SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सम्मतितत्वसोपाने [ प्रयोविंशम् वस्तुनो राशिद्वयेऽन्तर्भावादिति वाच्यम, स्वसंविदितवस्त्वपह्नवस्य युक्तिशतेनापि कर्तुमशक्यत्वात् , उपेक्षणीयं हि वस्तु नेष्टसाधनं न वानिष्टसाधनम् , इष्टानिष्टसाधनयो. यत्नोपादेयत्वहेयत्वदर्शनात्, उपेक्षणीयस्य च यत्नसाध्योपादानत्यागाविषयत्वात् राशिद्वये नान्तर्भाव इति न प्रदर्शकत्वमेव प्रापकत्वम् । न च तव मतेन प्रदर्शितार्थप्रापकत्वं 5 कचिदपि ज्ञाने सम्भवति, तद्धि सन्तानाश्रयेण स्यात् , न च सन्तानः सन्तानिभिन्नतयाः वस्तुसन्मभ्युपगम्यते, क्षणिकवादहानिप्रसङ्गात् , सामान्यानभ्युपगमस्य निर्निबन्धनत्वापत्तेश्चातो न तस्य स्वरूपेण प्रवृत्यादिविषयता । सन्तानिरूपेण च तस्य सत्त्वे सन्तानिन एवं तथाभूता न तद्व्यतिरिक्तः सन्तानः प्रवृत्यादिविषयः, सन्तानिनामुत्पत्त्यनन्तरं ध्वंसादिति न तद्विषयं विज्ञानं प्रदर्शितार्थप्रापकम् , दृश्यप्राप्यनणयोरत्यन्तभेदात् , यत्र हि देश10 कालाकारभेदादभेदेन प्रतीयमानस्यापि वस्तुनो भेदस्तत्र स्वरूपेण भिन्नयोः पूर्वोत्तरक्षणयोः कथमभेदो येन साधननिर्भासिज्ञानं प्रदर्शितार्थप्रापकं स्यात् । संवृत्त्या सन्तानस्य स्वरूपसिद्धिमभ्युपेत्योक्तदोषवारणे तु लोकव्यवहारानुरोधेन प्रमाणस्य प्रदर्शितार्थप्रापकत्वाभ्युपगमात् कुतो नित्यानित्यवस्तुप्रदर्शकस्य प्रदर्शितार्थप्रापकत्वं नाभ्युपगम्यते, तत्रैव लोकव्यवहारस्यो पपत्तेः । न च तथाविधवस्तुप्राहकं युक्तिवाधितत्वान्निविषयमिति वाच्यम् , सन्तानविषयस्यैव 15 पूर्वोक्तन्यायेन युक्तिवाधितत्वोपपत्तेः, तस्मानाध्यवसितार्थप्रापकं प्रत्यक्षं बौद्धाभ्युपगमेन सम्भवति । अध्यक्षेण हि यदेवोपलब्धं न तदेव तेनाध्यवसितम, न च सन्तानस्तेन पूर्व मुपलब्ध इति कथमसावध्यवसीयते, न हि क्षणमात्रभाविना सन्तानिनों दर्शनविषयत्वे तत्पृष्ठभाविनाऽध्यवसायेन तददृष्टस्यैव विषयीकरणम्, न चान्यथाभूतार्थस्य ग्रहणेऽन्यथाभू ताध्यवसायिनः प्रदर्शितार्थप्रापकत्वं प्रामाण्यं युक्तम् , तथाभ्युपगमे शुक्तिकायां रजताध्यव20 सायिनोऽपि स्यात् प्रदर्शितार्थप्रापकत्वम् । न चात्र प्रवृत्तो न रजतमवाप्नोतीति न प्रदर्शि तार्थप्रापकतेति वाच्यम् , सन्तानेऽध्यवसितेऽपि झणस्य प्राप्त्यभावेन प्रदर्शितार्थप्रापकत्वाभावात् , सन्तानस्य च प्राप्तौ तस्यैव वस्तुसत्त्वात् स्वरूपेण सामान्यधर्माणामसत्त्वाभ्युपगमस्यायुक्तत्वात् , अक्षणिकवस्तुसिद्धेः, तस्मान्नैतन्मतेन परमार्थतः प्रदर्शितार्थप्रापकं प्रमाण सम्भवति इति । नैयायिका अव्यभिचारादिविशेषणविशिष्टार्थोपलब्धिजनिका सामग्री प्रमाणम् , तन्ननकत्वञ्च प्रामाण्यमिति प्रतिपन्नाः । अथ सामग्र्याः प्रमाणत्वे साधकतमत्वमनुपपन्नम् , सामग्री ह्यनेककारकस्वभावा, तत्र चानेककारकसमुदाये कस्य स्वरूपेणातिशयो वक्तुं शक्यते, तथाहि सर्वस्मात्कारणकलापात् कार्यमुपजायमानमुपलभ्यते, तदन्यतमापायेऽप्यनुपजायमान कस्य कार्योत्पादने साधकतमत्वमावेदयतु । न च समस्तसामग्र्याः साधकतमत्वम् , अपर "Aho Shrutgyanam"
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy