________________
सोपानम् ]
: १८९ :
वादकत्वञ्च प्राप्तिनिमित्तप्रवृत्तिहेतुभूतार्थक्रियाप्रसाधकार्थप्रदर्शकत्वम्, अर्थक्रियार्थी हि पुरुषोऽर्थक्रियानिर्वर्तनसमर्थमर्थमवाप्तुकामः प्रमाणमन्वेषते, यदेव चार्थक्रियानिर्वर्त्तकवस्तुप्रदर्शकं तदेव तेनान्विष्यते, प्रत्यक्षानुमाने एव तथाभूतार्थप्रदर्शके न ज्ञानान्तरमिति ते एव लक्षणा तयोश्च द्वयोरप्यविसंवादकत्वमस्ति लक्षणम्, प्रत्यक्षेण अर्थक्रियासाधनं दृष्टतयावगतं प्रदर्शितं भवति, अनुमानेन तु दृष्टलिङ्गाव्यभिचारितयाऽध्यवसित- 5 मित्यनयोः प्रदर्शकत्वमेत्र प्रापकत्वम्, न ह्याभ्यां प्रदर्शितेऽर्थे प्रवृत्तौ न प्राप्तिरिति नान्यत् प्रदर्शकत्वव्यतिरेकेण प्रापकत्वम्, तश्च शक्तिरूपम्, प्रत्यक्षस्य क्षणो ग्राह्यः, स च न प्राप्तिविषयो निवृत्तत्वात्, सन्तानस्त्वध्यवसेयः प्रवृत्तिपूर्विकाया प्राप्तेर्विषय इति तद्विषयं प्रदशितार्थप्रापकत्वमध्यक्षस्य प्रामाण्यम्, अनुमानेन त्वारोपितं वस्तु गृहीतं स्वाकारो वा तयोद्वयोरप्यवस्तुत्वान्न प्रवृत्तिविषयतेति न तद्विषयं तस्य प्रापकत्वमपि तु आरोपितबाह्ययोरभे- 10 दाध्यवसायेन वस्तुन्येव प्रवर्त्तकत्वप्रापकत्वे द्रष्टव्ये, तेनानुमानस्य ग्राह्योऽनर्थः प्राप्यस्तु बाह्यः स्वाकाराभेदेनाध्यवसित इति तद्विषयमस्यापि प्रदर्शितार्थप्राप्रकत्वं प्रामाण्यम्, प्रमा णस्य प्रापणशक्तिश्चार्थाविनाभावनिमित्ता दर्शनपृष्ठभाविना विकल्पेन निश्चीयते, तथाहि दर्शनं तोऽर्थादुत्पन्नं तद्दर्शकमात्मानं स्वानुरूपावसायोत्पादनान्निश्चिन्वदर्थाविनाभावित्वं प्रापणशक्तिनिमित्तं प्रामाण्यं स्वतो निश्चिनोतीत्युच्यते न पुनर्ज्ञानान्तरं तन्निश्चायकमपेक्षते, 15 अर्थानुभूताविव ततोऽविसंवादकत्वमेव प्रमाणलक्षणं युक्तमिति तन्न युक्तम् । अर्थप्रदर्शकत्वस्यैव प्रापकत्वाभावात् पुरुषेच्छाधीनप्रवृत्तिनिमित्तत्वात् सति वस्तुन्यर्थ प्राप्तेः । उपेक्षणीये च विषये पुरुषस्य तद्विषयार्थित्वाद्यभावे प्राप्तिपरित्यागयोरभावेऽपि तत्प्रर्शकत्वलक्षणस्य प्रामाण्यस्य न कश्चिद्व्याघात उपलभ्यते । न चेष्टानिष्टसाधनार्थव्यतिरेकेणोपेक्षणीयार्थान्तरस्याभावात्कथं प्रापकत्वाभावेऽपि प्रदर्शकत्वसम्भवः, सर्वस्य :20
प्रमाणविचारः ।
१ प्रत्यक्षस्य विषयो द्विविधः सकलसजातीयविजातीयव्यावृत्तेः स्वलक्षणाख्योः प्राह्यरूप एकः, अर्थस्य प्रातात्वं स्वीकारज्ञानजनकत्वमेव । ज्ञानस्य च ग्राहकत्वमर्थाकारतया उत्पादः । अपरश्चाध्यवसेयः, सन्तानरूपः, तस्य वाध्यवसेयत्वमगृहीतस्यापि प्रवृत्तिविषयत्वम्, उपादानोपादेयभावावना बहवः स्वलक्षणक्षणा: सन्तानः, अध्यवसेयार्थ संतानापेक्षयैव प्रत्यक्षस्य प्रामाण्यव्यवस्था, तस्मात्सन्तानाध्यवसाये सत्य विसंवादकत्वेन प्रत्यक्षस्य प्रामायम् । प्रत्यक्षेण सन्तानाध्यवसायः कथमिति चेत् प्रत्यक्षजन्यविकल्पेन सन्तानस्याध्यवसितत्वात्सः प्रत्यक्षेणाध्यवसित इत्यभिधीयते । अनुमानस्यापि प्राद्याध्यवसेयतया द्विविधो विषयः, तत्राभ्यवसेयं स्वलक्षणम्, जातेऽनुमानेऽध्यवसायादर्थक्रियाकारिणि स्वलक्षण एवं प्रमातुः प्रवृत्त्युपलब्धेः । ग्राह्यो विषयः, सामान्यमेव, अनु. माने स्वलक्षणस्यः स्फुरणात् सामान्यस्यार्थक्रियाकारित्वाभावेन परमार्थतोऽनुमानं निर्विषयम्, स्वप्रतिभासेऽनयवसायेन प्रवृत्तत्वाद्धान्तञ्च तथात्वेऽपि प्रणालिकया मूलवस्तुस्वलक्षणप्रभवत्वान्मणिप्रभायां मणिबुद्धिरिव वस्तुप्रात्या प्रापकत्वमिति भावः ॥
"Aho Shrutgyanam"