SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ : १८८ : [ त्रयोविंशम् प्रमा तेन जन्यते, प्रमित्यन्तरोत्पादकत्वेन प्रमाणत्वात् । तस्योत्पादकत्वेऽप्यधिगत विषयतया किञ्चित्करत्वमिति चेन्न, स्वहेतुमन्निधिबलादधिगतमनधिगतं वा वस्तु अधिगच्छतोऽप्रेक्षापूर्व कारित्वेनोपालम्भविषयत्वानुपपत्तेः । न चैकान्ततोऽनधिगतार्थाधिगन्तृत्वे प्रामाण्यं तस्यावसातुं शक्यम्, तद्धि अर्थतथा भावित्वरूपं संवादतस्तदर्थोत्तरज्ञानवृत्तिनोऽवसीयते न 5 चानधिगतार्थाधिगन्तुरेव प्रामाण्ये संवादप्रत्ययस्य प्रामाण्यमुपपन्नम्, न चाप्रमाणेन संवादप्रत्ययेन प्राक्तनस्य प्रामाण्यं व्यवस्थापयितुं शक्यमतिप्रसङ्गात्, अतो यथाऽधिगतार्थाधिगन्तुरर्थक्रिया निर्भासिज्ञानस्य प्रामाण्यं तथा साधननिर्मासिनोऽप्यभ्युपगन्तव्यम् । न च सामान्य विशेषतादात्म्यत्रादिन एकान्ततोऽनधिगतार्थाधिगन्तृत्वं प्रमाणस्य सम्भवति इदानीन्तनास्तित्वस्य पूर्वास्तित्वाभेदात्तस्य च पूर्वमध्यधिगतत्वसम्भवात् कथञ्चिदनधिगतार्थाधिग10 न्तृत्वाऽभ्युपगमेऽस्मन्मतानुप्रवेशप्रसक्तिः । नन्वप्रेक्षापूर्व कारितया प्रमाणस्यानुपलम्भविषयत्वेऽपि पुरुषस्य प्रेक्षापूर्व कारिणोऽधिगतविषयमपि प्रमाणं पर्येषमाणस्योपालम्भविषयता, स हि पूर्वाधिगते वस्तुनि प्रेक्षापूर्वकारी किमित्यधिगमाय प्रमाणान्तरमन्वेषते, निष्पन्न प्रयोजनापेक्षया हेतुं व्यापारयतः प्रेक्षापूर्वका रिताहा निप्रसक्तेः, मैवम्, प्रीत्यतिशयादेः प्रयोजनस्यानिsपन्नस्य भावात् सुखसाधने हि विषये पुनः पुनः प्रमां जनयतः प्रीत्यतिशयजनकत्वेन 15 सप्रयोजनत्वात् प्रमाणान्तरान्वेषणस्य न तदन्वेष्टुः पुरुषस्योपालम्भार्हता । न च निश्चिते वि ये न किञ्चिनिश्चयान्तरेण प्रयोजनम्, भूयो भूय उपलभ्यमाने दृढतरप्रतिपत्तेर्भावात्, सुखसाधनं हि तथैव निश्चित्योपादत्ते दुःखसाधनञ्च तथात्वेन सुनिश्रित्य परित्यजति अन्यथा विपर्ययेणाप्युपादानत्यागौ भवेताम, अत एवैकविषयाणामपि शाब्दानुमानाध्यक्षाणां प्रामाण्यमुपपन्नम् प्रतिपत्तिविशेषस्य प्रीत्यतिशयादेव सद्भावात् । न च प्रथमप्रत्ययेनैवार्थक्रि20 यासमर्थार्थप्रदर्शने प्रवर्त्तितः पुरुषः प्रापितश्चार्थं इति तत्रापर प्रमाणान्वेषणं वैयर्थ्यमनुभवेत्, पुरुषप्रवृत्तेः प्रमाणाधीनत्वाभावाद्विशिष्टप्रमाया एव प्रमाणाधीनत्वात्ताञ्च जनयत उपेक्षणीयादौ विषये प्रमाणस्याप्रवर्त्तकस्यापि प्रमाणत्वेन लोके प्रसिद्धत्वात् प्रवृत्तेस्तु पुरुषेच्छानि - बन्धनत्वात् तद्भावे नोकफलजनकस्य प्रमाणत्वव्याघातः । न च पुरुषार्थसाधनप्रदर्शकत्वमेव तस्य प्रवर्त्तकत्वम्, तत्सद्भावेऽपि प्रवर्त्तितोऽहमनेनात्रेति तद्ग्रहणेच्छाभावे प्रवृत्त्यनुपपत्तेः । न 25 च प्रवृत्त्यभावे तस्य प्रदर्शकत्वलक्षणो निजो व्यापार एव नोपपद्यत इति वक्तव्यम्, प्रतीतिबाधोपपत्तेः, न हि चन्द्रार्काद्यर्थविषयमध्यक्षमप्रवर्त्तकत्वान्न तत्प्रदर्शक मिति लोकप्रतीतिः, तन्न अनधिगतार्थगन्तृत्वमपि ज्ञातृव्यापारविशेषणमुपपत्तिमत् । अतोऽनधिगतार्थाधिगन्ता ज्ञातृव्यापारोऽर्थप्रकटताख्यफलानुमेयो जैमिनीयपरिकल्पितो न प्रमाणमिति स्थितम् ॥ सौगतैश्च प्रमाणमविसंवादिज्ञानमिति वचनादविसंवादकत्वं प्रमाणलक्षणम्, अविसं " सम्मतितत्त्वसोपाने "Aho Shrutgyanam" 3
SR No.009526
Book TitleSammatitattvasopanam
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuriji Jain Granthamala Chhani
Publication Year1946
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy