यद्युच्ये तदा न कश्विद्दोषः तथाहि सामग्र्येकदेशकारकसद्भावेऽपि प्रमिति कार्यस्यानुत्पत्तेरेकदेशस्य न प्रमाणता, सामग्रीसद्भावे त्ववश्यन्तया विशिष्टप्रमितिस्वरूपोत्पत्तेः एकदेशापेक्षया तस्या एव सन्निपत्यजनकत्वेन साधकतमता । न चात्र किमपेक्षया तस्याः साधकतमत्वम्, अन्यस्मिन्नसाधकतमे साधके साथकतरे वा सद्भावे तदपेक्षया तस्याः साधकतमत्वमुपपन्नमिति वाच्यम्, सामथ्र्यन्तर्गतक- 25 देशानां जनकत्वाक्षतेस्तेषामेव सामय्या वर्मरूपतया तदेकदेशापेक्षया तस्याः साधकतम - स्वात् प्रमाणत्वोपपत्तेः, मैत्रम्, यतः कारकसाकल्यं किं सकलान्येव कारकाणि, किंवा तद्धर्मः, उत तत्कार्यम्, अथवा पदार्थान्तरम्, तत्र न प्रथमः, कर्तृकर्मणोर्भावे तेषां करणस्वानुपपत्तेः, तत्सद्भावे वा नान्येषां कर्त्तृकर्मरूपता सकलकार कव्यतिरेकेणान्येषामभावात्
"Aho Shrutgyanam"